🪷 Atharvaveda 1.30
Prathama-Kāṇḍa · Sūkta 30
दीर्घायुःप्राप्तिः।
१-४ अथर्वा (आयुष्कामः)। विश्वेदेवाः (१ वसवः, आदित्याः, १-४ देवाः)। त्रिष्टुप्, ३ शाक्वरगर्भा विराड् जगती।
विश्वे॑ देवा॒ वस॑वो॒ रक्ष॑ते॒ममु॒तादि॑त्या जागृ॒त यू॒यम॒स्मिन्।
मेमं सना॑भिरु॒त वा॒न्यना॑भि॒र्मेमं प्राप॒त् पौरु॑षेयो व॒धो यः ॥१॥
ये वो॑ देवाः पि॒तरो॒ ये च॑ पु॒त्राः सचे॑तसो मे शृणुते॒दमु॒क्तम्।
सर्वे॑भ्यो वः॒ प॑रि ददाम्ये॒तं स्व॒स्त्येऽनं ज॒रसे॑ वहाथ ॥२॥
ये दे॑वा दि॒वि ष्ठ ये पृ॑थि॒व्यां ये अ॒न्तरि॑क्ष॒ ओष॑धीषु प॒शुष्व॒प्स्व॑१न्तः ।
ते कृ॑णुत ज॒रस॒मायु॑र॒स्मै श॒तम॒न्यान् परि॑ वृणक्तु मृ॒त्यून्॥३॥
येषां॑ प्रया॒जा उ॒त वा॑नुया॒जा हु॒तभा॑गा अहु॒ताद॑श्च दे॒वाः ।
येषां॑ वः॒ पञ्च॑ प्र॒दिशो॒ विभ॑क्ता॒स्तान् वो अ॒स्मै स॑त्र॒सदः॑ कृणोमि ॥४॥
— Atharvaveda Kāṇḍa 1 · Sūkta 30 · Śaunaka shākhā · Devanāgarī yathārtha
Navigation
🪷 ॐ 🪷