🪷 Atharvaveda 1.12

Prathama-Kāṇḍa · Sūkta 12

यक्ष्मनाशनम्। १-४ भृग्वङ्गिराः। यक्ष्मनाशनम्। जगती(त्रिष्टुप्), ४ अनुष्टुप्। ज॒रा॒यु॒जः प्र॑थ॒म उ॒स्रियो॒ वृषा॒ वात॑भ्रजा स्त॒नय॑न्नेति वृ॒ष्ट्या। स नो॑ मृडाति त॒न्व ऋजु॒गो रु॒जन् य एक॒मोज॑स्त्रे॒धा वि॑चक्र॒मे॥१॥ अङ्गे॑ अङ्गे शो॒चिषा॑ शिश्रिया॒णं न॑म॒स्यन्त॑स्त्वा ह॒विषा॑ विधेम । अ॒ङ्कान्त्स॑म॒ङ्कान् ह॒विषा॑ विधेम॒ यो अग्र॑भी॒त् पर्वा॑स्या॒ ग्रभी॑ता ॥२॥ मु॒ञ्च शी॑र्ष॒क्त्या उ॒त का॒स ए॑नं॒ परु॑ष्परुरावि॒वेशा॒ यो अ॑स्य । यो अ॑भ्र॒जा वा॑त॒जा यश्च॒ शुष्मो॒ वन॒स्पती॑न्त्सचतां॒ पर्व॑तांश्च ॥३॥ शं मे॒ पर॑स्मै॒ गात्रा॑य॒ शम॒स्त्वव॑राय मे । शं मे॑ च॒तुर्भ्यो॒ अङ्गे॑भ्यः॒ शम॑स्तु त॒न्वे॒३मम॑ ॥४॥
— Atharvaveda Kāṇḍa 1 · Sūkta 12 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷