🪷 Atharvaveda 19.26

Ekonaviṁśa-Kāṇḍa · Sūkta 26

हिरण्यधारणम्। १-४ अथर्वा। अग्निः, हिरण्यं च। त्रिष्टुप्, ३ अनुष्टुप्, ४ पथ्यापङ्क्तिः। अ॒ग्नेः प्रजा॑तं॒ परि॒ यद्धिर॑ण्यम॒मृतं॑ द॒ध्रे अधि॒ मर्त्ये॑षु । य ए॑न॒द् वेद॒ स इदे॑नमर्हति ज॒रामृ॑त्युर्भवति॒ यो बि॒भर्ति॑ ॥१॥ यद्धिर॑ण्यं॒ सूर्ये॑ण सु॒वर्णं प्र॒जाव॑न्तो॒ मन॑वः॒ पूर्व॑ ईषि॒रे। तत् त्वा॑ च॒न्द्रं वर्च॑सा॒ सं सृ॑ज॒त्यायु॑ष्मान् भवति॒ यो बि॒भर्ति॑ ॥२॥ आयु॑षे त्वा॒ वर्च॑से॒ त्वौज॑से च॒ बला॑य च । यथा॑ हिरण्य॒तेज॑सा वि॒भासा॑सि॒ जनाँ॒ अनु॑ ॥३॥ यद् वेद॒ राजा॒ वरु॑णो॒ वेद॑ दे॒वो बृह॒स्पतिः॑ । इन्द्रो॒ यद् वृ॑त्र॒हा वेद॒ तत् त॑ आयु॒ष्यं भुव॒त् तत् ते॑ वर्च॒स्यं भुवत्॥४॥
— Atharvaveda Kāṇḍa 19 · Sūkta 26 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷