🪷 Atharvaveda 10.3

Daśama-Kāṇḍa · Sūkta 3

सपत्नत्क्षयणो वरणमणिः। १-२५ अथर्वा। वरणमणिः, वनस्पतिः चन्द्रमाः। अनुष्टुप्, २-३, ६ भुरिक् त्रिष्टुप्, ८, १३-१४ पथ्यापङ्क्तिः, ११, १६ भुरिक्, १५, १७-२५ षट्-पदा जगती। अ॒यं मे॑ वर॒णो म॒णिः स॑पत्न॒क्षय॑णो॒ वृषा॑ । तेना र॑भस्व॒ त्वं शत्रू॒न् प्र मृ॑णीहि दुरस्य॒तः ॥१॥ प्रैणा॑न्छृणीहि॒ प्र मृ॒णा र॑भस्व म॒णिस्ते॑ अस्तु पुरए॒ता पु॒रस्ता॑त्। अवा॑रयन्त वर॒णेन॑ दे॒वा अ॑भ्याचा॒रमसु॑राणां॒ श्वःश्वः॑ ॥२॥ अ॒यं म॒णिर्व॑र॒णो वि॒श्वभे॑षजः सहस्रा॒क्षो हरि॑तो हिर॒ण्ययः॑ । स ते॒ शत्रू॒नध॑रान् पादयाति॒ पूर्व॒स्तान् द॑भ्नुहि॒ ये त्वा॑ द्वि॒षन्ति॑ ॥३॥ अ॒यं ते॑ कृ॒त्यां वित॑तां॒ पौरु॑षेयाद॒यं भ॒यात्। अ॒यं त्वा॒ सर्व॑स्मात् पा॒पाद् व॑र॒णो वा॑रयिष्यते ॥४॥ व॒र॒णो वा॑रयाता अ॒यं दे॒वो वन॒स्पतिः॑ । यक्ष्मो॒ यो अ॒स्मिन्नावि॑ष्ट॒स्तमु॑ दे॒वा अ॑वीवरन्॥५॥ स्वप्नं॑ सु॒प्त्वा यदि॒ पश्या॑सि पा॒पं मृ॒गः सृ॒तिं यति॒ धावा॒दजु॑ष्टाम्। प॒रिक्ष॒वाच्छ॒कुनेः॑ पापवा॒दाद॒यं म॒णिर्व॑र॒णो वा॑रयिष्यते ॥६॥ अरा॑त्यास्त्वा॒ निरृ॑त्या अभिचा॒रादथो॑ भ॒यात्। मृ॒त्योरोजी॑यसो व॒धाद् व॑र॒णो वा॑रयिष्यते ॥७॥ यन्मे॑ मा॒ता यन्मे॑ पि॒ता भ्रात॑रो॒ यच्च॑ मे स्वा यदेन॑श्चकृ॒मा व॒यम्। ततो॑ नो वारयिष्यते॒ऽयं दे॒वो वन॒स्पतिः॑ ॥८॥ व॒र॒णेन॒ प्रव्य॑थिता॒ भ्रातृ॑व्या मे॒ सब॑न्धवः । अ॒सूर्तं॒ रजो॒ अप्य॑गु॒स्ते य॑न्त्वध॒मं तमः॑ ॥९॥ अरि॑ष्टोऽहमरि॑ष्टगु॒रायु॑ष्मा॒न्त्सर्व॑पूरुषः । तं मा॒यं व॑र॒णो म॒णिः परि॑ पातु दि॒शोदि॑शः ॥१०॥ अ॒यं मे॑ वर॒ण उर॑सि॒ राजा॑ दे॒वो वन॒स्पतिः॑ । स मे॒ शत्रू॒न् वि बा॑धता॒मिन्द्रो॒ दस्यू॑नि॒वासु॑रान्॥११॥ इ॒मं बि॑भर्मि वर॒णमायु॑ष्मान्छ॒तशा॑रदः । स मे॑ रा॒ष्ट्रं च॑ क्ष॒त्रं च॑ प॒शूनोज॑श्च मे दधत्॥१२॥ यथा॒ वातो॒ वन॒स्पती॑न् वृ॒क्षान् भ॒नक्त्योज॑सा । ए॒वा स॒पत्ना॑न् मे भङ्ग्धि॒ पूर्वा॑न् जा॒तां उ॒ताप॑रान् वर॒णस्त्वा॒भि र॑क्षतु ॥१३॥ यथा॒ वात॑श्चा॒ग्निश्च॑ वृ॒क्षान् प्सा॒तो वन॒स्पती॑न्। ए॒वा स॒पत्ना॑न् मे प्साहि॒ पूर्वान् जा॒तां उ॒ताप॑रान् वर॒णस्त्वा॒भि र॑क्षतु ॥१४॥ यथा॒ वाते॑न॒ प्रक्षी॑णा वृ॒क्षाः शेरे॒ न्यऽर्पिताः । ए॒वा स॒पत्नां॒स्त्वं मम॒ प्र क्षि॑णीहि॒ न्यऽर्पय॒ पूर्वा॑न्जा॒तां उ॒ताप॑रान् वर॒णस्त्वा॒भि र॑क्षतु ॥१५॥ तांस्त्वं प्र च्छि॑न्द्धि वरण पु॒रा दि॒ष्टात् पु॒रायु॑षः । य ए॑नं प॒शुषु॒ दिप्स॑न्ति॒ ये चा॑स्य राष्ट्रदि॒प्सवः॑ ॥१६॥ यथा॒ सूर्यो॑ अति॒भाति॒ यथा॑स्मि॒न् तेज॒ आहि॑तम्। ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु॒ तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ॥१७॥ यथा॒ यश॑श्च॒न्द्रम॑स्यादि॒त्ये च॑ नृ॒चक्ष॑सि । ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ॥१८॥ यथा॒ यशः॑ पृथि॒व्यां यथा॒स्मिन् जा॒तवे॑दसि । ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु॒ तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ॥१९॥ यथा॒ यशः॑ क॒न्याऽयां॒ यथा॒स्मिन्त्संभृ॑ते॒ रथे॑ । ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु॒ तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ॥२०॥ यथा॒ यशः॑ सोमपी॒थे म॑धुप॒र्के यथा॒ यशः॑ । ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु॒ तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ॥२१॥ यथा॒ यशो॑ऽग्निहो॒त्रे व॑षट्का॒रे यथा॒ यशः॑ । ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु॒ तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ॥२२॥ यथा॒ यशो॒ यज॑माने॒ यथा॒स्मिन् य॒ज्ञ आहि॑तम्। ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु॒ तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ॥२३॥ यथा॒ यशः॑ प्र॒जाप॑तौ॒ यथा॒स्मिन् प॑र॒मेष्ठिनि॑ । ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु॒ तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ॥२४॥ यथा॑ दे॒वेष्व॒मृतं॒ यथै॑षु स॒त्यमाहि॑तम्। ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु॒ तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ॥२५॥
— Atharvaveda Kāṇḍa 10 · Sūkta 3 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷