🪷 Atharvaveda 4.4

Caturtha-Kāṇḍa · Sūkta 4

वाजीकरण १-८ अथर्वा । वनस्पतिः, १-२ सूर्यः, प्रजापतिः, ४ इन्द्रः, ५ आपः, सोमः, ६ अग्निः, सरस्वती, ब्रह्मणस्पतिः। अनुष्टप्, ४ पुरउष्णिक्, ६-७ भुरिक्। यां त्वा॑ गन्ध॒र्वो अख॑न॒द् वरु॑णाय मृ॒तभ्र॑जे । तां त्वा॑ व॒यं ख॑नाम॒स्योष॑धिं शेप॒हर्ष॑णीम्॥१॥ उदु॒षा उदु॒ सूर्य॒ उदि॒दं मा॑म॒कं वचः॑ । उदे॑जतु प्र॒जाप॑ति॒र्वृषा॒ शुष्मे॑ण वा॒जिना॑ ॥२॥ यथा॑ स्म ते वि॒रोह॑तो॒ऽभित॑प्तमि॒वान॑ति । तत॑स्ते॒ शुष्म॑वत्तरमि॒यं कृ॑णो॒त्वोष॑धिः ॥३॥ उच्छुष्मौष॑धीनां॒ सार॑ ऋष॒भाणा॑म्। सं पुं॒सामि॑न्द्र॒ वृष्ण्य॑म॒स्मिन्धे॑हि तनूवशिन्॥४॥ अ॒पां रसः॑ प्रथम॒जोऽथो॒ वन॒स्पती॑नाम्। उ॒त सोम॑स्य॒ भ्राता॑स्यु॒तार्शम॑सि॒ वृष्ण्य॑म्॥५॥ अ॒द्याग्ने॑ अ॒द्य स॑वितर॒द्य दे॑वि सरस्वति । अ॑द्यास्य ब्र॑ह्मणस्पते॒ धनु॑रि॒वा ता॑नया॒ पसः॑ ॥६॥ आहं त॑नोमि ते॒ पसो॒ अधि॒ ज्यामि॑व॒ धन्व॑नि । क्रम॒स्वर्श॑ इव रो॒हित॒मन॑वग्लायता॒ सदा॑ ॥७॥ अश्व॑स्याश्वत॒रस्या॒जस्य॒ पेत्व॑स्य च । अथ॑ ऋष॒भस्य॒ ये वाजा॒स्तान॒स्मिन्धे॑हि तनूवशिन्॥८॥
— Atharvaveda Kāṇḍa 4 · Sūkta 4 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷