🪷 Yajurveda Vājasaneyi-Kāṇva-Saṁhitā · Adhyāya 2

Adhyāya 2

Darśa-Paurṇamāsa continued · the Vedi-construction mantras

अथ द्वितीयोऽध्यायः । कृष्णो॑स्याखरे॒ष्ठो॒ऽग्नये॑ त्वा॒ जुष्टं॒ प्रोक्षा॑मि॒ वेदि॑रसि ब॒र्हिषे॑ त्वा॒ जुष्टां॒ प्रोक्षा॑मि । ब॒र्हिर॑सि स्रु॒ग्भ्यस्त्वा॒ जुष्टं॒ प्रोक्षा॑मि ॥१॥ अदि॑त्यै॒ व्युन्द॑नमसि॒ विष्णो॑ स्तु॒पो॑ऽसि । ऊर्णं॑ म्रदसं त्वा स्तृणामि स्वास॒स्थां दे॒वेभ्यः॑ ॥२२॥॥ भुव॑पतये॒ स्वाहा॒ भुव॑नपतये॒ स्वाहा॑ । भू॒तानां॒ पत॑ये॒ स्वाहा॑। ग॒न्ध॒र्वस्त्वा॑ वि॒श्वाव॑सुः॒ परि॑दधातु॒ विश्व॒स्यारि॑ष्ट्यै ॥३३॥॥ यज॑मानस्य परि॒धिर॑स्य॒ग्निरि॒ळ ई॑ळि॒तः । इन्द्र॑स्य बा॒हुर॑सि॒ दक्षि॑णो॒ विश्व॒स्यारि॑ष्ट्यै। यज॑मानस्य परि॒धिर॑स्य॒ग्निरि॒ळ ई॑ळि॒तः । मि॒त्रावरु॑णौ त्वोत्तर॒तः परि॑धत्तां ध्रु॒वेण॒ धर्म॑णा॒ विश्व॒स्यारि॑ष्ट्यै। यज॑मानस्य परि॒धिर॑स्य॒ग्निरि॒ळ ई॑ळि॒तः ॥४॥ ४ वी॒तिहो॑त्रं त्वा कवे द्यु॒मन्त॒ समि॑धीमहि । अग्ने॑ बृ॒हन्त॑मध्व॒रे ॥५॥ ५ स॒मिद॑सि । सूर्य॑स्त्वा पु॒रस्ता॑त् पातु॒ कस्या॑श्चिद॒भिश॑स्त्यै । स॒वि॒तुर्बा॒हू स्थः॑ ॥६॥६॥ ऊर्णं॑ म्रदसं त्वा स्तृणामि स्वास॒स्थं दे॒वेभ्यः॑ । आ त्वा॒ वस॑वो रु॒द्रा आ॑दि॒त्याः स॑दन्तु ॥७॥ ७ घृ॒ताच्य॑सि जु॒हूर्नाम॒ सेदं प्रि॒येण॒ धाम्ना॑ प्रि॒ये सद॑सि सीद । घृ॒ताच्य॑स्युप॒भृन्नाम॒ सेदं प्रि॒येण॒ धाम्ना॑ प्रि॒ये सद॑सि सी॑द । घृ॒ताच्य॑सि ध्रु॒वा नाम॒ सेदं प्रि॒येण॒ धाम्ना॑ प्रि॒ये सद॑सि सीद । प्रि॒येण॒ धाम्ना॑ प्रि॒ये सद॑सि सीद ॥८॥ ८ (५८) ध्रु॒वा अ॑सदन्नृ॒तस्य॒ योनौ॒ ता वि॑ष्णो पाहि । पा॒हि य॒ज्ञं पा॒हि य॒ज्ञप॑तिं पा॒हि मां य॑ज्ञ॒न्य॑म् ॥९॥(१) ९ अग्ने॑ वाजजि॒द्वाजं॑ त्वा सरि॒ष्यन्तं॑ वाज॒जित॒ सम्मा॑र्ज्मि । नमो॑ दे॒वेभ्यः॑ स्व॒धा पि॒तृभ्यः॑ सु॒यमे॑ मे भूयास्तम् ॥१॥ १० अस्क॑न्नम॒द्याज्यं॑ दे॒वेभ्यः॒ संभ्रि॑यासम् । अङ्घ्रि॑णा विष्णो॒ मा त्वाव॑क्रमिषम् ॥२१॥१॥ वसु॑मतीमग्ने ते छा॒यामुप॑स्थेषं॒ विष्णोः॒ स्थान॑मसि । इ॒त इन्द्रो॑ वी॒र्य॑मकृणोदू॒र्ध्वो॑ऽध्व॒र आस्था॑त् ॥३१॥२॥ अग्ने॒ वेर्हो॒त्रं वेर्दू॒त्य॑म् । अव॑तां त्वां॒ द्यावा॑पृथि॒वी अव॒ त्वं द्यावा॑पृथि॒वी ॥४॥ १३ स्वि॒ष्ट॒कृद्दे॒वेभ्य॒ इन्द्र॒ आज्ये॑न ह॒विषा॒ भू॒त् स्वाहा॑ । सं ज्योति॑षा॒ ज्योतिः॑ ॥५॥१४॥ अत्र॑ पितरो मादयध्वं यथाभा॒गमावृ॑षायध्वम् । अमी॑ मदन्त पि॒तरो॑ यथाभा॒गमावृ॑षायिषत ॥६॥ १५ उप॑हूता पृथि॒वी मा॒तोप॒ मां पृ॑थि॒वी मा॒ता ह्व॑यताम् । अ॒ग्निराग्नी॑ध्रा॒त् स्वाहा॑ ॥७॥ १६ उप॑हूतो॒ द्यौष्पि॒तोप॒ मां द्यौ॑ष्पि॒ता ह्व॑यताम् । अ॒ग्निराग्नी॑ध्रा॒त् स्वा॑हा ॥८॥ १७ मयी॒दमिन्द्र॑ इन्द्रि॒यं द॑धात्व॒स्मान् रायो॑ म॒घवा॑नः सचन्ताम् । अ॒स्माक॑ सन्त्वा॒शिषः॑ स॒त्या नः॑ सन्त्वा॒शिषः॑ । अग्ने॑ वाजजि॒द्वाजं॑ त्वा ससृ॒वासं॑ वाज॒जित॒ सम्मार्ज्मि॥९॥(२) १८ देव॑ सवितरे॒तं त्वा॑ वृणते॒ बृह॒स्पतिं॑ ब्र॒ह्माण॑म्। तद॒हं मन॑से॒ प्रब्र॑वीमि॥१॥ १९ मनो॑ गा॒यत्र्यै गा॑य॒त्री त्रि॒ष्टुभे॑ त्रि॒ष्टुब्जग॑त्यै॒ जग॑त्यनु॒ष्टु॒भे॑। अ॒नु॒ष्टप्प्र॒जाप॑तये प्र॒जाप॑ति॒र्विश्वे॑भ्यो दे॒वेभ्यः॑॥२॥ २० ब्रह॒स्पति॑र्दे॒वानां॑ ब्र॒ह्माहं म॑नु॒ष्या॑णाम् । भूर्भुवः॒ स्व॒र्निर॑स्तः पा॒प्मेदम॒हं बृह॒स्पतेः॒ सद॑सि सीदामि॥३॥ २१ मि॒त्रस्य॑ त्वा॒ चक्षु॑षा॒ प्रती॑क्षे । दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । प्रति॑गृह्णामि पृथि॒व्यास्त्वा॒ नाभौ॑ सादया॒म्यदि॑त्या उ॒पस्थे॑। दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ॥४॥ २२ आद॑दे॒ऽग्नेष्ट्वा॒स्ये॑न॒ प्राश्ना॑मि॒ बृह॒स्पते॒र्मुखे॑न । या अ॒प्स्व॒न्तर्दे॒वता॒स्ता इ॒द श॑मयन्तु॥५॥ २३ स्वाहा॑कृतं ज॒ठरा॒मिन्द्र॑स्य गछ। घ॒सिना॑ मे॒ मा संपृ॑क्था ऊ॒र्ध्व मे॒ नाभेः॑ सीद॥६॥ २४ इन्द्र॑स्य त्वा ज॒ठरे॑ सादयामि। प्र॒जाप॑तेर्भा॒गो॒स्यूर्ज॑स्वा॒न् पय॑स्वान्॥७॥ २५ प्रा॒णा॒पा॒नौ मे॑ पाहि समानव्या॒नौ मे॑ पाह्युदानव्या॒नौ मे॑ पाहि। ऊर्ग॒स्यूर्जं॒ मयि॑ धे॒ह्यक्षि॑तिरसि॒ मा मे॑ क्षेष्ठा अ॒मुत्रा॒मुष्मिं॑ल्लो॒क इ॒ह च॑ ॥८॥ २६ ए॒षा ते॑ अग्ने स॒मित्तया॒ वर्ध॑स्व॒ चा च॑ प्यायस्व । व॒र्धि॒षी॒महि॑ च व॒यमा च॑ प्यासिषीमहि ॥९॥ २७ (७७) ए॒तत् ते॑ देव सवितर्य॒ज्ञं प्राहु॒र्बृह॒स्पत॑ये ब्र॒ह्मणे॑ । तेन॑ य॒ज्ञम॑व॒ तेन॑ य॒ज्ञप॑तिं॒ तेन॒ माम॑व ॥१०॥॥२८॥ मनो॒ज्योति॑र्जुषता॒माज्य॑स्य॒ बृह॒स्पति॑र्य॒ज्ञमि॒मं त॑नोतु । अरि॑ष्टं य॒ज्ञ समि॒मं द॑धातु॒ विश्वे॑ दे॒वास॑ इ॒ह मा॑दयन्ता॒मों प्रति॑ष्ठ ॥११॥॥(३) २९ अ॒ग्नीषोम॑यो॒रुज्जि॑ति॒मनूज्जे॑षं॒ वाज॑स्य मा प्रस॒वेन॒ प्रोहा॑मि । अ॒ग्नीषोमौ॒ तमप॑नुदतां॒ यो॒ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मो वाज॑स्यैनं प्रस॒वेनापो॑हामि । इ॒न्द्रा॒ग्न्योरुज्जि॑ति॒मनूज्जे॑षं॒ वाज॑स्य मा प्रस॒वेन॒ प्रोहा॑मि । इ॒न्द्रा॒ग्नी तमप॑नुदतां॒ यो॒ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मो वाज॑स्यैनं प्रस॒वेनापो॑हामि ॥१॥ ३० वसु॑भ्यस्त्वा रु॒द्रेभ्य॑स्त्वादि॒त्येभ्य॑स्त्वा । संजा॑नाथां द्यावापृथिवी मि॒त्रावरु॑णौ त्वा॒ वृष्ट्या॑वताम् ॥२॥ ३१ व्यन्तु॒ वयो॑रि॒प्तो रिहा॑णा म॒रुतां॒ पृष॑तीं गछ। व॒शा पृश्नि॑र्भू॒त्वा दिवं॑ गछ॒ ततो॑ नो॒ वृष्टि॒माव॑ह ॥३॥ ३२ च॒क्षु॒ष्पा अ॑सि॒ चक्षु॑र्मे पाहि ।यं प॑रि॒धिं प॒र्यध॑त्था॒ अग्ने॑ देव प॒णिभि॑र्गु॒ह्यमा॑नः॥४॥ ३३ तं त॑ ए॒तमनु॒ जोषं॑ भराम्ये॒ष नेत्त्वद॑पचे॒तया॑तै । अ॒ग्नेः प्रि॒यं पाथोऽपी॑तम् ॥५॥ ३४ स॒ स्र॒वभा॑गा स्थे॒षा बृ॒हन्तः॑ प्रस्तरे॒ष्ठाः प॑रि॒धय॑श्च दे॒वाः । इ॒मां वाच॑म॒भि विश्वे॑ गृ॒णन्त॑ आ॒सद्या॒स्मिन् ब॒र्हिषि॑ मादयध्व॒ स्वाहा॒ वाट् । घृ॒ताची॑ स्थो॒ धुर्यौ॑ पात सु॒म्ने स्थः॑ सु॒म्ने मां॑ धत्तम् ॥६॥ (४) ३५ अग्ने॑ऽदब्धायोऽशीतम पा॒हि मा॑ दि॒द्योः पा॒हि प्रसि॑त्यै पा॒हि दुरि॑ष्ट्यै पा॒हि दु॑रद्म॒न्यै । अ॒वि॒षं नः॑ पि॒तुं कृ॑णु सु॒षदा॒ योनौ॒ स्वाहा॒ वाट् ॥१॥ ३६ अ॒ग्नये॑ संवे॒शप॑तये॒ स्वाहा॒ सर॑स्वत्यै यशोभ॒गिन्यै॒ स्वाहा॑ । उ॒लूख॑ले॒ मुस॑ले॒ यच्च॒ शूर्प॑ आशि॒श्लेष॑ दृ॒षदि॒ यत् क॒पाले॑॥२॥ ३७ उत्प्रुषो॑ वि॒प्रुषः॒ सं जु॑होमि स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः॒ स्वाहा। आप्या॑यतां ध्रु॒वा ह॒विषा॑ घृ॒तेन॑ य॒ज्ञं य॑ज्ञं॒ प्रति॑ देव॒यद्भयः॑॥ सू॒र्याया॒ ऊधो॒ अदि॑त्या उ॒पस्थ॑ उ॒रुधा॑रा पृथि॒वी य॒ज्ञे अ॒स्मिन्॥३३॥॥८॥ देवा॑ गातुविदो गा॒तुमि॒त्त्वा गा॒तुमि॑त । मन॑सस्पत इ॒मं दे॑व य॒ज्ञ स्वाहा॒ वाते॑ धाः ॥४॥ ३९ संब॒र्हिर॑ङ्क्ता ह॒विषा॑ घृ॒तेन॒ समा॑दित्यै॒र्वसु॑भिः॒ सं म॒रुद्भिः॑ । समिन्द्रो॑ वि॒श्वदे॑वेभिरङ्क्तां दि॒व्यं नभो॑ गच्छतु॒ यत् स्वाहा॑ ॥५॥ ४० कस्त्वा॒ विमु॑ञ्चति॒ स त्वा॒ विमु॑ञ्चति॒ कस्मै॑ त्वा॒ विमु॑ञ्चति॒ तस्मै त्वा॒ विमु॑ञ्चति । पोषा॑य॒ रक्ष॑सां भा॒गो॑ऽसि ॥६॥ ४१ वे॒षो॑ऽस्युपवे॒षो द्वि॑ष॒तो ग्री॒वा उप॑वेविढ्ढि । वेशां॑ अग्ने सुभग धारये॒ह॥७॥ ४२ (९२) ऋ॒द्धाः क॑र्म॒ण्या॒ अन॑पायिनो॒ यथास॑न्॥ जु॒होमि॑ त्वा सुभग॒ सौभ॑गाय पुरू॒तमं॑ पुरुहूत श्रव॒स्यन् ॥८॥(५) ४३ सं वर्च॑सा॒ पय॑सा॒ सं त॒नूभि॒रग॑न्महि॒ मन॑सा॒ स शि॒वेन॑ । त्वष्टा॑ सु॒दत्रो॒ विद॑धातु॒ रायोनु॑मार्ष्टु त॒न्वो॒ यद्विलि॑ष्टम् ॥१॥ ४४ यज्ञ॒ शं च॑ त॒ उप॑ च । शि॒वे मे॒ संति॑ष्ठ॒स्वारि॑ष्टे मे॒ संति॑ष्ठस्व॒ स्वि॑ष्टे मे॒ संति॑ष्ठस्व॥२॥ ४५ दि॒वि विष्णु॒र्व्य॑क्रस्त॒ जाग॑तेन॒ छन्द॑सा॒ ततो॒ निर्भ॑क्तः। यो॒ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः । अ॒न्तरि॑क्षे॒ विष्णु॒र्व्य॑क्रस्त॒ त्रैष्टु॑भेन॒ छन्द॑सा॒ ततो॒ निर्भ॑क्तः । यो॒ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः । पृ॒थि॒व्यां विष्णु॒र्व्य॑क्रस्त गाय॒त्रेण॒ छन्द॑सा॒ ततो॒ निर्भ॑क्तः । यो॒ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः ॥३॥ ४६ अ॒स्मादन्ना॑द॒स्यै प्र॑ति॒ष्ठाया॒ अग॑न्म॒ स्वः॑ । सं ज्योति॑षाभूम ॥४॥४॥७॥ स्व॒यं॒भूर॑सि॒ श्रेष्ठो॑ र॒श्मिर्व॑र्चो॒दा अ॑सि॒ वर्चो॑ मे देहि । सूर्य॑स्या॒वृत॒मन्वाव॑र्ते ॥५॥ ४८ अग्ने॑ गृहपते सुगृहप॒तिर॒हं त्वया॑ गृ॒हप॑त्या भूयासम्। सु॒गृ॒ह॒प॒तिस्त्वं मया॑ गृ॒हप॑त्या भूयाः ॥६॥ ४९ अ॒स्थू॒रि णो॒ गार्ह॑पत्यानि सन्तु श॒त हिमाः॑ । ति॒ग्मेन॑ न॒स्तेज॑सा॒ सशि॑शाधि॒ सूर्य॑स्या॒वृत॒मन्वाव॑र्ते ॥७॥ ५० उ॒रुवि॑ष्णो॒ विक्र॑मस्वो॒रुक्षया॑य नस्कृधि । घृ॒तं घृ॑तयोने पिब॒ प्र-प्र॑ य॒ज्ञप॑तिं तिर ॥८॥ ५१ ततो॑ऽसि॒ तंतु॑र॒स्यनु॑ मा तनुहि । अ॒स्मिन्य॒ज्ञे॒स्या सा॑धु कृ॒त्याया॑म॒स्मिन्नन्ने॒ऽस्मिँल्लो॒के॥९॥५॥२ इ॒दं मे॒ कर्मे॒दं वी॒र्यं॑ पु॒त्रो॑ऽनु॒ संत॑नोतु। अग्ने॑ व्रतपते व्र॒तम॑चारिषं॒ तद॑शकं॒ तन्मे॑ऽराधि । इ॒दम॒हं य ए॒वास्मि॒ स ए॒वास्मि॑ ॥१०॥॥(६) ५३ अ॒ग्नये॑ कव्य॒वाह॑नाय॒ स्वाहा॒ सोमा॑य पितृ॒मते॒ स्वाहा॑ । अप॑हता॒ असु॑रा॒ रक्षा॑ सि वेदि॒षदः॑ ॥१॥ ५४ ये रू॒पाणि॑ प्रतिमु॒ञ्चमा॑ना॒ असु॑राः॒ सन्तः॑ स्व॒धया॒ चर॑न्ति । प॒रा॒पुरो॑ नि॒पुरो॒ ये भर॑न्त्य॒ग्निष्टाँल्लो॒कात् प्रणु॑दात्य॒स्मात् ॥२॥ ५५ अत्र॑ पितरो मादयध्वं यथाभा॒गमावृ॑षायध्वम् । अमी॑मदन्त पि॒तरो॑ यथाभा॒गमावृ॑षायिषत ॥३॥ ५६ नमो॑ वः पितरः॒ शुष्मा॑य॒ नमो॑ वः पितर॒स्तप॑से। नमो॑ वः पितरो॒ यज्जी॒वं तस्मै॒ नमो॑ वः पितरो॒ रसाय॑। नमो॑ वः पितरो घो॒राय॑ म॒न्यवे॑ स्व॒धायै॑ वः पितरो॒ नमः॑। ए॒तद्वः॑ पितरो॒ वासो॑ गृ॒हान्नः॑ पितरो दत्त॥४॥ ५७ (१०७) उदायु॑षा स्वा॒युषोत्पर्जन्य॑स्य॒ धाम॑भिः। उद॑स्थाम॒मृताँ॒ अनु॥५॥ ५८ आध॑त्त पितरो॒ गर्भं॑ कुमा॒रं पुष्क॑रस्रजम् । यथे॒ह पुरु॒षोऽस॑त् ॥६॥ ५९ ऊर्जं॒ वह॑न्तीर॒मृतं॑ घृ॒तं पयः॑ की॒लालं॑ परि॒स्रुत॑म् । स्व॒धा स्थ॑ त॒र्पय॑त मे पि॒तॄन् ॥७॥(७) ६० ॥इति शुक्लयजुः काण्वसंहितायां द्वितीयोऽध्यायः॥२॥
— Śukla-Yajurveda Vājasaneyi-Kāṇva-Saṁhitā · Adhyāya 2 · Devanāgarī yathārtha with Vedic svaras

Navigation

🪷 ॐ 🪷