🪷 Atharvaveda 3.13

Tṛtīya-Kāṇḍa · Sūkta 13

आपः। १-७ भृगुः। वरुणः, सिन्धुः, आपः, २-३ इन्द्रः। अनुष्टुप्, १ निचृत्, ५ विराड् जगती, ६ निचृदगनुष्टुप्। यद॒दः सं॑प्रय॒तीरहा॒वन॑दता हते॑। तस्मा॒दा न॒द्यो॒३ नाम॑ स्थ॒ ता वो॒ नामा॑नि सिन्धवः ॥१॥ यत् प्रेषि॑ता॒ वरु॑णे॒नाच्छीभं॑ स॒मव॑ल्गत । तदा॑प्नो॒दिन्द्रो॑ वो य॒तीस्तस्मा॑दापो॒ अनु॑ ष्ठन ॥२॥ अ॒प॒का॒मं स्यन्द॑माना॒ अवी॑वरत वो॒ हि क॑म्। इन्द्रो॑ वः॒ शक्ति॑भिर्देवी॒स्तस्मा॒द् वार्नाम॑ वो हि॒तम्॥३॥ एको॑ वो दे॒वोऽप्य॑तिष्ठ॒त् स्यन्द॑माना यथाव॒शम्। उदा॑निषुर्म॒हीरिति॒ तस्मा॑दुद॒कमु॑च्यते ॥४॥ आपो॑ भ॒द्रा घृ॒तमिदाप॑ आसन्न॒ग्नीषोमौ॑ बिभ्र॒त्याप॒ इत् ताः। ती॒व्रो रसो॑ मधुपृचा॑मरंग॒म आ मा॑ प्रा॒णेन॑ स॒ह वर्च॑सा गमेत्॥५॥ आदित् प॑श्याम्यु॒त वा॑ शृणो॒म्या मा॒ घोषो॑ गच्छति॒ वाङ् मा॑साम्। मन्ये॑ भेजा॒नो अ॒मृत॑स्य तर्हि॒ हिर॑ण्यवर्णा॒ अतृ॑पं य॒दा वः॑ ॥६॥ इ॒दं व॑ आपो॒ हृद॑यम॒यं व॒त्स ऋ॑तावरीः । इ॒हेत्थमेत॑ शक्वरी॒र्यत्रे॒दं वे॒शया॑मि वः ॥७॥
— Atharvaveda Kāṇḍa 3 · Sūkta 13 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷