शत्रुनाशनम्।
१-५ अथर्वा। वायुः। (एकावसानम्) १-४ निचृद्विषमा गायत्री, ५ भुरिग्विषमा।
वायो॒ यत् ते॒ तप॒स्तेन॒ तं प्रति॑ तप॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥१॥
वायो॒ यत् ते॒ हर॒स्तेन॒ तं प्रति॑ हर॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥२॥
वायो॒ यत् ते॒ऽर्चिस्तेन॒ तं प्रत्य॑र्च॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥३॥
वायो॒ यत् ते॑ शो॒चिस्तेन॒ तं प्रति॑ शोच॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥४॥
वायो॒ यत् ते॒ तेज॒स्तेन॒ तम॑ते॒जसं॑ कृणु॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥५॥
— Atharvaveda Kāṇḍa 2 · Sūkta 20 · Śaunaka shākhā · Devanāgarī yathārtha