🪷 Atharvaveda 20.133

Viṁśa-Kāṇḍa · Sūkta 133

खिलानि । वित॑तौ किरणौ॒ द्वौ तावा॑ पिनष्टि॒ पूरु॑षः । न वै॑ कुमारि॒ तत्तथा॒ यथा॑ कुमारि॒ मन्य॑से ॥१॥ मा॒तुष्टे कि॑रणौ॒ द्वौ निवृ॑त्तः॒ पुरु॑षानृते । न वै॑ कुमारि॒ तत्तथा॒ यथा॑ कुमारि॒ मन्य॑से ॥२॥ निगृ॑ह्य॒ कर्ण॑कौ॒ द्वौ निरा॑यच्छसि॒ मध्य॑मे । न वै॑ कुमारि॒ तत्तथा॒ यथा॑ कुमारि॒ मन्य॑से ॥३॥ उ॒त्ता॒नायै॒ शया॒नायै॒ तिष्ठ॑न्ती॒ वाव॑ गूहसि । न वै॑ कमारि॒ तत्तथा॒ यथा॑ कुमारि॒ मन्य॑से ॥४॥ श्लक्ष्णा॑यां॒ श्लक्ष्णि॑कायां॒ श्लक्ष्ण॑मे॒वाव॒ गूहसि । न वै॑ कुमारि॒ तत्तथा॒ यथा॑ कुमारि॒ मन्य॑से ॥५॥ अव॑श्लक्ष्ण॒मिव॑ भ्रंशद॒न्तर्लोममति॑ ह्र॒दे। न वै॑ कुमारि॒ तत्तथा॒ यथा॑ कुमारि॒ मन्य॑से ॥६॥
— Atharvaveda Kāṇḍa 20 · Sūkta 133 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷