🪷 Atharvaveda 3.20

Tṛtīya-Kāṇḍa · Sūkta 20

रयिसंवर्धनम्। १-१० वसिष्ठः। १-२ अग्निःच ३ अर्यमा, भगः, बृहस्पतिः, देवीः, ४ सोमः, अग्निः, आदित्यः, विष्णुः, ब्रह्मा, बृहस्पतिः, ५ अग्निः, ६ इन्द्रवायू, ७ अर्यमा, बृहस्पतिः, इन्द्रः, वातः, विष्णुः, सरस्वती, सविता, वाजी, ८ विश्वा भुवनानि, ९ पञ्च प्रदिशः, १० वायुस्त्वष्टा। अनुष्टुप्, ६ पथ्यापङ्क्तिः, ८ विराड् जगती। अ॒यं ते॒ योनि॑रृ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः । तं जा॒नन्न॑ग्न॒ आ रो॒हाधा॑ नो बर्धय र॒यिम्॥१॥ अग्ने॒ अच्छा॑ वदे॒ह नः॑ प्र॒त्यङ् नः॑ सु॒मना॑ भव । प्र णो॑ यच्छ विशां पते धन॒दा अ॑सि न॒स्त्वम्॥२॥ प्र णो॑ यच्छत्वर्य॒मा प्र भगः॒ प्र बृह॒स्पतिः॑ । प्र दे॒वीः प्रोत सू॒नृता॑ र॒यिं दे॒वी द॑धातु मे ॥३॥ सोमं॒ राजा॑न॒मव॑से॒ऽग्निं गी॒र्भिर्ह॑वामहे । आ॒दि॒त्यं विष्णुं॒ सूर्यं॑ ब्र॒ह्माणं॑ च॒ बृह॒स्पति॑म्॥४॥ त्वं नो॑ अग्ने अ॒ग्निभि॒र्ब्रह्म॑ य॒ज्ञं च॑ वर्धय । त्वं नो॑ देव॒ दात॑वे र॒यिं दाना॑य चोदय ॥५॥ इ॒न्द्र॒वा॒यू उ॒भावि॒ह सु॒हवे॒ह ह॑वामहे । यथा॑ नः॒ सर्व॒ इज्जनः॒ संग॑त्यां सु॒मना॒ अस॒द् दान॑कामश्च नो॒ भुव॑त्॥६॥ अ॒र्य॒मणं॒ बृह॒स्पति॒मिन्द्रं॒ दाना॑य चोदय । वातं॒ विष्णुं॒ सर॑स्वतीं सवि॒तारं॑ च वा॒जिन॑म्॥७॥ वाज॑स्य॒ नु प्र॑स॒वे सं ब॑भूविमे॒मा च॒ विश्वा॒ भुव॑नान्य॒न्तः । उ॒तादि॑त्सन्तं दापयतु प्रजा॒नन् र॒यिं च॑ नः॒ सर्व॑वीरं॒ नि य॑छ ॥८॥ दु॒ह्रां मे॒ पञ्च॑ प्र॒दिशो॑ दु॒ह्रामु॒र्वीर्य॑थाब॒लम्। प्रापे॑यं सर्वा॒ आकू॑ती॒र्मन॑सा॒ हृद॑येन च ॥९॥ गो॒सनिं॒ वाच॑मुदेयं॒ वर्च॑सा मा॒भ्युदि॑हि । आ रु॑न्धां स॒र्वतो॑ वा॒युस्त्वष्टा॒ पोषं॑ दधातु मे ॥१०॥
— Atharvaveda Kāṇḍa 3 · Sūkta 20 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷