🪷 Atharvaveda 19.36

Ekonaviṁśa-Kāṇḍa · Sūkta 36

शतवारो मणिः। १-६ ब्रह्मा। शतवारः। अनुष्टुप्। श॒तवा॑रो अनीनश॒द् यक्ष्मा॒न् रक्षां॑सि॒ तेज॑सा । आ॒रोह॒न् वर्च॑सा स॒ह म॒णिर्दु॑र्णाम॒चात॑नः ॥१॥ शॄङ्गा॑भ्यां॒ रक्षो॑ नुदते॒ मूले॑न यातुधा॒न्यः । मध्ये॑न॒ यक्ष्मं॑ बाधते॒ नैनं॑ पा॒प्माति॑ तत्रति ॥२॥ ये यक्ष्मा॑सो अर्भ॒का म॒हान्तो॒ ये च॑ श॒ब्दिनः॑ । सर्वा॑न् दुर्णाम॒हा म॒णिः श॒तवा॑रो अनीनशत्॥३॥ श॒तं वी॒रान॑जनयच्छ॒तं यक्ष्मा॒नपा॑वपत्। दु॒र्णाम्नः॒ सर्वा॑न् ह॒त्वाव॒ रक्षां॑सि धूनुते ॥४॥ हिर॑ण्यशृङ्ग ऋष॒भः शा॑तवा॒रो अ॒यं म॒णिः । दु॒र्णाम्नः॒ सर्वां॑स्तृ॒ड्ढ्वाव॒ रक्षां॑स्यक्रमीत्॥५॥ श॒तम॒हं दु॒र्णाम्नी॑नां गन्धर्वाप्स॒रसां॑ श॒तम्। श॒तं श॑श्व॒न्वती॑नां श॒तवा॑रेण वारये ॥६॥
— Atharvaveda Kāṇḍa 19 · Sūkta 36 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷