🪷 Atharvaveda 19.32
Ekonaviṁśa-Kāṇḍa · Sūkta 32
दर्भः।
१-१० भृगुः (आयुष्कामः)। दर्भः। अनुष्टुप्, ८ पुरस्ताद्बृहती, ९ त्रिष्टुप्, १० जगती।
श॒तका॑ण्डो दुश्च्यव॒नः स॒हस्र॑पर्ण उत्ति॒रः ।
द॒र्भो य उ॒ग्र ओष॑धि॒स्तं ते॑ बध्ना॒म्यायु॑षे ॥१॥
नास्य॒ केशा॒न् प्र वप॑न्ति॒ नोर॑सि॒ ताड॒मा घ्न॑ते ।
यस्मा॑ अछिन्नप॒र्णेन॑ द॒र्भेण॒ शर्म॑ यच्छति ॥२॥
दि॒वि ते॒ तूल॑मोषधे पृथि॒व्याम॑सि॒ निष्ठि॑तः ।
त्वया॑ स॒हस्र॑काण्डे॒नायुः॒ प्र व॑र्धयामहे ॥३॥
ति॒स्रो दि॒वो अत्य॑तृणत् ति॒स्र इ॒माः पृ॑थि॒वीरु॒त॑।
त्व॑याहं दु॒र्हार्दो॑ जि॒ह्वां नि तृ॑णद्मि॒ वचां॑सि ॥४॥
त्वम॑सि॒ सह॑मानो॒ऽहम॑स्मि॒ सह॑स्वान्।
उ॒भौ सह॑स्वन्तौ भू॒त्वा स॒पत्ना॑न्सहिषीवहि ॥५॥
सह॑स्व नो अ॒भिमा॑तिं॒ सह॑स्व पृतनाय॒तः ।
सह॑स्व॒ सर्वा॑न् दु॒र्हार्दः॑ सु॒हार्दो॑ मे ब॒हून् कृ॑धि ॥६॥
द॒र्भेण॑ दे॒वजा॑तेन दि॒वि ष्ट॒म्भेन॒ शश्व॒दित्।
तेना॒हं शश्व॑तो॒ जनाँ॒ अस॑नं॒ सन॑वानि च ॥७॥
प्रि॒यं मा॑ दर्भ कृणु ब्रह्मराज॒न्याऽभ्यां शू॒द्राय॒ चार्या॑य च ।
यस्मै॑ च का॒मया॑महे॒ सर्व॑स्मै च वि॒पश्य॑ते ॥८॥
यो जाय॑मानः पृथि॒वीमदृं॑ह॒द् यो अस्त॑भ्नाद॒न्तरि॑क्षं॒ दिवं॑ च ।
यं बिभ्र॑तं न॒नु पा॒प्मा वि॑वेद॒ स नो॒ऽयं द॒र्भो वरु॑णो दि॒वा कः॑ ॥९॥
स॒प॒त्न॒हा श॒तका॑ण्डः॒ सह॑स्वा॒नोष॑धीनां प्रथ॒मः सं ब॑भूव ।
स नो॒ऽयं द॒र्भः परि॑ पातु वि॒श्वत॒स्तेन॑ साक्षीय॒ पृत॑नाः पृतन्य॒तः ॥१०॥
— Atharvaveda Kāṇḍa 19 · Sūkta 32 · Śaunaka shākhā · Devanāgarī yathārtha
Navigation
- ← Previous: AV 19.31
- Next: AV 19.33 →
- Kāṇḍa 19 Sūkta-index
- Atharvaveda master-index
- /four-vedas · the Catur-Veda-Pūrṇatā
🪷 ॐ 🪷