🪷 Atharvaveda 4.36

Caturtha-Kāṇḍa · Sūkta 36

सत्यौजा अग्निः। १-१० चातनः। सत्यौजा अग्निः। अनुष्टुप्, ९ भुरिक्। तान्त्स॒त्यौजाः॒ प्र द॑हत्व॒ग्निर्वै॑श्वान॒रोवृषा॑ । यो नो॑ दुर॒स्याद् दिप्सा॒च्चाथो॒ यो नो॑ अराति॒यात्॥१॥ यो नो॒ दिप्स॒ददि॑प्सतो॒ दिप्स॑तो॒ यश्च॒ दिप्स॑ति । वै॒श्वा॒न॒रस्य॒ दंष्ट्र॑योर॒ग्नेरपि॑ दधामि॒ तम्॥२॥ य आ॑ग॒रे मृ॒गय॑न्ते प्रतिक्रो॒शेऽमावा॒स्ये। क्र॒व्यादो॑ अ॒न्यान् दिप्स॑तः॒ सर्वां॒स्तान्त्सह॑सा सहे ॥३॥ सहे॑ पिशा॒चान्त्सह॑सैषां॒ द्रवि॑णं ददे । सर्वा॑न् दुरस्य॒तो ह॑न्मि॒ सं म॒ आकू॑तिरृद्यताम्॥४॥ ये दे॒वास्तेन॒ हास॑न्ते॒ सूर्ये॑ण मिमते ज॒वम्। न॒दीषु॒ पर्व॑तेषु॒ ये सं तैः प॒शुभि॑र्विदे ॥५॥ तप॑नो अस्मि पिशा॒चानां॑ व्या॒घ्रो गोम॑तामिव । श्वानः॑ सिं॒हमि॑व दृ॒ष्ट्वा ते न वि॑न्दन्ते॒ न्यञ्च॑नम्॥६॥ न पि॑शा॒चैः सं श॑क्नोमि॒ न स्ते॒नैर्न व॑न॒र्गुभिः॑ । पि॒शा॒चास्तस्मा॑न्नश्यन्ति॒ यम॒हं ग्राम॑मावि॒शे॥७॥ यं ग्राम॑मावि॒शत॑ इ॒दमु॒ग्रं सहो॒ मम॑ । पि॒शा॒चास्तस्मा॑न्नश्यन्ति॒ न पा॒पमुप॑ जानते ॥८॥ ये मा॑ क्रो॒धय॑न्ति लपि॒ता ह॒स्तिनं॑ म॒शका॑ इव । तान॒हं म॑न्ये॒ दुर्हि॑ता॒न् जने॒ अल्प॑शयूनिव ॥९॥ अ॒भि तं निरृ॑तिर्धत्ता॒मश्व॑मिवाश्वाभि॒धान्या॑ । म॒ल्वो यो मह्यं॒ क्रुध्य॑ति॒ स उ॒ पाशा॒न्नमु॑च्यते ॥१०॥
— Atharvaveda Kāṇḍa 4 · Sūkta 36 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷