🪷 Atharvaveda 18.4
Aṣṭādaśa-Kāṇḍa · Sūkta 4
पितृमेधः।
१-८९ अथर्वा। यमः, मन्त्रोक्ताः, ८१ पितरः, ८८ अग्निः, ८९ चन्द्रमाः। त्रिष्टुप्, १, ४, ७, १४, ३६, ६० भुरिक्,
२, ५, ११, २९, ५०-५१, ५८ जगती, ३ पञ्चपदा भुरिगतिजगती, ६, ९, १३ पञ्चपदा शक्वरी
(९ भुरिक्, १३ त्र्यवसाना), ८ पञ्चपदाऽतिशक्वरी, १२ महाबृहती, १६-२४ त्रिपदा भुरिङ् महाबृहती,
२६, ३३, ४३ उपरिषटाद्बृहती (२६ विराट्), २७ याजुषी गायत्री, २५, ३१-३२, ३८, ४१-४२, ५५-५७, ५९, ६१ अनुष्टुप्
(५६ककुम्मती), ३९, ६२-६३ आस्तारपङ्क्तिः, ( ३९ पुरोविराट्, ६२ भुरिक्, ६३ स्वराट्), ४९ अनुष्टुब्गर्भा त्रिष्टुप्,
५३ पुरोविराट् सतः पङ्क्तिः, ६६ त्रिपदा स्वराड् गायत्री, ६७ द्विपदाऽर्ची अनुष्टुप्,
६८, ७१ आसुरी अनुष्टुप्, ७२-७४, ७९ आसुरी पङ्क्तिः, ७५ आसुरी गायत्री, ७६ आसुरी उष्णिक्,
७७ दैवी जगती, ७८ आसुरी त्रिष्टुप्, ८० आसुरी जगती, ८१ प्राजापत्याऽनुष्टुप्, ८२ साम्नी बृहती,
८३-८४ साम्नी त्रिष्टुप्, ८५ आसुरी बृहती, (६७-६८, ७१-८६ एकावसाना), ८६-८७ चतुष्पदा उष्णिक्
(८६ ककुम्मती, ८७ शंकुमती), ८८ त्र्यवसाना पथ्यापङ्क्तिः, ८९ पञ्चपदा पथ्यापङ्क्तिः।
आ रो॑हत॒ जनि॑त्रीं जा॒तवे॑दसः पितृ॒याणैः सं व॒ आ रो॑हयामि ।
अवा॑ड्ढ॒व्येषि॒तो ह॑व्य॒वाह ईजा॒नं यु॒क्ताः सु॒कृतां॑ धत्त लो॒के॥१॥
दे॒वा य॒ज्ञमृ॒तवः॑ कल्पयन्ति ह॒विः पु॑रो॒डाशं॑ स्रु॒चो य॑ज्ञायु॒धानि॑ ।
तेभि॑र्याहि प॒थिभि॑र्देव॒यानै॒र्यैरी॑जा॒नाः स्व॒र्गं यन्ति॑ लो॒कम्॥२॥
ऋ॒तस्य॒ पन्था॒मनु॑ पश्य सा॒ध्वङ्गि॑रसः सु॒कृतो॑ येन॒ यन्ति॑ ।
तेभि॑र्याहि प॒थिभिः॑ स्व॒र्गं यत्रा॑दि॒त्या मधु॑ भ॒क्षय॑न्ति तृ॒तीये॒ नाके॒ अधि॒ वि श्र॑यस्व ॥३॥
त्रयः॑ सुप॒र्णा उप॑रस्य मा॒यू नाक॑स्य पृ॒ष्ठे अधि॑ वि॒ष्टपि॑ श्रि॒ताः ।
स्व॒र्गा लो॒का अ॒मृते॑न वि॒ष्ठा इष॒मूर्जं॒ यज॑मानाय दुह्राम्॥४॥
जु॒हूर्दा॑धार॒ द्यामु॑प॒भृद॒न्तरि॑क्षं ध्रु॒वा दा॑धार पृथि॒वीं प्र॑ति॒ष्ठाम्।
प्रती॒मां लो॒का घृ॒तपृ॑ष्ठाः स्व॒र्गाः कामं॑कामं॒ यज॑मानाय दुह्राम्॥५॥
ध्रुव॒ आ रो॑ह पृथि॒वीं वि॒श्वभो॑जसम॒न्तरि॑क्षमुपभृदा क्र॑मस्व ।
जुहु॒ द्यां ग॑च्छ॒ यज॑मानेन सा॒कं स्रु॒वेण॑ व॒त्सेन॒ दिशः॒ प्रपी॑नाः॒ सर्वा॑ धु॒क्ष्वाहृ॑ण्यमानः ॥६॥
ती॒र्थैस्त॑रन्ति प्र॒वतो॑ म॒हीरिति॑ यज्ञ॒कृतः॑ सु॒कृतो॒ येन॒ यन्ति॑ ।
अत्रा॑दधु॒र्यज॑मानाय लो॒कं दिशो॑ भू॒तानि॒ यदक॑ल्पयन्त ॥७॥
अङ्गि॑रसा॒मय॑नं॒ पूर्वो॑ अ॒ग्निरा॑दि॒त्याना॒मय॑नं॒ गार्ह॑पत्यो॒ दक्षि॑णाना॒मय॑नं दक्षिणा॒ग्निः ।
म॒हि॒मान॑म॒ग्नेर्विहि॑तस्य॒ ब्रह्म॑णा॒ सम॑ङ्गः॒ सर्व॒ उप॑ याहि श॒ग्मः ॥८॥
पूर्वो॑ अ॒ग्निष्ट्वा॑ तपतु॒ शं पु॒रस्ता॒च्छं प॒श्चात् त॑पतु॒ गार्ह॑पत्यः ।
द॒क्षि॒णा॒ग्निष्टे॑ तपतु॒ शर्म॒ वर्मो॑त्तर॒तो म॑ध्य॒तो अ॒न्तरि॑क्षाद् दि॒शोदि॑शो अग्ने॒ परि॑ पाहि घो॒रात्॥९॥
यू॒यम॑ग्ने॒ शंत॑माभिस्त॒नूभि॑रीजा॒नम॒भि लो॒कं स्व॒र्गम्।
अश्वा॑ भू॒त्वा पृ॑ष्टि॒वाहो॑ वहाथ॒ यत्र॑ दे॒वैः स॑ध॒मादं॒ मद॑न्ति ॥१०॥
शम॑ग्ने प॒श्चात् त॑प॒ शं पु॒रस्ता॒च्छमु॑त्त॒राच्छम॑ध॒रात् त॑पैनम्।
एक॑स्त्रे॒धा विहि॑तो जातवेदः स॒म्यगे॑नं धेहि सु॒कृता॑मु लो॒के॥११॥
शम॒ग्नयः॒ समि॑द्धा॒ आ र॑भन्तां प्राजाप॒त्यं मेध्यं॑ जा॒तवे॑दसः ।
शृ॒तं कृ॒ण्वन्त॑ इ॒ह माव॑ चिक्षिपन्॥१२॥
य॒ज्ञ ए॑ति॒ वित॑तः॒ कल्प॑मान ईजा॒नम॒भि लो॒कं स्व॒र्गम्।
तम॒ग्नयः॒ सर्व॑हुतं जुषन्तां प्राजाप॒त्यं मेध्यं॑ जा॒तवे॑दसः ॥१३॥
ई॒जा॒नश्चि॒तमारु॑क्षद॒ग्निं नाक॑स्य पृ॒ष्ठाद् दिव॑मुत् पति॒ष्यन्।
तस्मै॒ प्र भा॑ति॒ नभ॑सो॒ ज्योति॑षीमान्त्स्व॒र्गः पन्थाः॑ सु॒कृते॑ देव॒यानः॑ ॥१४॥
अ॒ग्निर्होता॑ध्व॒र्युष्टे॒ बह॒स्पति॒रिन्द्रो॑ ब्र॒ह्मा द॑क्षिण॒तस्ते॑ अस्तु ।
हु॒तोऽयं संस्थि॑तो य॒ज्ञ ए॑ति॒ यत्र॒ पूर्व॒मय॑नं हु॒ताना॑म्॥१५॥
अ॒पू॒पवा॑न् क्षी॒रवां॑श्च॒रुरेह सी॑दतु ।
लो॒क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ॥१६॥
अ॒पू॒पवा॒न् दधि॑वांश्च॒रुरेह सी॑दतु ।
लो॒क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ॥१७॥
अ॒पू॒पवा॑न् द्र॒प्सवां॑श्च॒रुरेह सी॑दतु ।
लो॒क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ॥१८॥
अ॒पू॒पवा॑न् घृ॒तवां॑श्च॒रुरेह सी॑दतु ।
लो॒क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ॥१९॥
अ॒पू॒पवा॑न् मां॒सवां॑श्च॒रुरेह सी॑दतु ।
लो॒क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ॥२०॥
अ॒पू॒पवा॒नन्न॑वांश्च॒रुरेह सी॑दतु ।
लो॒क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ॥२१॥
अ॒पू॒पवा॒न् मधु॑मांश्च॒रुरेह सी॑दतु ।
लो॒क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ॥२२॥
अ॒पू॒पवा॒न् रस॑वांश्च॒रुरेह सी॑दतु ।
लो॒क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ॥२३॥
अ॒पू॒पवा॒नप॑वांश्च॒रुरेह सी॑दतु ।
लो॒क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ॥२४॥
अ॒पू॒पापि॑हितान् कु॒म्भान् यांस्ते॑ दे॒वा अधा॑रयन्।
ते ते॑ सन्तु स्व॒धाव॑न्तो॒ मधु॑मन्तो घृत॒श्चुतः॑ ॥२५॥
यास्ते॑ धा॒ना अ॑नुकि॒रामि॑ ति॒लमि॑श्राः स्व॒धाव॑तीः ।
तास्ते॑ सन्तू॒द्भ्वीः प्र॒भ्वीस्तास्ते॑ य॒मो राजानु॑ मन्यताम्॥२६॥
अक्षि॑तिं॒ भूय॑सीम्॥२७॥
द्र॒प्सश्च॑स्कन्द पृथि॒वीमनु॒ द्यामि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ ।
स॒मा॒नं योनि॒मनु॑ सं॒चर॑न्तं द्र॒प्सं जु॑हो॒म्यनु॑ स॒प्त होत्राः॑ ॥२८॥
श॒तधा॑रं वा॒युम॒र्कं स्व॒र्विदं॑ नृ॒चक्ष॑स॒स्ते अ॒भि च॑क्षते र॒यिम्।
ये पृ॒णन्ति॒ प्र च॒ यच्छ॑न्ति सर्व॒दा ते दु॑ह्रते॒ दक्षि॑णां स॒प्तमा॑तरम्॥२९॥
कोशं॑ दुहन्ति क॒लशं॒ चतु॑र्बिल॒मिडां॑ धे॒नुं मधु॑मतीं स्व॒स्तये॑ ।
ऊर्जं॒ मद॑न्ती॒मदि॑तिं॒ जने॒ष्वग्ने॒ मा हिं॑सीः पर॒मे व्योऽमन्॥३०॥
ए॒तत् ते॑ दे॒वः स॑वि॒ता वासो॑ ददाति॒ भर्त॑वे ।
तत् त्वं य॒मस्य॒ राज्ये॒ वसा॑नस्ता॒र्प्यंऽ चर ॥३१॥
धा॒ना धे॒नुर॑भवद् व॒त्सो अ॑स्यास्ति॒लोऽभवत्।
तां वै य॒मस्य॒ राज्ये॒ अक्षि॑ता॒मुप॑ जीवति ॥३२॥
ए॒तास्ते॑ असौ धे॒नवः॑ काम॒दुघा॑ भवन्तु ।
एनीः॒ श्येनीः॒ सरू॑पा॒ विरू॑पास्ति॒लव॑त्सा॒ उप॑ तिष्ठन्तु॒ त्वात्र॑ ॥३३॥
एनी॒र्धा॒ना हरि॑णीः॒ श्येनी॑रस्य कृ॒ष्णा धा॒ना रोहि॑णीर्धे॒नव॑स्ते ।
ति॒लव॑त्सा॒ ऊर्ज॑म॒स्मै दुहा॑ना वि॒श्वाहा॑ सन्त्वनप॒स्फुर॑न्तीः ॥३४॥
वै॒श्वा॒न॒रे ह॒विरि॒दं जु॑होमि साह॒स्रं श॒तधा॑र॒मुत्स॑म्।
स बि॑भर्ति पि॒तरं॑ पिताम॒हान् प्र॑पिताम॒हान् बि॑भर्ति॒ पिन्व॑मानः ॥३५॥
स॒हस्र॑धारं श॒तधा॑र॒मुत्स॒मक्षि॑तं व्य॒च्यमा॑नं सलि॒लस्य॑ पृ॒ष्ठे।
ऊर्जं॒ दुहा॑नमनप॒स्फुर॑न्त॒मुपा॑सते पि॒तरः॑ स्व॒धाभिः॑ ॥३६॥
इ॒दं कसा॑म्बु॒ चय॑नेन चि॒तं तत् स॑जाता॒ अव॑ पश्य॒तेत॑ ।
मर्त्यो॒ऽयम॑मृत॒त्वमे॑ति॒ तस्मै॑ गृ॒हान् कृ॑णुत याव॒त्सब॑न्धु ॥३७॥
इ॒हैवैधि॑ धन॒सनि॑रि॒हचि॑त्त इ॒हक्र॑तुः ।
इ॒हैधि॑ वी॒र्यऽवत्तरो वयो॒धा अप॑राहतः ॥३८॥
पु॒त्रं पौत्र॑मभित॒र्पय॑न्ती॒रापो॒ मधु॑मतीरि॒माः ।
स्व॒धां पि॒तृभ्यो॑ अ॒मृतं॒ दुहा॑ना॒ आपो॑ दे॒वीरु॒भयां॑स्तर्पयन्तु ॥३९॥
आपो॑ अ॒ग्निं प्र हि॑णुत पि॒तॄंरुपे॒मं य॒ज्ञं पि॒तरो॑ मे जुषन्ताम्।
आसी॑ना॒मूर्ज॒मुप॒ ये सच॑न्ते॒ ते नो॑ र॒यिं सर्व॑वीरं॒ नि य॑च्छान्॥४०॥
समि॑न्धते॒ अम॑र्त्यं हव्य॒वाहं॑ घृत॒प्रिय॑म्।
स वे॑द॒ निहि॑तान्नि॒धीन् पि॒तॄ॒न् प॑रा॒वतो॑ ग॒तान्॥४१॥
यं ते॑ म॒न्थं यमो॑द॒नं यन्मां॒सं नि॑पृ॒णामि॑ ते ।
ते ते॑ सन्तु स्व॒धाव॑न्तो॒ मधु॑मन्तो घृत॒श्चुतः॑ ॥४२॥
यास्ते॑ धा॒ना अ॑नुकि॒रामि॑ ति॒लमि॑श्राः स्व॒धाव॑तीः ।
तास्ते॑ सन्तू॒द्भ्वीः प्र॒भ्वीस्तास्ते॑ य॒मो राजानु॑ मन्यताम्॥४३॥
इ॒दं पूर्व॒मप॑रं नि॒यानं॒ येना॑ ते॒ पूर्वे॑ पि॒तरः॒ परे॑ताः ।
पु॒रो॒ग॒वा ये अ॑भि॒शाचो॑ अस्य॒ ते त्वा॑ वहन्ति सु॒कृता॑मु लो॒कम्॥४४॥
सर॑स्वतीं देव॒यन्तो॑ हवन्ते॒ सर॑स्वतीमध्व॒रे ता॒यमा॑ने ।
सर॑स्वतीं सु॒कृतो॑ हवन्ते॒ सर॑स्वती दा॒शुषे॑ वार्यं॑ दात्॥४५॥
सर॑स्वतीं पि॒तरो॑ हवन्ते दक्षि॒णा य॒ज्ञम॑भि॒नक्ष॑माणाः ।
आ॒सद्या॒स्मिन् ब॒र्हिषि॑ मादयध्वमनमी॒वा इष॒ आ धे॑ह्य॒स्मे॥४६॥
सर॑स्वति॒ या स॒रथं॑ य॒याथो॒क्थैः स्व॒धाभि॑र्देवि पि॒तृभि॒र्मद॑न्ती ।
स॒ह॒स्रा॒र्घमि॒डो अत्र॑ भा॒गं रा॒यस्पोषं॒ यज॑मानाय धेहि ॥४७॥
पृ॒थि॒वीं त्वा॑ पृथि॒व्यामा वे॑शयामि दे॒वो नो॑ धा॒ता प्र ति॑रा॒त्यायुः॑ ।
परा॑परैता वसु॒विद् वो अ॒स्त्वधा॑ मृ॒ताः पि॒तृषु॒ सं भ॑वन्तु ॥४८॥
आ प्र च्य॑वेथा॒मप॒ तन्मृ॑जेथां॒ यद् वा॑मभि॒भा अत्रो॒चुः ।
अ॒स्मादेत॑म॒घ्न्यौ तद् वशी॑यो दा॒तुः पि॒तृष्वि॒हभो॑जनौ॒ मम॑ ॥४९॥
एयम॑ग॒न् दक्षि॑णा भद्र॒तो नो॑ अ॒नेन॑ द॒त्ता सु॒दुघा॑ वयो॒धाः ।
यौव॑ने जी॒वानु॑प॒पृञ्च॑ती ज॒रा पि॒तृभ्य॑ उप॒संप॑राणयादि॒मान्॥५०॥
इ॒दं पि॒तृभ्यः॒ प्र भ॑रामि ब॒र्हिर्जी॒वं दे॒वेभ्य॒ उत्त॑रं स्तृणामि ।
तदा रो॑ह पुरुष॒ मेध्यो॒ भव॒न् प्रति॑ त्वा जानन्तु पि॒तरः॒ परे॑तम्॥५१॥
एदं ब॒र्हिर॑सदो॒ मेध्यो॑ऽभूः॒ प्रति॑ त्वा जानन्तु पि॒तरः॒ परे॑तम्।
य॒था॒प॒रु त॒न्वं॑१ सं भ॑रस्व॒ गात्रा॑णि ते॒ ब्रह्म॑णा कल्पयामि ॥५२॥
प॒र्णो राजा॑पि॒धानं॑ चरू॒णामू॒र्जो बलं॒ सह॒ ओजो॑ न॒ आग॑न्।
आयु॑र्जी॒वेभ्यो॒ विद॑धद् दीर्घायु॒त्वाय॑ श॒तशा॑रदाय ॥५३॥
ऊ॒र्जो भा॒गो य इ॒मं ज॒जानाश्मान्ना॑ना॒माधि॑पत्यं ज॒गाम॑ ।
तम॑र्चत वि॒श्वमि॑त्रा ह॒विर्भिः॒ स नो॑ य॒मः प्र॑त॒रं जी॒वसे॑ धात्॥५४॥
यथा॑ य॒माय॑ ह॒र्म्यमव॑प॒न् पञ्च॑ मान॒वाः ।
ए॒वा व॑पामि ह॒र्म्यं यथा॑ मे॒ भूर॒योऽस॑त ॥५५॥
इ॒दं हिर॑ण्यं बिभृहि॒ यत् ते॑ पि॒ताबि॑भः पु॒रा।
स्व॒र्गं य॒तः पि॒तुर्हस्तं॒ निर्मृ॑ड्ढि॒ दक्षि॑णम्॥५६॥
ये च॑ जी॒वा ये च॑ मृ॒ता ये जा॒ता ये च॑ य॒ज्ञियाः॑ ।
तेभ्यो॑ घृ॒तस्य॑ कु॒ल्यैऽतु॒ मधु॑धारा व्युन्द॒ती॥५७॥
वृषा॑ मती॒नां प॑वते विचक्ष॒णः सूरो॒ अह्नां॑ प्र॒तरी॑तो॒षसां॑ दि॒वः ।
प्रा॒णः सिन्धू॑नां क॒लशाँ॑ अचिक्रद॒दिन्द्र॑स्य॒ हार्दि॑मावि॒शन् म॑नी॒षया॑ ॥५८॥
त्वे॒षस्ते॑ धू॒म ऊ॑र्णोतु दि॒वि षंच्छु॒क्र आत॑तः ।
सूरो॒ न हि द्यु॒ता त्वं कृ॒पा पावक॒ रोच॑से ॥५९॥
प्र वा ए॒तीन्दु॒रिन्द्र॑स्य॒ निष्कृ॑तिं॒ सखा॒ सख्यु॒र्न प्र मि॑नाति संगि॒रः ।
मर्य॑ इव॒ योषाः॒ सम॑र्षसे॒ सोमः॑ क॒लशे॑ श॒तया॑मना प॒था॥६०॥
अक्ष॒न्नमी॑मदन्त॒ ह्यव॑ प्रि॒यां अ॑धूषत ।
अस्तो॑षत॒ स्वभा॑नवो॒ विप्रा॒ यवि॑ष्ठा ईमहे ॥६१॥
आ या॑त पितरः सो॒म्यासो॑ गम्भी॒रैः प॒थिभिः॑ पितृ॒याणैः॑ ।
आयु॑र॒स्मभ्यं॒ दध॑तः प्र॒जां च॑ रा॒यश्च॒ पोषै॑र॒भि नः॑ सचध्वम्॥६२॥
परा॑ यात पितरः सो॒म्यासो॑ गम्भी॒रैः प॒थिभिः॑ पू॒र्याणैः॑ ।
अधा॑ मा॒सि पुन॒रा या॑त नो गृ॒हान् ह॒विरत्तुं॑ सुप्र॒जसः॑ सु॒वीराः॑ ॥६३॥
यद् वो अ॒ग्निरज॑हा॒देक॒मङ्गं॑ पितृलो॒कं ग॒मयं॑ जा॒तवे॑दाः ।
तद् व॑ ए॒तत् पुन॒रा प्या॑ययामि सा॒ङ्गाः स्व॒र्गे पि॒तरो॑ मादयध्वम्॥६४॥
अभू॑द् दू॒तः प्रहि॑तो जा॒तवे॑दाः सा॒यं न्यह्न॑ उप॒वन्द्यो॒ नृभिः॑ ।
प्रादाः॑ पि॒तृभ्यः॑ स्व॒धया॒ ते अ॑क्षन्न॒द्धि त्वं दे॑व॒ प्रय॑ता ह॒वींषि॑ ॥६५॥
अ॒सौ हा इ॒ह ते॒ मनः॒ ककु॑त्सलमिव जा॒मयः॑ ।
अ॒भ्येऽनं भूम ऊर्णुहि ॥६६॥
शुम्भ॑न्तां लो॒काः पि॑तृ॒षद॑नाः पितृ॒षद॑ने त्वा लो॒क आ सा॑दयामि ॥६७॥
ये॒३स्माकं॑ पि॒तर॒स्तेषां॑ ब॒र्हिर॑सि ॥६८॥
उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा॑ध॒मं वि म॑ध्य॒मं श्र॑थाय ।
अधा॑ व॒यमा॑दित्य व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम ॥६९॥
प्रास्मत् पाशा॑न् वरुण मुञ्च॒ सर्वा॒न् यैः स॑मा॒मे ब॒ध्यते॒ यैर्व्या॒मे।
अधा॑ जीवेम श॒रदं॑ श॒तानि॒ त्वया॑ राजन् गुपि॒ता रक्ष॑माणाः ॥७०॥
अ॒ग्नये॑ कव्य॒वाह॑नाय स्व॒धा नमः॑ ॥७१॥
सोमा॑य पि॒तृम॑ते स्व॒धा नमः॑ ॥७२॥
पि॒तृभ्यः॒ सोम॑वद्भ्यः स्व॒धा नमः॑ ॥७३॥
य॒माय॑ पि॒तृम॑ते स्व॒धा नमः॑ ॥७४॥
ए॒तत् ते॑ प्रततामह स्व॒धा ये च॒ त्वामनु॑ ॥७५॥
ए॒त् ते॑ ततामह स्व॒धा ये च॒ त्वामनु॑ ॥७६॥
ए॒तत् ते॑ तत स्व॒धा॥७७॥
स्व॒धा पि॒तृभ्यः॑ पृथिवि॒षद्भ्यः॑॥७८॥
स्व॒धा पि॒तृभ्यो॑ अन्तरिक्ष॒सद्भ्यः॑ ॥७९॥
स्व॒धा पि॒तृभ्यो॑ दिवि॒षद्भ्यः॑ ॥८०॥
नमो॑ वः पितर ऊ॒र्जे नमो॑ वः पितरो॒ रसा॑य ॥८१॥
नमो॑ वः पितरो॒ भामा॑य॒ नमो॑ वः पितरो म॒न्यवे॑ ॥८२॥
नमो॑ वः पितरो॒ यद् घोरं तस्मै॒ नमो॑ वः पितरो॒ यत् क्रू॒रं तस्मै॑ ॥८३॥
नमो॑ वः पितरो॒ यच्छि॒वं तस्मै॒ नमो॑ वः पितरो॒ यत् स्यो॒नं तस्मै॑ ॥८४॥
नमो॑ वः पितरः स्व॒धा वः॑ पितरः ॥८५॥
येऽत्र॑ पि॒तरः॑ पि॒तरो॒ येऽत्र॑ यू॒यं स्थ यु॒ष्मांस्तेऽनु॑ यू॒यं तेषां॒ श्रेष्ठा॑ भूयास्थ ॥८६॥
य इ॒ह पि॒तरो॑ जी॒वा इ॒ह व॒यं स्मः॑ ।
अ॒स्मांस्तेऽनु॑ व॒यं तेषां॒ श्रेष्ठा॑ भूयास्म ॥८७॥
आ त्वा॑ग्न इधीमहि द्यु॒मन्तं॑ देवा॒जर॑म्।
यद् घ॒ सा ते॒ पनी॑यसी स॒मिद् दी॒दय॑ति॒ द्यवि॑ ।
इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥८८॥
च॒न्द्रमा॑ अ॒प्स्व॑१न्तरा सु॑प॒र्णो धा॑वते दि॒वि।
न वो॑ हिरण्यनेमयः प॒दं वि॑न्दन्ति विद्युतो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥८९॥
— Atharvaveda Kāṇḍa 18 · Sūkta 4 · Śaunaka shākhā · Devanāgarī yathārtha
Navigation
- ← Previous: AV 18.3
- Next: AV 19.1 →
- Kāṇḍa 18 Sūkta-index
- Atharvaveda master-index
- /four-vedas · received Veda source inventory
Sources and Connected Readings
Continue from this Atharvaveda sūkta to its Kāṇḍa, the Atharvaveda reading index, the Catur-Veda doorway, and closely connected Śruti, Vedānta, Gītā, and Bhāgavata passages.
AV 18.4local Atharvaveda sūkta source routeAtharvaveda Kāṇḍa 18parent kāṇḍa sūkta index/atharvavedaAtharvaveda master index/four-vedasreceived Veda inventory with explicit missing-data boundaries/rigvedaṚgveda master index · 10 maṇḍalas · 1,027 sūktasRV 1.1Agnimīḷe Purohitam · opening mantra of the ṚgvedaRV 3.62Gāyatrī/Sāvitrī source routeRV 7.59Mahāmṛtyuñjaya source routeRV 10.90Puruṣa-Sūkta · cosmic Puruṣa foundationRV 10.129Nāsadīya-Sūkta · creation-enigma inquiryAV 10.7Skambha-Sūkta · cosmic-pillar witnessAV 11.4Prāṇa-Sūkta · cosmic-prāṇa witnessAV 12.1Pṛthvī/Bhūmi-Sūkta · Mother Earth source routeAV 19.6Atharvaveda Puruṣa-Sūkta recension/yajurvedaŚukla-Yajurveda master index · Mādhyandina and Kāṇva recensionsYV 16Rudra-Praśna / Śrī-Rudram source routeYV 31Yajurveda Puruṣa-Sūkta source routeYV 34Śiva-Saṁkalpa-Sūkta source routeYV 36Śānti-mantra source routeYV 40Īśopaniṣad in the Yajurveda source route/upanishads10 Mukhya Upaniṣads · Vedānta doorway/mahavakyasfour Mahā-vākyas · Upaniṣadic concentrateBG 9.17Krishna as pitā, mātā, dhātā, pitāmaha and ṛk-sāma-yajusBG 10.22vedānāṁ sāmavedo’smi · Sāmaveda honored by KrishnaŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattva/binduDiamond of Darśanas · Bindu reader key/philosophyconstitutional Krishna = Paramaatma = Parabrahman foundation
🪷 ॐ 🪷