🪷 Atharvaveda 19.56

Ekonaviṁśa-Kāṇḍa · Sūkta 56

दुःष्वप्ननाशनम्। १-६ यमः। दुःष्वप्ननाशनम्। त्रिष्टुप्। य॒मस्य॑ लो॒कादध्या ब॑भूविथ॒ प्रम॑दा॒ मर्त्या॒न् प्र यु॑नक्षि॒ धीरः॑ । ए॒का॒किना॑ स॒रथं॑ यासि वि॒द्वान्त्स्वप्नं॒ मिमा॑नो॒ असु॑रस्य॒ योनौ॑ ॥१॥ ब॒न्धस्त्वाग्रे॑ वि॒श्वच॑या अपश्यत् पु॒रा रात्र्या॒ जनि॑तो॒रेके॒ अह्नि॑ । ततः॑ स्वप्ने॒दमध्या ब॑भूविथ भि॒षग्भ्यो॑ रू॒पम॑प॒गूह॑मानः ॥२॥ बृ॒ह॒द्गावासु॑रे॒भ्योऽधि॑ दे॒वानुपा॑वर्तत महि॒मान॑मि॒च्छन्। तस्मै॒ स्वप्ना॑य दधु॒राधि॑पत्यं त्रयस्त्रिं॒शासः॒ स्वरानशा॒नाः ॥३॥ नैतां वि॑दुः पि॒तरो॒ नोत दे॒वा येषां॒ जल्पि॒श्चर॑त्यन्तरेदम्। त्रि॒ते स्वप्न॑मदधुरा॒प्त्ये नर॒ आदि॑त्यासो॒ वरु॑णे॒नानु॑शिष्टाः ॥४॥ यस्य॑ क्रू॒रमभ॑जन्त दु॒ष्कृतो॒ऽस्वप्ने॑न सु॒कृतः॒ पुण्य॒मायुः॑ । स्वर्मदसि पर॒मेण॑ ब॒न्धुना॑ त॒प्यमा॑नस्य॒ मन॒सोऽधि॑ जज्ञिषे ॥५॥ वि॒द्म ते॒ सर्वाः॑ परि॒जाः पु॒रस्ता॑द् वि॒द्म स्व॑प्न॒ यो अ॑धि॒पा इ॒हा ते॑ । य॒श॒श्विनो॑ नो॒ यश॑से॒ह पा॑ह्या॒राद् द्वि॒षेभि॒रप॑ याहि दू॒रम्॥६॥
— Atharvaveda Kāṇḍa 19 · Sūkta 56 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷