🪷 Atharvaveda 20.123

Viṁśa-Kāṇḍa · Sūkta 123

तत् सूर्य॑स्य देव॒त्वं तन्म॑हि॒त्वं म॒ध्या कर्तो॒र्वित॑तं॒ सं ज॑भार । य॒देदयु॑क्त ह॒रितः॑ स॒धस्था॒दाद् रात्री॒ वास॑स्तनुते सि॒मस्मै॑ ॥१॥ तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे॒ सूर्यो॑ रू॒पं कृ॑णुते॒ द्योरु॒पस्थे॑ । अ॒न॒न्तम॒न्यद् रुश॑दस्य॒ पाजः॑ कृ॒ष्णम॒न्यद्ध॒रितः॒ सं भ॑रन्ति ॥२॥
— Atharvaveda Kāṇḍa 20 · Sūkta 123 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷