🪷 Atharvaveda 4.22

Caturtha-Kāṇḍa · Sūkta 22

अमित्रक्षयणम्। १-७ वसिषठः, अथर्वा वा। क्षत्रियो राजा, इन्द्रश्च। त्रिष्टुप्। इ॒ममि॑न्द्र वर्धय क्ष॒त्रियं॑ म इ॒मं वि॒शामे॑क वृ॒षं कृ॑णु॒ त्वम्। निर॒मित्रा॑नक्ष्णुह्यस्य॒ सर्वां॒स्तान् र॑न्धयास्मा अहमुत्त॒रेषु॑ ॥१॥ एमं भ॑ज॒ ग्रामे॒ अश्वे॑षु॒ गोषु॒ निष्टं भ॑ज॒ यो अ॒मित्रो॑ अ॒स्य। वर्ष्म॑ क्ष॒त्राणा॑म॒यम॑स्तु॒ राजेन्द्र॒ शत्रुं॑ रन्धय॒ सर्व॑म॒स्मै॥२॥ अ॒यम॑स्तु धन॑पति॒र्धना॑नाम॒यं वि॒शां वि॒श्पति॑रस्तु॒ राजा॑ । अ॒स्मिन्नि॑न्द्र॒ महि॒ वर्चां॑सि धेह्यव॒र्चसं॑ कृणुहि॒ शत्रु॑मस्य ॥३॥ अ॒स्मै द्यावा॑पृथिवी॒ भूरि॑ वा॒मं दु॑हाथां घर्म॒दुघे॑ इव धे॒नू। अ॒यं राजा॒ प्रि॒य इन्द्र॑स्य भूयात् प्रि॒यो गवा॒मोष॑धीनां पशू॒नाम्॥४॥ यु॒नज्मि॑ त उत्त॒राव॑न्त॒मिन्द्रं॒ येन॒ जय॑न्ति॒ न प॑रा॒जय॑न्ते । यस्त्वा॒ कर॑देकवृ॒षं जना॑नामु॒त राज्ञा॑मुत्तमं मा॑न॒वाना॑म्॥५॥ उत्त॑र॒स्त्वमध॑रे ते स॒पत्ना॒ ये के च॑ राज॒न् प्रति॑शत्रवस्ते । ए॒क॒वृ॒ष इन्द्र॑सखा जिगी॒वां छ॑त्रूय॒तामा भ॑रा॒ भोज॑नानि ॥६॥ सिं॒हप्र॑तीको॒ विशो॑ अद्धि॒ सर्वा॑ व्या॒घ्रप्र॑ती॒कोऽव॑ बाधस्व॒ शत्रू॑न्। ए॒क॒वृ॒ष इन्द्र॑सखा जिगी॒वां छ॑त्रूय॒तामा खि॑दा॒ भोज॑नानि ॥७॥
— Atharvaveda Kāṇḍa 4 · Sūkta 22 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷