🪷 Atharvaveda 3.2

Tṛtīya-Kāṇḍa · Sūkta 2

शत्रुसेनासंमोहनम्। १-६ अथर्वा। सेनामोहनम्, १-२ अग्निः, ३-४ इन्द्रः, ५ द्यौः, ६ मरुतः। त्रिष्टुप्, २-४ अनुष्टुप्। अ॒ग्निर्नो॑ दू॒तः प्र॒त्येतु॑ वि॒द्वान् प्र॑ति॒दह॑न्न॒भिश॑स्ति॒मरा॑तिम्। स चि॒त्तानि॑ मोहयतु॒ परे॑षां॒ निर्ह॑स्तांश्च कृणवज्जा॒तवे॑दाः ॥१॥ अ॒यम॒ग्निर॑मूमुह॒द् यानि॑ चि॒त्तानि॑ वो हृ॒दि। वि वो॑ धम॒त्वोक॑सः॒ प्र वो॑ धमतु स॒र्वतः॑ ॥२॥ इन्द्र॑ चि॒त्तानि॑ मो॒हय॑न्न॒र्वाङाकू॑त्या चर । अ॒ग्नेर्वात॑स्य॒ ध्राज्या॒ तान् विषू॑चो॒ वि ना॑शय ॥३॥ व्याऽकूतय एषामि॒ताथो॑ चि॒त्तानि॑ मुह्यत । अथो॒ यद॒द्यैषां॑ हृदि तदे॑षां॒ परि॒ निर्ज॑हि ॥४॥ अ॒मीषां॑ चि॒त्तानि॑ प्रतिमो॒हय॑न्ती गृहा॒णाङ्गा॑न्यप्वे॒ परे॑हि । अ॒भि प्रेहि॒ निर्द॑ह हृ॒त्सु शोकै॒र्ग्राह्या॒मित्रां॒स्तम॑सा विध्य॒ शत्रू॑न्॥५॥ अ॒सौ या सेना॑ मरुतः॒ परे॑षाम॒स्मा॑नैत्य॒भ्योज॑सा॒ स्पर्ध॑माना । तां वि॑ध्यत॒ तम॒साप॑व्रतेन॒ यथै॑षाम॒न्यो अ॒न्यं न जा॒नात्॥६॥
— Atharvaveda Kāṇḍa 3 · Sūkta 2 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷