🪷 Atharvaveda 1.19

Prathama-Kāṇḍa · Sūkta 19

शत्रुनिवारणम्। १-४ ब्रह्मा। ईश्वरः, (१ इन्द्रः, २ दैवीः मनुष्येषवः, ३ रुद्रः, ४ देवाः)। अनुष्टुप्, २ पुरस्ताद् बृहती, ३ पथ्यापङ्क्तिः। मा नो॑ विदन् विव्या॒धिनो॒ मो अ॑भिव्या॒धिनो॑ विदन्। आ॒राच्छ॑र॒व्या ऽ अ॒स्मद्विषू॑चीरिन्द्र पातय ॥१॥ विष्व॑ञ्चो अ॒स्मच्छर॑वः पतन्तु॒ ये अ॒स्ता ये चा॒स्याः । दैवी॑र्मनुष्येषवो॒ ममा॒मित्रान् वि वि॑ध्यत ॥२॥ यो नः॒ स्वो यो अर॑णः सजा॒त उ॒त निष्ट्यो॒ यो अ॒स्माँ अ॑भि॒दास॑ति । रु॒द्रः श॑रव्य ऽ यै॒तान् ममा॒मित्रा॒न् वि वि॑ध्यतु ॥३॥ यः स॒पत्नो॒ योऽस॑पत्नो॒ यश्च॑ द्वि॒षन् छपा॑ति नः । दे॒वास्तं सर्वे॑ धूर्वन्तु॒ ब्रह्म॒ वर्म॒ ममान्त॑रम्॥४॥
— Atharvaveda Kāṇḍa 1 · Sūkta 19 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷