🪷 Atharvaveda 15.15

Pañcadaśa-Kāṇḍa · Sūkta 15

११-९ अथर्वा। अध्यात्मं, व्रात्यः। १ दैवी पङ्क्तिः, २ आसुरी बृहती, ३, ४, ७-८ प्राजापत्याऽनुष्टुप् (४,७-८ भुरिक्), ५-६ द्विपदा साम्नी बृहती, ९ विराड् गायत्री। तस्य॒ व्रात्य॑स्य ॥१॥ स॒प्त प्रा॒णाः स॒प्तापा॒नाः स॒प्त व्या॒नाः ॥२॥ तस्य॒ व्रात्य॑स्य । योऽस्य प्रथ॒मः प्रा॒ण ऊ॒र्ध्वो नामा॒यं सो अ॒ग्निः ॥३॥ तस्य॒ व्रात्य॑स्य ।योऽस्य द्वि॒तीयः॑ प्रा॒णः प्रौढो॒ नामा॒सौ स आ॑दि॒त्यः ॥४॥ तस्य॒ व्रात्य॑स्य ।योऽस्य तृ॒तीयः॑ प्रा॒णो॒३ऽभ्यूऽढो॒ नामा॒सौ स च॒न्द्रमाः॑ ॥५॥ तस्य॒ व्रात्य॑स्य ।योऽस्य चतु॒र्थः प्रा॒णो वि॒भूर्नामा॒यं स पव॑मानः ॥६॥ तस्य॒ व्रात्य॑स्य ।योऽस्य पञ्च॒मः प्रा॒णो योनि॒र्नाम॒ ता इ॒मा आपः॑ ॥७॥ तस्य॒ व्रात्य॑स्य । योऽस्य ष॒ष्ठः प्रा॒णः प्रि॒यो नाम॒ त इ॒मे प॒शवः॑ ॥८॥ तस्य॒ व्रात्य॑स्य ।योऽस्य सप्त॒मः प्रा॒णोऽप॑रिमितो॒ नाम॒ ता इ॒माः प्र॒जाः ॥९॥
— Atharvaveda Kāṇḍa 15 · Sūkta 15 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷