🪷 Atharvaveda 19.44

Ekonaviṁśa-Kāṇḍa · Sūkta 44

भैषज्यम्। १-१० भृगुः। आञ्जनम्, ८-९ वरुणः। अनुष्टुप्, ४ चतुष्पदा शङ्कुमत्युष्णिक्, ५ निचृद्विषमा त्रिपदा गायत्री। आयु॑षोऽसि प्र॒तर॑णं॒ विप्रं॑ भेष॒जमु॑च्यसे । तदा॑ञ्जन॒ त्वं शं॑ताते॒ शमापो॒ अभ॑यं कृतम्॥१॥ यो ह॑रि॒मा जा॒यान्यो॑ऽङ्गभे॒दो वि॒सल्प॑कः । सर्वं॑ ते॒ यक्ष्म॒मङ्गे॑भ्यो ब॒हिर्नि॑र्ह॒न्त्वाञ्ज॑नम्॥२॥ आञ्ज॑नं पृथि॒व्यां जा॒तं भ॒द्रं पु॑रुष॒जीव॑नम्। कृ॒णोत्वप्र॑मायुकं॒ रथ॑जूति॒मना॑गसम्॥३॥ प्राण॑ प्रा॒णं त्रा॑य॒स्वासो॒ अस॑वे मृड । निरृ॑ते॒ निरृ॑त्या नः॒ पाशे॑भ्यो मुञ्च ॥४॥ सिन्धो॒र्गर्भो॑ऽसि वि॒द्युतां॒ पुष्प॑म्। वातः॑ प्रा॒णः सूर्य॒श्चक्षु॑र्दि॒वस्पयः॑ ॥५॥ देवा॑ञ्जन॒ त्रैक॑कुदं॒ परि॑ मा पाहि वि॒श्वतः॑ । न त्वा॑ तर॒न्त्योष॑धयो॒ बाह्याः॑ पर्व॒तीया॑ उ॒त॥६॥ वी॒३दं मध्य॒मवा॑सृपद् रक्षो॒हामी॑व॒चात॑नः । अमी॑वाः॒ सर्वा॑श्चा॒तय॑न् ना॒शय॑दभि॒भा इ॒तः ॥७॥ ब॒ह्वि॒३दं रा॑जन् वरु॒णानृ॑तमाह॒ पूरु॑षः । तस्मा॑त् सहस्रवीर्य मु॒ञ्च नः॒ पर्यंह॑सः ॥८॥ यदापो॑ अ॒घ्न्या इति॒ वरु॒णेति॒ यदू॑चि॒म। तस्मा॑त् सहस्रवीर्य मु॒ञ्च नः॒ पर्यंह॑सः ॥९॥ मि॒त्रश्च॑ त्वा॒ वरु॑णश्चानु॒प्रेय॑तुराञ्जन । तौ त्वा॑नु॒गत्य॑ दू॒रं भो॒गाय॒ पुन॒रोह॑तुः ॥१०॥
— Atharvaveda Kāṇḍa 19 · Sūkta 44 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷