🪷 Atharvaveda 15.13

Pañcadaśa-Kāṇḍa · Sūkta 13

१-१४ अथर्वा। अध्यात्मं, व्रात्यः। १ साम्नी उष्णिक्, २ ६ प्राजापत्याऽनुष्टुप्, ३, ५, ७ आसुरी गायत्री, ४, ८ साम्नी बृहती, ९ द्विपदा निचृद्गायत्री, १० द्विपदा विरीड् गायत्री, ११ प्राजापत्या पङ्क्तिः, १२ आसुरी जगती, १३ सतः पङ्क्तिः, १४ अक्षरपङ्क्तिः। तद् यस्यै॒वं वि॒द्वान् व्रात्य॒ एकां॒ रात्रि॒मति॑थिर्गृ॒हे वस॑ति ॥१॥ ये पृ॑थि॒व्यां पुन्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्द्धे ॥२॥ तद् यस्यै॒वं वि॒द्वान् व्रात्यो॑ द्वि॒तीयां॑ रात्रि॒मतिथि॑र्गृ॒हे वस॑ति ॥३॥ ये॒३न्तरि॑क्षे॒ पुण्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्द्धे ॥४॥ तद् यस्यै॒वं वि॒द्वान् व्रात्य॑स्तृ॒तीयां॒ रात्रि॒मति॑थिर्गृ॒हे वस॑ति ॥५॥ ये दि॒वि पुण्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्द्धे ॥६॥ तद् यस्यै॒वं वि॒द्वान् व्रात्य॑श्चतु॒र्थीं रात्रि॒मति॑थिर्गृ॒हे वस॑ति ॥७॥ ये पुण्या॑नां॒ पुण्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्द्धे ॥८॥ तद् यस्यै॒वं वि॒द्वान् व्रात्योऽप॑रिमिता॒ रात्री॒रति॑थिर्गृ॒हे वस॑ति ॥९॥ य ए॒वाप॑रिमिताः॒ पुण्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्द्धे ॥१०॥ अथ॒ यस्याव्रा॑त्यो व्रात्यब्रु॒वो ना॑मबिभ्र॒त्यति॑थिर्गृ॒हाना॒गच्छे॑त्॥११॥ कर्षे॑देनं॒ न चै॑नं कर्षे॑त्॥१२॥ अ॒स्यै दे॒वता॑या उद॒कं या॑चामी॒मां दे॒वतां॑ वासय इ॒मामि॒मां दे॒वतां॒ परि॑ वेवे॒ष्मीत्ये॑नं॒ परि॑ वेविष्यात्॥१३॥ तस्या॑मे॒वास्य॒ तद् दे॒वता॑यां हु॒तं भ॑वति॒ य ए॒वं वेद॑ ॥१४॥
— Atharvaveda Kāṇḍa 15 · Sūkta 13 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷