🪷 Atharvaveda 16.5

Ṣoḍaśa-Kāṇḍa · Sūkta 5

१-१० यमः। दुःष्वप्ननाशनम्। १-६ (प्रथमा) विराड् गायत्री ५ (प्रथमा) भुरिक्, ६(प्रथमा) स्वराट्, १-६ (द्वितीया) प्राजापत्या गायत्री, १-६ (तृतीय) द्विपदा साम्नी बृहती। वि॒द्म ते॑ स्वप्न ज॒नित्रं॒ ग्राह्याः॑ पु॒त्रोऽसि य॒मस्य॒ कर॑णः ॥१॥ अन्त॑कोऽसि मृ॒त्युर॑सि ॥२॥ तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दु॒ष्वप्न्या॑त् पाहि ॥३॥ वि॒द्म ते॑ स्वप्न ज॒नित्रं॒ निरृ॑त्याः पु॒त्रोऽसि य॒मस्य॒ कर॑णः । अन्त॑कोऽसि मृ॒त्युर॑सि । तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दु॒ष्वप्न्या॑त् पाहि ॥४॥ वि॒द्म ते॑ स्वप्न ज॒नित्र॒मभू॑त्याः पु॒त्रोऽसि य॒मस्य॒ कर॑णः । अन्त॑कोऽसि मृ॒त्युर॑सि । तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दु॒ष्वप्न्या॑त् पाहि ॥५॥ वि॒द्म ते॑ स्वप्न ज॒नित्रं॒ निर्भू॑त्याः पु॒त्रोऽसि य॒मस्य॒ कर॑णः । अन्त॑कोऽसि मृ॒त्युर॑सि । तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दु॒ष्वप्न्या॑त् पाहि ॥६॥ वि॒द्म ते॑ स्वप्न ज॒नित्रं॒ परा॑भूत्याः पु॒त्रोऽसि य॒मस्य॒ कर॑णः । अन्त॒कोऽसि मृ॒त्युर॑सि । तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दु॒ष्वप्न्या॑त् पाहि ॥७॥ वि॒द्म ते॑ स्वप्न ज॒नित्रं॑ देवजामी॒नां पु॒त्रोऽसि य॒मस्य॒ कर॑णः ॥८॥ अन्त॑कोऽसि मृ॒त्युर॑सि ॥९॥ तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दु॒ष्वप्न्या॑त् पाहि ॥१०॥
— Atharvaveda Kāṇḍa 16 · Sūkta 5 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷