🪷 Atharvaveda 19.53
Ekonaviṁśa-Kāṇḍa · Sūkta 53
कालः।
१-१० भृगुः। कालः। अनुष्टुप्, १-४ त्रिष्टुप्, ५ निचृत् पुरस्ताद्बृहती।
का॒लो अश्वो॑ वहति स॒प्तर॑श्मिः सहस्रा॒क्षो अ॒जरो॒ भूरि॑रेताः ।
तमा रो॑हन्ति क॒वयो॑ विप॒श्चित॒स्तस्य॑ च॒क्रा भुव॑नानि॒ विश्वा॑ ॥१॥
स॒प्त च॒क्रान् व॑हति का॒ल ए॒ष स॒प्तास्य॒ नाभी॑र॒मृतं॒ न्वक्षः॑ ।
स इ॒मा विश्वा॒ भुव॑नान्यञ्जत् का॒लः स ई॑यते प्रथ॒मो नु दे॒वः ॥२॥
पू॒र्णः कु॒म्भोऽधि॑ का॒ल आहि॑त॒स्तं वै पश्या॑मो बहु॒धा नु स॒न्तः।
स इ॒मा विश्वा॒ भुव॑ना॒नि प्र॒त्यङ्कालं तमा॑हुः पर॒मे व्योमन्॥३॥
स ए॒व सं भुव॑ना॒न्याभ॑र॒त् स ए॒व सं भुव॑नानि॒ पर्यै॑त्।
पि॒ता सन्न॑भवत् पु॒त्र ए॑षां॒ तस्मा॒द् वै नान्यत् पर॑मस्ति॒ तेजः॑ ॥४॥
का॒लोऽमूं दिव॑मजनयत् का॒ल इ॒माः पृ॑थि॒वीरु॒त।
का॒ले ह॑ भू॒तं भव्यं॑ चेषि॒तं ह॒ वि ति॑ष्ठते ॥५॥
का॒लो भू॒तिम॑सृजत का॒ले त॑पति॒ सूर्यः॑ ।
का॒ले ह॒ विश्वा॑ भू॒तानि॑ का॒ले चक्षु॒र्वि प॑श्यति ॥६॥
का॒ले मनः॑ का॒ले प्रा॒णः का॒ले नाम॑ स॒माहि॑तम्।
का॒लेन॒ सर्वा॑ नन्द॒न्त्याग॑तेन प्र॒जा इ॒माः ॥७॥
का॒ले तपः॑ का॒ले ज्येष्ठं॑ का॒ले ब्रह्म॑ स॒माहि॑तम्।
का॒लो ह॒ सर्व॑स्येश्व॒रो यः पि॒तासी॑त् प्र॒जाप॑तेः ॥८॥
तेने॑षि॒तं तेन॑ जा॒तं तदु॒ तस्मि॒न् प्रति॑ष्ठितम्।
का॒लो ह॒ ब्रह्म॑ भू॒त्वा बिभ॑र्ति परमे॒ष्ठिन॑म्॥९॥
का॒लः प्र॒जा अ॑सृजत का॒लो अग्रे॑ प्र॒जाप॑तिम्।
स्व॒यं॒भूः क॒श्यपः॑ का॒लात् तपः॑ का॒लाद॑जायत ॥१०॥
— Atharvaveda Kāṇḍa 19 · Sūkta 53 · Śaunaka shākhā · Devanāgarī yathārtha
Navigation
- ← Previous: AV 19.52
- Next: AV 19.54 →
- Kāṇḍa 19 Sūkta-index
- Atharvaveda master-index
- /four-vedas · the Catur-Veda-Pūrṇatā
🪷 ॐ 🪷