🪷 अयोध्याकाण्ड · Sarga 55

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 55 · 34 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.55.1
उषित्वा रजनीम् तत्र राजपुत्रावरिम्दमौ ।महर्षिमभिवाद्याथ जग्मतुस्तम् गिरिम् प्रति ॥२-५५-१॥
Vālmīki 2.55.2
तेषाम् चैव स्वस्त्ययनम् महर्षिः स चकार ह ।प्रस्थिताम्श्चैव तान् प्रेक्ष्यपिता पुत्रानिवान्वगात् ॥२-५५-२॥
Vālmīki 2.55.3
ततः प्रचक्रमे वक्तुम् वचनम् स महामुनिः ।भर्द्वाजो महातेजा रामम् सत्यपराक्रमम् ॥२-५५-३॥
Vālmīki 2.55.4
गङ्गायमुनयोः सन्धिमासाद्य मनुजर्षभौ ।काLइन्दीमनुगच्छेताम् नदीम् पश्चान्मुखाश्रिताम् ॥२-५५-४॥
Vālmīki 2.55.5
अथासाद्य तु काLइन्न्धीम् शीघ्रस्रोतसमापगाम् ।तस्यास्तीर्थम् प्रचरितम् पुराणम् प्रेक्ष्य राघवौ ॥२-५५-५॥
Vālmīki 2.55.6
तत्र यूयम् प्लवम् कृत्वा तरताम्शुमतीम् नदीम् ।ततो न्यग्रोधमासाद्य महान्तम् हरितच्छदम् ॥२-५५-६॥
Vālmīki 2.55.7
विवृद्धम् बहुभिर्वऋक्षैह् श्यामम् सिद्धोपसेवितम् ।तस्मै सीताञ्जलिम् कृत्वा प्रयुञ्जीताशिषः शिवाः ॥२-५५-७॥
Vālmīki 2.55.8
समासाद्य तु तम् वृक्षम् वसेद्वातिक्रमेत वा ।क्रोशमात्रम् ततो गत्वा नीलम् द्रक्ष्यथ काननम् ॥२-५५-८॥
Vālmīki 2.55.9
पलाशबदरीमिश्रम् रम्यम् वम्शैश्च यामुनैः ।स पन्थाश्चित्रकूटस्य गतः सुबहुशो मया ॥२-५५-९॥
Vālmīki 2.55.10
रम्ये मार्दवयुक्तश्च वनदावैर्विपर्जितः ।इति पन्थानमावेद्य महर्षः स न्यवर्तत ॥२-५५-१०॥
Vālmīki 2.55.11
अभिवाद्य तथेत्युक्त्वा रामेण विनिवर्तितः ।उपावृत्ते मुनौ तस्मिन् रामो लक्ष्मणमब्रवीत् ॥२-५५-११॥
Vālmīki 2.55.12
कृतपुण्याः स्म सौमित्रे मुनिर्यन्नोऽनुकम्पते ।इति तौ पुरुषव्याघ्रौ मन्त्रयित्वा मनस्विनौ ॥२-५५-१२॥
Vālmīki 2.55.13
सीतामेवाग्रतः कृत्वा काLइन्दीम् जग्मतुर्नदीम् ।अथा साद्य तु काLइन्दीम् शीघ्रस्रोतोवहाम् नदीम् ॥२-५५-१३॥
Vālmīki 2.55.14
तौ काष्ठसम्घातमथो चक्रतुस्तु महाप्लवम् ॥२-५५-१४॥
Vālmīki 2.55.15
शुष्कैर्वम्शैः समास्तीर्णमुLईरैश्च समावृतम् ।ततो वेतसशाखाश्च जम्बूशाखाश्च वीर्यवान् ॥२-५५-१५॥
Vālmīki 2.55.16
चकार लक्ष्मणश्छित्वा सीतायाः सुखमासनम् ।तत्र श्रियमिवाचिन्त्याम् रामो दाशरथिः प्रियाम् ॥२-५५-१६॥
Vālmīki 2.55.17
ईष्त्सन्कह्हनाबान् तानग्तारिओअतत् प्लवम् ।पार्श्वे च तत्र वैदेह्या वसने चूष्णानि च ॥२-५५-१७॥
Vālmīki 2.55.18
प्लवे कठिनकाजम् च रामश्चक्रे सहायुधैः ।आरोप्य प्रथमम् सीताम् सम्घाटम् प्रतिगृह्य तौ ॥२-५५-१८॥
Vālmīki 2.55.19
ततः प्रतेरतुर्य त्तौ वीरौ दशरथात्मजौ ।काLइन्दीमध्यमायाता सीता त्वेनामवन्दत ॥२-५५-१९॥
Vālmīki 2.55.20
स्वस्ति देवि तरामि त्वाम् पार्येन्मे पतिर्वतम् ।यक्ष्ये त्वाम् गोनहस्रेण सुराघटशतेन च ॥२-५५-२०॥
Vālmīki 2.55.21
स्वस्ति प्रत्यागते रामे पुरीमिक्ष्वाकुपालिताम् ।काLइन्दीमथ सीता तु याचमाना कृताञ्जलिः ॥२-५५-२१॥
Vālmīki 2.55.22
तीरमेवाभिसम्प्राप्ता दक्षिणम् वरवर्णिनी ।ततः प्लवेनाम्शुमतीम् शीघ्रगामूर्मिमालिनीम् ॥२-५५-२२॥
Vālmīki 2.55.23
तीरजैर्बहुभिर्वृक्षैः सम्तेरुर्यमुनाम् नदीम् ।ते तीर्णाः प्लवमुत्सृज्य प्रस्थाय यमुनावनात् ॥२-५५-२३॥
Vālmīki 2.55.24
श्यामम् न्यग्रोधमासेदुः शीतलम् हरितच्छदम् ।न्य्ग्रोधम् तमुपागम्य वैदेहि वाक्यमब्रवीत् ॥२-५५-२४॥
Vālmīki 2.55.25
नमस्तेऽन्तु महावृक्ष पारयेन्मे पतिर्वतम् ।कौसल्याम् चैव पश्येयम् सुमित्राम् च यशस्विनीम् ॥२-५५-२५॥
Vālmīki 2.55.26
इति सीताञ्जलिम् कृत्वा पर्यगच्छद्वनस्पतिम् ।अवलोक्य ततः सीतामायाचन्तीमनिन्दिताम् ॥२-५५-२६॥
Vālmīki 2.55.27
दयिताम् च विधेयम् च रामो लक्ष्मणमब्रवीत् ।सीतामादाय गच्छ त्वमग्रतो भरतानुज ॥२-५५-२७॥
Vālmīki 2.55.28
पृष्ठतोऽहम् गमिष्यामि सायुधो द्विपदाम् वर ।यद्यत्फलम् प्रार्थयते पुष्पम् वा जनकात्मजा ॥२-५५-२८॥
Vālmīki 2.55.29
तत्तत्प्रदद्या वैदेह्या यत्रास्य रमते मनः ।गच्चतोस्तु तयोर्मध्ये बभूव जनकात्मजा ॥२-५५-२९॥
Vālmīki 2.55.30
मातङ्गयोर्मद्यगता शुभा नागवधूरिव ।एकैकम् पादपम् गुल्मम् लताम् वा पुष्पशालिनीम् ॥२-५५-३०॥
Vālmīki 2.55.31
अदृष्टपूर्वाम् पश्यन्ती रामम् पप्रच्छ साऽबला ।रमणीयान् बहुविधान् पादपान् कुसुमोत्कटान् ॥२-५५-३१॥
Vālmīki 2.55.32
सीतावचनसम्रब्द अनयामास लक्स्मणः ।विचित्रवालुकजलाम् हससारसनादिताम् ॥२-५५-३२॥
Vālmīki 2.55.33
रेमे जनकराजस्य तदा प्रेक्ष्य सुता नदीम् ।क्रोशमात्रम् ततो गत्वा भ्रातरौ रामलक्ष्मनौ ॥२-५५-३३॥
Vālmīki 2.55.34
बहून्मेध्यान् मृगान् हत्वा चेरतुर्यमुनावने ।विहृत्य ते बर्हिणपूगनादिते ।शुभे वने वानरवारणायुते ।समम् नदीवप्रमुपेत्य सम्मतम् ।निवासमाजग्मु रदीनदर्शनाः ॥२-५५-३४॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷