🪷 Atharvaveda 2.33
Dvitīya-Kāṇḍa · Sūkta 33
यक्ष्मविबर्हणम्।
१-७ ब्रह्मा। यक्ष्मविबर्हणं, चन्द्रमाः, आयुष्यम्। अनुष्टुप्, ३ ककुम्मती, ४ चतुष्पदा भुरिगुष्णिक्,
५ उपरिष्टाद्विराड्बृहती, ६ उष्णिग्गर्भा निचृदनुष्टुप्, ७ पथ्यापङ्क्तिः।
अ॒क्षीभ्यां॑ ते॒ नासि॑काभ्यां॒ कर्णा॑भ्यां छुबु॑का॒दधि॑ ।
यक्ष्मं॑ शीर्ष॒ण्यं ऽ म॒स्तिष्का॑ज्जि॒ह्वाया॒ वि वृ॑हामि ते ॥१॥
ग्री॒वाभ्य॑स्त उ॒ष्णिहा॑भ्यः॒ कीक॑साभ्यो अनू॒क्याऽत्।
यक्ष्मं॑ दोष॒ण्य॑१मंसा॑भ्यां बा॒हुभ्यां॒ वि वृ॑हामि ते ॥२॥
हृद॑यात् ते॒ परि॑ क्लो॒म्नो हली॑क्ष्णात् पा॒र्श्वाभ्या॑म्।
यक्ष्मं॒ मत॑स्नाभ्यां प्ली॒ह्नो य॒क्नस्ते॒ वि वृ॑हामसि ॥३॥
आ॒न्त्रेभ्य॑स्ते॒ गुदा॑भ्यो वनि॒ष्ठोरु॒दरा॒दधि॑ ।
यक्ष्मं॑ कु॒क्षिभ्यां॑ प्ला॒शेर्नाभ्या॒ वि वृ॑हामि ते ॥४॥
ऊ॒रुभ्यां॑ ते अष्ठी॒वद्भ्यां॒ पार्ष्णिभ्यां॒ प्रप॑दाभ्याम्।
यक्ष्मं॑ भस॒द्यं॑१ श्रोणि॑भ्यां॒ भास॑दं॒ भंस॑सो॒ वि वृ॑हामि ते ॥५॥
अ॒स्थिभ्य॑स्ते म॒ज्जभ्यः॒ स्नाव॑भ्यो ध॒मनि॑भ्यः ।
यक्ष्मं॑ पा॒णिभ्या॑म॒ङ्गुलि॑भ्यो न॒खेभ्यो॒ वि वृ॑हामि ते ॥६॥
अङ्गे॑अङ्गे॒ लोम्नि॑लोम्नि॒ यस्ते॒ पर्व॑णिपर्वणि ।
यक्ष्मं॑ त्वचस्य ऽ ते व॒यं क॒श्यप॑स्य वीब॒र्हेण॒ विष्व॑ञ्चं॒ वि वृ॑हामसि ॥७॥
— Atharvaveda Kāṇḍa 2 · Sūkta 33 · Śaunaka shākhā · Devanāgarī yathārtha
Navigation
- ← Previous: AV 2.32
- Next: AV 2.34 →
- Kāṇḍa 2 Sūkta-index
- Atharvaveda master-index
- /four-vedas · the Catur-Veda-Pūrṇatā
🪷 ॐ 🪷