🪷 Atharvaveda 19.15
Ekonaviṁśa-Kāṇḍa · Sūkta 15
अभयम्।
१-६ अथर्वा। १-४ इन्द्रः, मन्त्रोक्ताः। त्रिष्टुप्, १ पथ्याबृहती, २, ५ जगती, ३ विराट् पथ्यापङ्क्तिः।
यत॑ इन्द्र॒ भया॑महे॒ ततो॑ नो॒ अभ॑यं कृधि ।
मघ॑वंछ॒ग्धि तव॒ त्वं न॑ ऊ॒तिभि॒र्वि द्विषो॒ वि मृधो॑ जहि ॥१॥
इन्द्रं॑ व॒यम॑नूरा॒धं ह॑वाम॒हेऽनु॑ राध्यास्म द्वि॒पदा॒ चतु॑ष्पदा ।
मा नः॒ सेना॒ अर॑रुषी॒रुप॑ गु॒र्विषू॑चीरिन्द्र द्रु॒हो वि ना॑शय ॥२॥
इन्द्र॑स्त्रा॒तोत वृ॑त्र॒हा प॑र॒स्फानो॒ वरे॑ण्यः ।
स र॑क्षि॒ता च॑रम॒तः स म॑ध्य॒तः स प॒श्चात् स पु॒रस्ता॑न्नो अस्तु ॥३॥
उ॒रुं नो॑ लो॒कमनु॑ नेषि वि॒द्वान्त्स्व॑१र्यज्ज्योति॒रभ॑यं स्व॒स्ति।
उ॒ग्रा त॑ इन्द्र॒ स्थवि॑रस्य बा॒हू उप॑ क्षयेम शर॒णा बृ॒हन्ता॑ ॥४॥
अभ॑यं नः करत्य॒न्तरि॑क्ष॒मभ॑यं॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे।
अभ॑यं प॒श्चादभ॑यं पु॒रस्ता॑दुत्त॒राद॑ध॒रादभ॑यं नो अस्तु ॥५॥
अभ॑यं मि॒त्रादभ॑यम॒मित्रा॒दभ॑यं ज्ञा॒तादभ॑यं पु॒रो यः ।
अभ॑यं॒ नक्त॒मभ॑यं॒ दिवा॑ नः॒ सर्वा॒ आशा॒ मम॑ मि॒त्रं भ॑वन्तु ॥६॥
— Atharvaveda Kāṇḍa 19 · Sūkta 15 · Śaunaka shākhā · Devanāgarī yathārtha
Navigation
🪷 ॐ 🪷