🪷 Atharvaveda 16.7
Ṣoḍaśa-Kāṇḍa · Sūkta 7
१-१३ यमः। दुःष्वप्ननाशनं, उषा। १ पङ्क्तिः, २ साम्नी अनुष्टुप्, ३ आसुरी उष्णिक्, ४ प्राजापत्या गायत्री,
५ आर्ची उष्णिक् ६, ९, ११ साम्नी बृहती, ७ याजुषी गायत्री, ८ प्राजापत्या बृहती, १० साम्नी गायत्री
१२ भुरिक् प्राजापत्याऽनुष्टुप्, १३ आसुरी त्रिष्टुप्।
तेनै॑नं विध्या॒म्यभू॑त्यैनं विध्यामि॒ निर्भू॑त्यैनं विध्यामि॒ परा॑भूत्यैनं विध्यामि॒ ग्राह्यै॑नं विध्यामि॒ तम॑सैनं विध्यामि ॥१॥
दे॒वाना॑मेनं घो॒रैः क्रू॒रैः प्रै॒षैर॑भि॒प्रेष्या॑मि ॥२॥
वै॒श्वा॒न॒रस्यै॑नं॒ दंष्ट्र॑यो॒रपि॑ दधामि ॥३॥
ए॒वाने॒वाव॒ सा ग॑रत्॥४॥
यो॒३स्मान् द्वेष्टि॒ तमा॒त्मा द्वे॑ष्टु॒ यं व॒यं द्वि॒ष्मः स आ॒त्मानं॑ द्वेष्टु ॥५॥
निर्द्वि॒षन्तं॑ दि॒वो निः पृ॑थि॒व्या निर॒न्तरि॑क्षाद् भजाम ॥६॥
सुया॑मंश्चाक्षुष ॥७॥
इ॒दम॒हमा॑मुष्याय॒णे॒३मुष्याः॑ पु॒त्रे दु॒ष्वप्न्यं॑ मृजे ॥८॥
यद॒दोअ॑दो अ॒भ्यग॑च्छन् यद् दो॒षा यत् पूर्वां॒ रात्रि॑म्॥९॥
यज्जाग्र॑द् यत् सु॒प्तो यद् दिवा॒ यन्नक्त॑म्॥१०॥
यदह॑रहरभि॒गच्छा॑मि॒ तस्मा॑देन॒मव॑ दये ॥११॥
तं ज॑हि॒ तेन॑ मन्दस्व॒ तस्य॑ पृ॒ष्टीरपि॑ शृणीहि ॥१२॥
स मा जी॑वी॒त् तं प्रा॒णो ज॑हातु ॥१३॥
— Atharvaveda Kāṇḍa 16 · Sūkta 7 · Śaunaka shākhā · Devanāgarī yathārtha
Navigation
- ← Previous: AV 16.6
- Next: AV 16.8 →
- Kāṇḍa 16 Sūkta-index
- Atharvaveda master-index
- /four-vedas · the Catur-Veda-Pūrṇatā
🪷 ॐ 🪷