🪷 किष्किन्धाकाण्ड · Sarga 66

Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 66 · 38 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 4.66.1
अनेक शत साहस्रीम् विषण्णाम् हरि वाहिनीम् ।जांबवान् समुदीक्ष्य एवम् हनुमंतम् अथ अब्रवीत् ॥४-६६-१॥
Vālmīki 4.66.2
वीर वानर लोकस्य सर्व शास्त्र विदाम् वर ।तूष्णीम् एकांतम् आश्रित्य हनुमन् किम् न जल्पसि ॥४-६६-२॥
Vālmīki 4.66.3
हनुमन् हरि राजस्य सुग्रीवस्य समो हि असि ।राम लक्ष्मणयोः च अपि तेजसा च बलेन च ॥४-६६-३॥
Vālmīki 4.66.4
अरिष्टनेमिनः पुत्रो वैनतेयो महाबलः ।गरुत्मान् इव विख्यात उत्तमः सर्व पक्षिणाम् ॥४-६६-४॥
Vālmīki 4.66.5
बहुशो हि मया दृष्टः सागरे स महाबलः ।भुजगान् उद्धरन् पक्षी महावेगो महायशाः ॥४-६६-५॥
Vālmīki 4.66.6
पक्षयोः यत् बलम् तस्य तावत् भुज बलम् तव ।विक्रमः च अपि वेगः च न ते तेन अपहीयते ॥४-६६-६॥
Vālmīki 4.66.7
बलम् बुद्धिः च तेजः च सत्त्वम् च हरि सत्तम ।विशिष्टम् सर्व भूतेषु किम् आत्मानम् न सज्जसे ॥४-६६-७॥
Vālmīki 4.66.8
अप्सर अप्सरसाम् श्रेष्ठा विख्याता पुंजिकस्थला ।अंजना इति परिख्याता पत्नी केसरिणो हरेः ॥४-६६-८॥
Vālmīki 4.66.9
विख्याता त्रिषु लोकेषु रूपेणा अप्रतिमा भुवि ।अभिशापात् अभूत् तात कपित्वे काम रूपिणी ॥४-६६-९॥
Vālmīki 4.66.10
दुहिता वानर इन्द्रस्य कुंजरस्य महात्मनः ।मानुषम् विग्रहम् कृत्वा रूप यौवन शालिनी ॥४-६६-१०॥
Vālmīki 4.66.11
विचित्र माल्य आभरणा कदाचित् क्षौम धारिणी ।अचरत् पर्वतस्य अग्रे प्रावृड् अंबुद सन्निभे ॥४-६६-११॥
Vālmīki 4.66.12
तस्या वस्त्रम् विशालाक्ष्याः पीतम् रक्त दशम् शुभम् ।स्थितायाः पर्वतस्य अग्रे मारुतो अपहरत् शनैः ॥४-६६-१२॥
Vālmīki 4.66.13
स ददर्श ततः तस्या वृत्तौ ऊरू सुसंहतौ ।स्तनौ च पीनौ सहितौ सुजातम् चारु च आननम् ॥४-६६-१३॥
Vālmīki 4.66.14
ताम् बलात् आयत श्रोणीम् तनु मध्याम् यशस्विनीम् ।दृष्ट्वा एव शुभ सर्वान्गीम् पवनः काम मोहितः ॥४-६६-१४॥
Vālmīki 4.66.15
स ताम् भुजाभ्याम् दीर्घाभ्याम् पर्यष्वजत मारुतः ।मन्मथ आविष्ट सर्वान्गो गत आत्मा ताम् अनिन्दिताम् ॥४-६६-१५॥
Vālmīki 4.66.16
सा तु तत्र एव संभ्रांता सुवृत्ता वाक्यम् अब्रवीत् ।एक पत्नी व्रतम् इदम् को नाशयितुम् इच्छति ॥४-६६-१६॥
Vālmīki 4.66.17
अंजनाया वचः श्रुत्वा मारुतः प्रत्यभाषत ।न त्वाम् हिंसामि सुश्रोणि मा भूत् ते मनसोइ भयम् ॥४-६६-१७॥
Vālmīki 4.66.18
मनसा अस्मि गतो यत् त्वाम् परिष्वज्य यशस्विनि ।वीर्यवान् बुद्धि संपन्नः पुत्रः तव भविष्यति ॥४-६६-१८॥
Vālmīki 4.66.19
महासात्त्वो महातेज महाबल पराक्रमः ।लंघने प्लवने चैव भविष्यति मया समः ॥४-६६-१९॥
Vālmīki 4.66.20
एवम् उक्ता ततः तुष्टा जननी ते महाकपेः ।गुहायाम् त्वाम् महाबाहो प्रजज्ञे प्लवगर्षभ ॥४-६६-२०॥
Vālmīki 4.66.21
अभ्युत्थितम् ततः सूर्यम् बालो दृष्ट्वा महा वने ।फलंचेतिजिघृक्षुस्त्वमुत्प्लुत्याभ्युत्पतोदिवम् - यद्वा -फलम् च इति जिघृक्षुः त्वम् उत्प्लुत्य अभिउत्पतो दिवम् ॥४-६६-२१॥
Vālmīki 4.66.22
शतानि त्रीणि गत्वा अथ योजनानाम् महाकपे ।तेजसा तस्य निर्धूतो न विषादम् ततो गतः ॥४-६६-२२॥
Vālmīki 4.66.23
त्वाम् अपि उपगतम् तूर्णम् अंतरीक्षम् महाकपे ।क्षिप्तम् इन्द्रेण ते वज्रम् कोप आविष्टेन तेजसा ॥४-६६-२३॥
Vālmīki 4.66.24
तदा शैलाग्र शिखरे वामो हनुर् अभज्यत ।ततो हि नाम धेयम् ते हनुमान् इति कीर्तितम् ॥४-६६-२४॥
Vālmīki 4.66.25
ततः त्वाम् निहतम् दृष्ट्वा वायुः गन्ध वहः स्वयम् ।त्रैलोक्यम् भृश संक्रुद्धो न ववौ वै प्रभंजनः ॥४-६६-२५॥
Vālmīki 4.66.26
संभ्रांताः च सुराः सर्वे त्रैलोक्ये क्षुभिते सति ।प्रसादयन्ति संक्रुद्धम् मारुतम् भुवनेश्वराः ॥४-६६-२६॥
Vālmīki 4.66.27
प्रसादिते च पवने ब्रह्मा तुभ्यम् वरम् ददौ ।अशस्त्र वध्यताम् तात समरे सत्य विक्रम ॥४-६६-२७॥
Vālmīki 4.66.28
वज्रस्य च निपातेन विरुजम् त्वाम् समीक्ष्य च ।सहस्र नेत्रः प्रीत आत्मा ददौ ते वरम् उत्तमम् ॥४-६६-२८॥
Vālmīki 4.66.29
स्वच्छंदतः च मरणम् तव स्यात् इति वै प्रभो ।स त्वम् केसरिणः पुत्रः क्षेत्रजो भीम विक्रमः ॥४-६६-२९॥
Vālmīki 4.66.30
मारुतस्य औरसः पुत्रः तेजसा च अपि तत् समः ।त्वम् हि वायु सुतो वत्स प्लवने च अपि तत् समः ॥४-६६-३०॥
Vālmīki 4.66.31
वयम् अद्य गत प्राणा भवान् अस्मासु सांप्रतम् ।दाक्ष्य विक्रम संपन्नः कपि राज इव अपरः ॥४-६६-३१॥
Vālmīki 4.66.32
त्रिविक्रमे मया तात स शैल वन कानना ।त्रिः सप्त कृत्वः पृथिवी परिक्रान्ता प्रदक्षिणम् ॥४-६६-३२॥
Vālmīki 4.66.33
तथा च ओषधयो अस्माभिः संचिता देव शासनात् ।निर्मथ्यम् अमृतम् याभिः तदा तदानीम् नो महत् बलम् ॥४-६६-३३॥
Vālmīki 4.66.34
स इदानीम् अहम् वृद्धः परिहीन पराक्रमः ।साम्प्रतम् कालम् अस्माकम् भवान् सर्व गुण अन्वितः ॥४-६६-३४॥
Vālmīki 4.66.35
तत् विजृंभस्व विक्रांतः प्लवताम् उत्तमो हि असि ।त्वत् वीर्यम् द्रष्टु कामा इयम् सर्वा वानर वाहिनी ॥४-६६-३५॥
Vālmīki 4.66.36
उत्तिष्ठ हरि शार्दूल लंघयस्व महा अर्णवम् ।परा हि सर्व भूतानाम् हनुमन् या गतिः तव ॥४-६६-३६॥
Vālmīki 4.66.37
विषाण्णा हरयः सर्वे हनुमन् किम् उपेक्षसे ।विक्रमस्व महावेग विष्णुः त्रीन् विक्रमान् इव ॥४-६६-३७॥
Vālmīki 4.66.38
ततः कपीनाम् ऋषभेण चोदितःप्रतीत वेगः पवन आत्मजः कपिः ।प्रहर्षयन् ताम् हरि वीर वाहिनीम्चकार रूपम् महत् आत्मनः तदा ॥४-६६-३८॥

Navigation

Continue with Kiṣkindhā-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷