🪷 Atharvaveda 19.48
Ekonaviṁśa-Kāṇḍa · Sūkta 48
रात्रिः।
१-६ गोपथः। रात्रिः। अनुष्टुप्, १ त्रिपदाऽर्षी गायत्री, २ त्रिपदा विराडनुष्टुप्, ३ बृहतीगर्भाऽनुष्टुप्, ५ पथ्यापङ्क्तिः।
अथो॒ यानि॑ च॒ यस्मा॑ ह॒ यानि॑ चा॒न्तः प॑री॒णहि॑ ।
तानि॑ ते॒ परि॑ दद्मसि ॥१॥
रात्रि॒ मात॑रु॒षसे॑ नः॒ परि॑ देहि ।
उ॒षा नो॒ अह्ने॒ परि॑ ददा॒त्वह॒स्तुभ्यं॑ विभावरि ॥२॥
यत् किं चे॒दं प॒तय॑ति यत् किं चे॒दं स॑रीसृ॒पम्।
यत् किं च॒ पर्व॑ताया॒सत्वं॒ तस्मा॒त् त्वं रा॑त्रि पाहि नः ॥३॥
सा प॒श्चात् पा॑हि॒ सा पु॒रः सोत्त॒राद॑ध॒रादु॒त।
गो॒पाय॑ नो विभावरि स्तो॒तार॑स्त इ॒ह स्म॑सि ॥४॥
ये रात्रि॑मनु॒तिष्ठ॑न्ति॒ ये च॑ भू॒तेषु॒ जाग्र॑ति ।
प॒शून् ये सर्वा॒न् रक्ष॑न्ति॒ ते न॑ आ॒त्मसु॑ जाग्रति॒ ते नः॑ प॒शुषु॑ जाग्रति ॥५॥
वेद॒ वै रा॑त्रि ते॒ नाम॑ घृ॒ताची॒ नाम॒ वा अ॑सि ।
तां त्वां भ॒रद्वा॑जो वेद॒ सा नो॑ वि॒त्तेऽधि॑ जाग्रति ॥६॥
— Atharvaveda Kāṇḍa 19 · Sūkta 48 · Śaunaka shākhā · Devanāgarī yathārtha
Navigation
🪷 ॐ 🪷