🪷 Atharvaveda 4.1

Caturtha-Kāṇḍa · Sūkta 1

१-७ वेनः। बृहस्पतिः, आदित्यः। त्रिष्टुप् २, ५ पुरोऽनुष्टुप्। ब्रह्मविद्या। ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द् वि सी॑म॒तः सु॒रुचो॑ वे॒न आवः । स बु॒ध्न्याऽउप॒माअ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ वि व॑ ॥१॥ इ॒यं पित्र्या॒ राष्ट्र्ये॒त्वग्रे॑ प्रथ॒माय॑ ज॒नुषे॑ भुवने॒ष्ठाः । तस्मा॑ ए॒तं सु॒रुचं॑ ह्वा॒रम॑ह्यं घ॒र्मं श्री॑णन्तु प्रथ॒माय॑ धा॒स्यवे॑ ॥२॥ प्र यो ज॒ज्ञे वि॒द्वान॑स्य॒ बन्धु॒र्विश्वा॑ दे॒वानां॒ जनि॑मा विवक्ति । ब्रह्म॒ ब्रह्म॑ण॒ उज्ज॑भार॒ मध्या॑न्नी॒चैरु॒च्चै स्व॒धा अ॒भि प्र त॑स्थौ ॥३॥ स हि दि॒वः स पृ॑थि॒व्या ऋ॑त॒स्था म॒ही क्षेमं॒ रोद॑सी अस्कभायत्। म॒हान् म॒ही अस्क॑भाय॒द् वि जा॒तो द्यां सद्म॒ पार्थि॑वं च॒ रज॑ ॥४॥ स बु॒ध्न्यादा॑ष्ट्र ज॒नुषो॒ऽभ्यग्रं बृह॒स्पति॑र्दे॒वता॒ तस्य॑ स॒म्राट्। अह॒र्यच्छुक्रं ज्योति॑षो॒ जनि॒ष्टाथ॑ द्यु॒मन्तो॒ वि व॑सन्तु॒ विप्रा॑ ॥५॥ नू॒नं तद॑स्य का॒व्यो॑ हि॑नोति म॒हो दे॒वस्य॑ पू॒र्व्यस्य॒ धाम॑ । ए॒ष ज॑ज्ञे ब॒हुभि॑ सा॒कमि॒त्था पूर्वे॒ अर्धे॒ विषि॑ते स॒सन्नु॥६॥ योऽथ॑र्वाणं पि॒तरं॑ दे॒वब॑न्धुं॒ बृह॒स्पतिं॒ नम॒साव॑ च॒ गछा॑त्। त्वं विश्वे॑षां जनि॒ता यथास॑ क॒विर्दे॒वो न दभा॑यत् स्व॒धावा॑न्॥७॥
— Atharvaveda Kāṇḍa 4 · Sūkta 1 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷