🪷 Atharvaveda 10.2

Daśama-Kāṇḍa · Sūkta 2

ब्रह्मप्रकाशनम्। १-३३ नारायणः। पार्ष्णिसूक्तम्, पुरुषः, ब्रह्मप्रकाशनम्। अनुष्टुप्, १-४,७-८ त्रिष्टुप्, ६, ११ जगती, २८ भुरिग्बृहती। केन॒ पार्ष्णी॒ आभृ॑ते॒ पूरु॑षस्य॒ केन॑ मां॒सं संभृ॑तं॒ केन॑ गु॒ल्फौ। केना॒ङ्गुलीः॒ पेश॑नीः॒ केन॒ खानि॒ केनो॑च्छ्ल॒ङ्खौ म॑ध्य॒तः कः प्र॑ति॒ष्ठाम्॥१॥ कस्मा॒न्नु गु॒ल्फावध॑रावकृण्वन्नष्ठी॒वन्ता॒वुत्त॑रौ॒ पुरु॑षस्य । जङ्घे॑ नि॒रऋत्य॒ न्यऽदधुः॒ क्वऽस्वि॒ज्जानु॑नोः सं॒धी क उ॒ तच्चि॑केत ॥२॥ चतु॑ष्टयं युज्यते॒ संहि॑तान्तं॒ जानु॑भ्यामू॒र्ध्वं शि॑थि॒रं कब॑न्धम्। श्रोणी॒ यदू॒रू क उ॒ तज्ज॑जान याभ्यां॒ कुसि॑न्धं॒ सुदृ॑ढं ब॒भूव॑ ॥३॥ कति॑ दे॒वाः क॑त॒मे त आ॑स॒न् य उरो॑ ग्री॒वाश्चि॒क्युः पुरु॑षस्य । कति॒ स्तनौ॒ व्यऽदधुः॒ कः क॑फो॒डौ कति॑ स्क॒न्धान् कति॑ पृ॒ष्टीर॑चिन्वन्॥४॥ को अ॑स्य बा॒हू सम॑भरद् वी॒र्यं करवा॒दिति॑ । अंसौ॒ को अ॑स्य॒ तद् दे॒वः कुसि॑न्धे॒ अध्या द॑धौ ॥५॥ कः स॒प्त खानि॒ वि त॑तर्द शी॒र्षाणि॒ कर्णा॑वि॒मौ नासि॑के॒ चक्ष॑णी॒ मुख॑म्। येषां॑ पुरु॒त्रा वि॑ज॒यस्य॑ म॒ह्ननि॒ चतु॑ष्पादो द्वि॒पदो॒ यन्ति॒ याम॑म्॥६॥ हन्वो॒र्हि जि॒ह्वामद॑धात् पुरू॒चीमधा॑ म॒हीमधि॑ शिश्राय॒ वाच॑म्। स आ व॑रीवर्ति॒ भुव॑नेष्व॒न्तर॒पो वसा॑नः॒ क उ॒ तच्चि॑केत ॥७॥ म॒स्तिष्क॑मस्य यत॒मो ल॒लाटं॑ क॒काटि॑कां प्रथ॒मो यः क॒पाल॑म्। चि॒त्वा चित्यं॒ हन्वोः॒ पूरु॑षस्य॒ दिवं॑ रुरोह कत॒मः स दे॒वः ॥८॥ प्रि॒या॒प्रि॒याणि॑ बहु॒ला स्वप्नं॑ संबाधत॒न्द्यः॑ । आ॒न॒न्दानु॒ग्रो नन्दां॑श्च॒ कस्मा॑द् वहति॒ पूरु॑षः ॥९॥ आर्ति॒रव॑र्ति॒र्निरृ॑तिः॒ कुतो॒ नु पुरु॒षेऽम॑तिः । राद्धिः॒ समृ॑द्धि॒रव्यृ॑द्धिर्म॒तिरुदि॑तयः॒ कुतः॑ ॥१०॥ को अ॑स्मि॒न्नापो॒ व्यऽदधाद् विषू॒वृतः॑ पुरू॒वृतः॑ सिन्धु॒सृत्या॑य जा॒ताः । ती॒व्रा अ॑रु॒णा लोहि॑नीस्ताम्रधू॒म्रा ऊ॒र्ध्वा अवा॑चीः॒ पुरु॑षे ति॒रश्चीः॑ ॥११॥ को अ॑स्मिन् रू॒पम॑दधात् को म॒ह्मानं॑ च॒ नाम॑ च । गा॒तुं को अ॑स्मि॒न् कः के॒तुं कश्च॒रित्रा॑णि॒ पूरु॑षे ॥१२॥ को अ॑स्मिन् प्रा॒णम॑वयत् को अ॑पा॒नं व्या॒नमु॑ । स॒मा॒नम॑स्मि॒न् को दे॒वोऽधि॑ शिश्राय॒ पुरु॑षे ॥१३॥ को अ॑स्मिन् य॒ज्ञम॑दधा॒देको॑ दे॒वोऽधि॒ पुरु॑षे । को अ॑स्मिन्त्स॒त्यं कोऽनृ॑तं॒ कुतो॑ मृ॒त्यृः कुतो॒ऽमृत॑म्॥१४॥ को अ॑स्मै॒ वासः॒ पर्य॑दधा॒त् को अ॒स्यायु॑रकल्पयत्। बलं॒ को अ॑स्मै॒ प्राय॑च्छ॒त् को अ॑स्याकल्पयज्ज॒वम्॥१५॥ केनापो॒ अन्व॑तनुत॒ केनाह॑रकरोद् रु॒चे। उ॒षसं॒ केनान्वै॑न्द्ध॒ केन॑ सायंभ॒वं द॑दे ॥१६॥ को अ॑स्मि॒न् रेतो॒ न्यऽदधा॒त् तन्तु॒रा ता॑यता॒मिति॑ । मे॒धां को अ॑स्मि॒न्नध्यौ॑ह॒त् को बा॒णं को नृतो॑ दधौ ॥१७॥ केने॒मां भूमि॑मौर्णो॒त् केन॒ पर्य॑भव॒द् दिव॑म्। केना॒भि म॒ह्ना पर्व॑ता॒न् केन॒ कर्मा॑णि॒ पुरु॑षः ॥१८॥ केन॑ प॒र्जन्य॒मन्वे॑ति॒ केन॒ सोमं॑ विचक्ष॒णम्। केन॑ य॒ज्ञं च श्र॒द्धां च॒ केना॑स्मि॒न् निहि॑तं॒ मनः॑ ॥१९॥ केन॒ श्रोत्रि॑यमाप्नोति॒ केने॒मं प॑रमे॒ष्ठिन॑म्। केने॒मम॒ग्निं पूरु॑षः॒ केन॑ संवत्स॒रं म॑मे ॥२०॥ ब्रह्म॒ श्रोत्रि॑यमाप्नोति॒ ब्रह्मे॒मं प॑रमे॒ष्ठिन॑म्। ब्रह्मे॒मम॒ग्निं पूरु॑षो॒ ब्रह्म॑ संवत्स॒रं म॑मे ॥२१॥ केन॑ दे॒वाँ अनु॑ क्षियति॒ केन॒ दैव॑जनी॒र्विशः॑ । केने॒दम॒न्यन्नक्ष॑त्रं॒ केन॒ सत्क् क्ष॒त्रमु॑च्यते ॥२२॥ ब्रह्म॑ दे॒वाँ अनु॑ क्षियति॒ ब्रह्म॒ दैवजनी॒र्विशः॑ । ब्रह्मे॒दम॒न्यन्नक्ष॑त्रं॒ ब्रह्म॒ सत् क्ष॒त्रमु॑च्यते ॥२३॥ केने॒यं भूमि॒र्विहि॑ता॒ केन॒ द्यौरुत्त॑रा हि॒ता। केने॒दमू॒र्ध्वं ति॒र्यक् चा॒न्तरि॑क्षं॒ व्यचो॑ हि॒तम्॥२४॥ ब्रह्म॑णा॒ भूमि॒र्विहि॑ता॒ ब्रह्म॒ द्यौरुत्त॑रा हि॒ता। ब्रह्मे॒दमू॒र्ध्वं ति॒र्यक् चा॒न्तरि॑क्षं॒ व्यचो॑ हि॒तम्॥२५॥ मू॒र्धान॑मस्य सं॒सीव्याथ॑र्वा॒ हृद॑यं च॒ यत्। म॒स्तिष्का॑दू॒र्ध्वः प्रैर॑य॒त् पव॑मा॒नोऽधि॑ शीर्ष॒तः ॥२६॥ तद् वा अथ॑र्वणः॒ शिरो॑ देवको॒शः समु॑ब्जितः । तत् प्रा॒णो अ॒भि र॑क्षति॒ शिरो॒ अन्न॒मथो॒ मनः॑ ॥२७॥ ऊ॒र्ध्वो नु सृ॒ष्टा३स्ति॒र्यङ् नु सृ॒ष्टाः३ सर्वा॒ दिशः॒ पुरु॑ष॒ आ ब॑भूवाँ३ । पुरं॒ यो ब्रह्म॑णो॒ वेद॒ यस्याः॒ पुरु॑ष उ॒च्यते॑ ॥२८॥ यो वै तां ब्रह्म॑णो॒ वेदा॒मृते॒नावृ॑तां॒ पुर॑म्। तस्मै॒ ब्रह्म॑ च ब्रा॒ह्माश्च॒ चक्षुः॑ प्रा॒णं प्र॒जां द॑दुः ॥२९॥ न वै तं चक्षु॑र्जहाति॒ न प्रा॒णो ज॒रसः॑ पु॒रा। पुरं॒ यो ब्रह्म॑णो॒ वेद॒ यस्याः॒ पुरु॑ष उ॒च्यते॑ ॥३०॥ अ॒ष्टाच॑क्रा॒ नव॑द्वारा दे॒वानां॒ पूर॑यो॒ध्या। तस्यां॑ हिर॒ण्ययः॒ कोशः॑ स्व॒र्गो ज्योति॒षावृ॑तः ॥३१॥ तस्मि॑न् हिर॒ण्यये॒ कोशे॒ त्र्यऽरे॒ त्रिप्र॑तिष्ठिते । तस्मि॒न् यद् य॒क्षमा॑त्म॒न्वत् तद् वै ब्र॑ह्म॒विदो॑ विदुः ॥३२॥ प्र॒भ्राज॑मानां॒ हरि॑णीं॒ यश॑सा सं॒परी॑वृताम्। पुरं॑ हिर॒ण्ययीं॒ ब्रह्मा वि॑वे॒शाप॑राजिताम्॥३३॥
— Atharvaveda Kāṇḍa 10 · Sūkta 2 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷