🪷 Atharvaveda 3.15

Tṛtīya-Kāṇḍa · Sūkta 15

वाणिज्यम्। १-८ अथर्वा (पण्यकामः)। विश्वे देवाः, इन्द्राग्नी। त्रिष्टुप्,१ भुरिक्, ४ त्र्यवसाना षट् पदा बृहतीगर्भा विराडत्यष्टिः, ५ विराड्जगती, ७ अनुष्टुप्, ८ निचृत्। इन्द्र॑म॒हं व॒णिजं॑ चोदयामि॒ स न॒ ऐतु॑ पुरए॒ता नो॑ अस्तु । नु॒दन्नरा॑तिं परिप॒न्थिनं॑ मृ॒गं स ईशा॑नो धन॒दा अ॑स्तु॒ मह्य॑म्॥१॥ ये पन्था॑नो ब॒हवो॑ देव॒याना॑ अन्त॒रा द्यावा॑पृथि॒वी सं॒चर॑न्ति । ते मा॑ जुषन्तां॒ पय॑सा घृ॒तेन॒ यथा॑ क्री॒त्वा धन॑मा॒हरा॑णि ॥२॥ इ॒ध्मेना॑ग्न इ॒च्छमा॑नो घृ॒ते॑न जुहो॑मि ह॒व्यं त॑रसे॒ बला॑य । याव॒दीशे॒ ब्रह्म॑णा॒ वन्द॑मान इ॒मां धियं॑ शत॒सेया॑य दे॒वीम्॥३॥ इ॒माम॑ग्ने श॒रणिं॑ मीमृषो नो॒ यमध्वा॑न॒मगा॑म दू॒रम्। शु॒नं नो॑ अस्तु प्रप॒णो वि॑क्र॒यश्च॑ प्रतिप॒णः फ॒लिनं॑ मा कृणोतु । इ॒दं ह॒व्यं सं॑विदा॒नौ जु॑षेथां शु॒नं नो॑ अस्तु चरि॒तमुत्थि॑तं च ॥४॥ येन॒ धने॑न प्रप॒णं चरा॑मि॒ धने॑न देवा॒ धन॑मि॒च्छमा॑नः । तन्मे॒ भूयो॑ भवतु॒ मा कनी॒योऽग्ने॑ सात॒घ्नो दे॒वान् ह॒विषा॒ नि षे॑ध ॥५॥ येन॒ धने॑न प्रप॒णं चरा॑मि॒ धने॑न दे॒वा धन॑मि॒च्छमा॑नः । तस्मि॑न् म॒ इन्द्रो॒ रुचि॒मा द॑धातु प्र॒जाप॑तिः सवि॒ता सोमो॑ अ॒ग्निः ॥६॥ उप॑ त्वा॒ नम॑सा व॒यं होत॑र्वैश्वानर स्तु॒मः । स नः॑ प्र॒जास्वा॒त्मसु गोषु॑ प्रा॒णेषु॑ जागृहि ॥७॥ वि॒श्वाहा॑ ते॒ सद॒मिद् भ॑रे॒माश्वा॑येव॒ तिष्ठ॑ते जातवेदः । रा॒यस्पोषे॑ण॒ समि॒षा मद॑न्तो॒ मा ते॑ अग्ने॒ प्रति॑वेशा रिषाम ॥८॥
— Atharvaveda Kāṇḍa 3 · Sūkta 15 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷