🪷 Atharvaveda 3.4

Tṛtīya-Kāṇḍa · Sūkta 4

प्रजाभी राज्ञः संवरणम्। १-७ अथर्वा। इन्द्रः, २ पञ्च प्रदिशः, ४ अश्विनौ, मित्रावरुणौ, विश्वे देवाः, मरुतः, ५ द्यावापृथिवी। त्रिष्टुप्, १ जगती, ४-५ भुरिक्। आ त्वा॑ गन् रा॒ष्ट्रं स॒ह वर्च॒सोदि॑हि प्रा॑ङ्वि वि॒शां पति॑रेक॒राट् त्वं वि रा॑ज । सर्वा॑स्त्वा राजन् प्र॒दिशो॑ ह्वयन्तूप॒सद्यो॑ नम॒स्योऽ भवे॒ह॥१॥ त्वां विशो॑ वृणतां रा॒ज्याऽय॒ त्वामि॒माः प्र॒दिशः॒ पञ्च॑ दे॒वीः । वर्ष्म॑न् रा॒ष्ट्रस्य॑ क॒कुदि॑ श्रयस्व॒ ततो॑ न उ॒ग्रो वि भ॑जा॒ वसू॑नि ॥२॥ अच्छ॑ त्वा यन्तु ह॒विनः॑ सजा॒ता अ॒ग्निर्दू॒तो अ॑जि॒रः सं च॑रातै । जा॒याः पु॒त्राः सु॒मन॑सो भवन्तु ब॒हुं ब॒लिं प्रति॑ पश्यासा उ॒ग्रः ॥३॥ अ॒श्विना॒ त्वाग्रे॑ मि॒त्रावरु॑णो॒भा विश्वे॑ दे॒वा म॒रुत॑स्त्वा ह्वयन्तु । अधा॒ मनो॑ वसु॒देया॑य कृणुष्व॒ ततो॑ न उ॒ग्रो वि भ॑जा॒ वसू॑नि ॥४॥ आ प्र द्र॑व पर॒मस्याः॑ परा॒वतः॑ शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म्। तद॒यं राजा॒ वरु॑ण॒स्तथा॑ह॒ स त्वा॒यम॑ह्व॒त् स उपे॒दमेहि॑ ॥५॥ इन्द्रे॑न्द्र मनु॒ष्याः॒३ परे॑हि॒ सं ह्यज्ञा॑स्था॒ वरु॑णैः संविदा॒नः । स त्वा॒यम॑ह्व॒त् स्वे स॒धस्थे॒ स दे॒वान् य॑क्ष॒त् स उ॑ कल्पया॒द् विशः॑ ॥६॥ प॒थ्याऽ रे॒वती॑र्बहु॒धा विरू॑पाः॒ सर्वाः॑ सं॒गत्य॒ वरी॑यस्ते अक्रन्। तास्त्वा॒ सर्वाः॑ संविदा॒ना ह्व॑यन्तु दश॒मीमु॒ग्रः सु॒मना॑ वशे॒ह॥७॥
— Atharvaveda Kāṇḍa 3 · Sūkta 4 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷