🪷 Yajurveda Vājasaneyi-Kāṇva-Saṁhitā · Adhyāya 37

Adhyāya 37

Veda Detail Source-Anchor Spine

This Yajurveda adhyāya page exposes its local source route, parent shākhā, Yajurveda master route, Catur-Veda hub, and wider śruti/Vedānta/Gītā/Bhāgavata source spine.

YV 37Pravargya-pratiṣṭhā · ritual sealing mantrasVājasaneyi-Kāṇva-Saṁhitāparent shākhā adhyāya index/yajurvedaŚukla-Yajurveda master index/four-vedasCatur-Veda-Pūrṇatā hub for the live śruti URL graph/rigvedaṚgveda master index · 10 maṇḍalas · 1,027 sūktasRV 1.1Agnimīḷe Purohitam · opening mantra of the ṚgvedaRV 3.62Gāyatrī/Sāvitrī source routeRV 7.59Mahāmṛtyuñjaya source routeRV 10.90Puruṣa-Sūkta · cosmic Puruṣa foundationRV 10.129Nāsadīya-Sūkta · creation-enigma inquiry/atharvavedaAtharvaveda master index · 20 kāṇḍas · 736 sūktasAV 10.7Skambha-Sūkta · cosmic-pillar witnessAV 11.4Prāṇa-Sūkta · cosmic-prāṇa witnessAV 12.1Pṛthvī/Bhūmi-Sūkta · Mother Earth source routeAV 19.6Atharvaveda Puruṣa-Sūkta recensionYV 16Rudra-Praśna / Śrī-Rudram source routeYV 31Yajurveda Puruṣa-Sūkta source routeYV 34Śiva-Saṁkalpa-Sūkta source routeYV 36Śānti-mantra source routeYV 40Īśopaniṣad in the Yajurveda source route/upanishads10 Mukhya Upaniṣads · Vedānta doorway/mahavakyasfour Mahā-vākyas · Upaniṣadic concentrateBG 9.17Krishna as pitā, mātā, dhātā, pitāmaha and ṛk-sāma-yajusBG 10.22vedānāṁ sāmavedo’smi · Sāmaveda honored by KrishnaŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattva/binduDiamond of Darśanas · Bindu reader key/philosophyconstitutional Krishna = Paramaatma = Parabrahman foundation

Pravargya-pratiṣṭhā · ritual sealing mantras

“अथ सप्तत्रिंशोऽध्यायः। दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । आ द॑दे॒ नारि॑रसि ॥१॥ १ यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑ । वि होत्रा॑ दधे वयुना॒विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः॒ स्वाहा॑ ॥२॥ २ देवी॑ द्यावापृथिवी म॒खस्य॑ वाम॒द्य शिरो॑ राध्यासं देव॒यज॑ने पृथि॒व्याः । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ॥३॥ ३ देव्यो॑ वम्रियो भू॒तस्य॑ प्रथम॒जा म॒खस्य॑ वो॒ऽद्य शिरो॑ राध्यासं देव॒यज॑ने पृथि॒व्याः । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ॥॥४॥ ४ इय॒त्यग्रे॑ आसीर्म॒खस्य॑ ते॒ऽद्य शिरो॑ राध्यासं देव॒यज॑ने पृथि॒व्याः । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ॥५॥ ५ इन्द्रस्यौज॑ स्थ म॒खस्य॑ वो॒ऽद्य शिरो॑ राध्यासं देव॒यज॑ने पृथि॒व्याः । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ॥६॥ ६ प्रैतु॒ ब्रह्म॑ण॒स्पतिः॒ प्र दे॒व्ये॑तु सू॒नृता॑ । अच्छा॑ वी॒रं नर्यं॑ प॒ङ्क्तिरा॑धसं दे॒वा य॒ज्ञं न॑यन्तु नः । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ॥७॥ ७ (२०१६) म॒खस्य॒ शिरो॑ऽसि । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खस्य॒ शिरो॑ऽसि । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खस्य॒ शिरो॑ऽसि । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ॥८॥ ८ अश्व॑स्य त्वा॒ वृष्णः॑ श॒क्ना धू॑पयामि देव॒यज॑ने पृथि॒व्याः । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । अश्व॑स्य त्वा॒ वृष्णः॑ श॒क्ना धू॑पयामि देव॒यज॑ने पृथि॒व्याः । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । अश्व॑स्य त्वा॒ वृष्णः॑ श॒क्ना धू॑पयामि देव॒यज॑ने पृथि॒व्याः । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ॥९॥ ९ ऋ॒जवे॑ त्वा सा॒धवे॑ त्वा सुक्षि॒त्यै त्वा॑ । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ॥१०॥॥(१) १० य॒माय॑ त्वा म॒खाय॑ त्वा॒ सूर्य॑स्य त्वा॒ तप॑से । दे॒वस्त्वा॑ सवि॒ता मध्वा॑नक्तु पृथि॒व्याः स॒स्पृश॑स्पाहि । अ॒र्चिर॑सि शो॒चिर॑सि॒ तपो॑ऽसि ॥१॥ ११ अना॑धृष्टा पु॒रस्ता॑द॒ग्नेराधि॑पत्य॒ आयु॑र्मे दाः पु॒त्रव॑ती दक्षिण॒त इन्द्र॒स्याधि॑पत्ये प्र॒जां मे॑ दाः । सु॒षदा॑ प॒श्चाद्दे॒वस्य॑ सवि॒तुराधि॑पत्ये॒ चक्षु॑र्मे दा॒ आश्रु॑तिरुत्तर॒तो धा॒तुराधि॑पत्ये रा॒यस्पोषं॑ मे दाः । विधृ॑तिरु॒परि॑ष्टा॒द् बृह॒स्पते॒राधि॑पत्य॒ ओजो॑ मे दा॒ विश्वा॑भ्यो मा ना॒ष्ट्राभ्य॑स्पाहि॒ मनो॒रश्वा॑सि ॥१२॥ १२ स्वाहा॑ म॒रुद्भिः॒ परि॑ श्रीयस्व । दि॒वः स॒स्पृश॑स्पाहि । मधु॒ मधु॒ मधु॑ ॥३॥ (२) १३ गर्भो॑ दे॒वानां॑ पि॒ता म॑ती॒नां पतिः॑ प्र॒जाना॑म् । सं दे॒वो दे॒वेन॑ सवि॒त्रा ग॑त॒ स सूर्ये॑ण रोचते ॥१॥ १४ सम॒ग्निर॒ग्निना॑ गत॒ सं दैवे॑न सवि॒त्रा स सूर्ये॑णारोचिष्ट । स्वाहा॒ सम॒ग्निस्तप॑सा गत॒ सं दैव्ये॑न सवि॒त्रा स सूर्ये॑णारूरुचत ॥२॥ १५ ध॒र्ता दि॒वो वि भा॑ति॒ तप॑सस्पृथि॒व्यां ध॒र्ता दे॒वो दे॒वाना॒मम॑र्त्यस्तपो॒जाः । वाच॑मस्मे॒ नि य॑च्छ देवा॒युव॑म् ॥३॥ १६ अप॑श्यं गो॒पामनि॑पद्यमान॒मा च॒ परा॑ च प॒थिभि॒श्चर॑न्तम् । स स॒ध्रीचीः॒ स विषू॑ची॒र्वसा॑न॒ आ व॑रीवर्त्ति॒ भुव॑नेष्व॒न्तः ॥४॥ १७ (२०२६) विश्वा॑सां भुवां पते॒ विश्व॑स्य मनसस्पते॒ विश्व॑स्य वचसस्पते॒ सर्व॑स्य वचसस्पते । दे॒व॒श्रुत्त्वं दे॑व घर्म दे॒वो दे॒वान्पा॒ह्यत्र॒ प्रावी॒रनु॑ वां दे॒ववी॑तये। मधु॒ माध्वी॑भ्यां॒ मधु॒ माधू॑चीभ्याम् । हृ॒दे त्वा॒ मन॑से त्वा दि॒वे त्वा॒ सूर्या॑य त्वा । ऊ॒र्ध्वो अ॑ध्व॒रं दि॒वि दे॒वेषु॑ धेहि ॥५॥ १८ पि॒ता नो॑ऽसि पि॒ता नो॑ बोधि॒ नम॑स्ते अस्तु॒ मा मा॑ हिसीः । त्वष्टृ॑मन्तस्त्वा सपेम पु॒त्रान्प॒शून्मयि॑ धे॒ह्यरि॑ष्टा॒ह स॒ह प॑त्या भूयासम् ॥६॥ १९ अहः॑ के॒तुना॑ जुषता सु॒ज्योति॒र्ज्योति॑षा॒ स्वाहा॑ । रात्रिः॑ के॒तुना॑ जुषता सु॒ज्योति॒र्ज्योति॑षा॒ स्वाहा॑ ॥७॥(३) २० (२०२९) ॥इति शुक्लयजुःकाण्वसंहितायां सप्तत्रिंशोऽध्यायः॥३॥७॥”
— Śukla-Yajurveda Vājasaneyi-Kāṇva-Saṁhitā · Adhyāya 37 · Devanāgarī yathārtha with Vedic svaras

Navigation

🪷 ॐ 🪷