🪷 अयोध्याकाण्ड · Sarga 54
Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 54 · 43 ślokas
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
ते तु तस्मिन् महा वृक्षौषित्वा रजनीम् शिवाम् ।विमले अभ्युदिते सूर्ये तस्मात् देशात् प्रतस्थिरे ॥२-५४-१॥
यत्र भागीरथी गन्गा यमुनाम् अभिवर्तते ।जग्मुस् तम् देशम् उद्दिश्य विगाह्य सुमहद् वनम् ॥२-५४-२॥
ते भूमिम् आगान् विविधान् देशामः च अपि मनो रमान् ।अदृष्ट पूर्वान् पश्यन्तः तत्र तत्र यशस्विनः ॥२-५४-३॥
यथा क्षेमेण गच्चन् स पश्यमः च विविधान् द्रुमान् ।निवृत्त मात्रे दिवसे रामः सौमित्रिम् अब्रवीत् ॥२-५४-४॥
प्रयागम् अभितः पश्य सौमित्रे धूमम् उन्नतम् ।अग्नेर् भगवतः केतुम् मन्ये सम्निहितः मुनिः ॥२-५४-५॥
नूनम् प्राप्ताः स्म सम्भेदम् गन्गा यमुनयोः वयम् ।तथा हि श्रूयते शम्ब्दो वारिणा वारि घट्टितः ॥२-५४-६॥
दारूणि परिभिन्नानि वनजैः उपजीविभिः ।भरद्वाज आश्रमे च एते दृश्यन्ते विविधा द्रुमाः ॥२-५४-७॥
धन्विनौ तौ सुखम् गत्वा लम्बमाने दिवा करे ।गन्गा यमुनयोह् सम्धौ प्रापतुर् निलयम् मुनेः ॥२-५४-८॥
रामः तु आश्रमम् आसाद्य त्रासयन् मृग पक्षिणः ।गत्वा मुहूर्तम् अध्वानम् भरद्वाजम् उपागमत् ॥२-५४-९॥
ततः तु आश्रमम् आसाद्य मुनेर् दर्शन कान्क्षिणौ ।सीतया अनुगतौ वीरौ दूरात् एव अवतस्थतुः ॥२-५४-१०॥
स प्रविश्य महात्मानमृषिम् शिष्यगणैर्वऋतम् ।सम्शितव्रतमेकाग्रम् तपसा लब्धचक्षुषम् ॥२-५४-११॥
हुत अग्नि होत्रम् दृष्ट्वा एव महा भागम् कृत अन्जलिः ।रामः सौमित्रिणा सार्धम् सीतया च अभ्यवादयत् ॥२-५४-१२॥
न्यवेदयत च आत्मानम् तस्मै लक्ष्मण पूर्वजः ।पुत्रौ दशरथस्य आवाम् भगवन् राम लक्ष्मणौ ॥२-५४-१३॥
भार्या मम इयम् वैदेही कल्याणी जनक आत्मजा ।माम् च अनुयाता विजनम् तपो वनम् अनिन्दिता ॥२-५४-१४॥
पित्रा प्रव्राज्यमानम् माम् सौमित्रिर् अनुजः प्रियः ।अयम् अन्वगमद् भ्राता वनम् एव दृढ व्रतः ॥२-५४-१५॥
पित्रा नियुक्ता भगवन् प्रवेष्यामः तपो वनम् ।धर्मम् एव आचरिष्यामः तत्र मूल फल अशनाः ॥२-५४-१६॥
तस्य तत् वचनम् श्रुत्वा राज पुत्रस्य धीमतः ।उपानयत धर्म आत्मा गाम् अर्घ्यम् उदकम् ततः ॥२-५४-१७॥
नानाविधानन्नरसान् वन्यमूलफलाश्रयान् ।तेभ्यो ददौ तप्ततपा वासम् चैवाभ्यकल्पयत् ॥२-५४-१८॥
मृग पक्षिभिर् आसीनो मुनिभिः च समन्ततः ।रामम् आगतम् अभ्यर्च्य स्वागतेन आह तम् मुनिः ॥२-५४-१९॥
प्रतिगृह्य च ताम् अर्चाम् उपविष्टम् स राघवम् ।भरद्वाजो अब्रवीद् वाक्यम् धर्म युक्तम् इदम् तदा ॥२-५४-२०॥
चिरस्य खलु काकुत्स्थ पश्यामि त्वाम् इह आगतम् ।श्रुतम् तव मया च इदम् विवासनम् अकारणम् ॥२-५४-२१॥
अवकाशो विविक्तः अयम् महा नद्योह् समागमे ।पुण्यः च रमणीयः च वसतु इह भगान् सुखम् ॥२-५४-२२॥
एवम् उक्तः तु वचनम् भरद्वाजेन राघवः ।प्रत्युवाच शुभम् वाक्यम् रामः सर्व हिते रतः ॥२-५४-२३॥
भगवन्न् इताअसन्नः पौर जानपदो जनः ।सुदर्शमिह माम् प्रेक्ष्य मन्येऽह मिममाश्रमम् ॥२-५४-२४॥
आगमिष्यति वैदेहीम् माम् च अपि प्रेक्षको जनः ।अनेन कारणेन अहम् इह वासम् न रोचये ॥२-५४-२५॥
एक अन्ते पश्य भगवन्न् आश्रम स्थानम् उत्तमम् ।रमते यत्र वैदेही सुख अर्हा जनक आत्मजा ॥२-५४-२६॥
एतत् श्रुत्वा शुभम् वाक्यम् भरद्वाजो महा मुनिः ।राघवस्य ततः वाक्यम् अर्थ ग्राहकम् अब्रवीत् ॥२-५४-२७॥
दश क्रोशैतः तात गिरिर् यस्मिन् निवत्स्यसि ।महर्षि सेवितः पुण्यः सर्वतः सुख दर्शनः ॥२-५४-२८॥
गो लान्गूल अनुचरितः वानर ऋष्क निषेवितः ।चित्र कूटैति ख्यातः गन्ध मादन सम्निभः ॥२-५४-२९॥
यावता चित्र कूटस्य नरः शृन्गाणि अवेक्षते ।कल्याणानि समाधत्ते न पापे कुरुते मनः ॥२-५४-३०॥
ऋषयः तत्र बहवो विहृत्य शरदाम् शतम् ।तपसा दिवम् आरूधाः कपाल शिरसा सह ॥२-५४-३१॥
प्रविविक्तम् अहम् मन्ये तम् वासम् भवतः सुखम् ।इह वा वन वासाय वस राम मया सह ॥२-५४-३२॥
स रामम् सर्व कामैअः तम् भरद्वाजः प्रिय अतिथिम् ।सभार्यम् सह च भ्रात्रा प्रतिजग्राह धर्मवित् ॥२-५४-३३॥
तस्य प्रयागे रामस्य तम् महर्षिम् उपेयुषः ।प्रपन्ना रजनी पुण्या चित्राः कथयतः कथाः ॥२-५४-३४॥
सीतातृतीय काकुत्स्थह् परिश्रान्तः सुखोचितः ।भरद्वाजाश्रमे रम्ये ताम् रात्रि मवस्त्सुखम् ॥२-५४-३५॥
प्रभातायाम् रजन्याम् तु भरद्वाजम् उपागमत् ।उवाच नर शार्दूलो मुनिम् ज्वलित तेजसम् ॥२-५४-३६॥
शर्वरीम् भवनन्न् अद्य सत्य शील तव आश्रमे ।उषिताः स्म इह वसतिम् अनुजानातु नो भवान् ॥२-५४-३७॥
रात्र्याम् तु तस्याम् व्युष्टायाम् भरद्वाजो अब्रवीद् इदम् ।मधु मूल फल उपेतम् चित्र कूटम् व्रज इति ह ॥२-५४-३८॥
वासमौपयिकम् मन्ये तव राम महाबल ।नानानगगणोपेतः किन्नरोरगसेवितह् ॥२-५४-३९॥
मयूरनादाभिरुतो गजराजनिषेवितः ।गम्यताम् भवता शैलश्चित्रकूटः स विश्रुतः ॥२-५४-४०॥
पुण्यश्च रमणीयश्च बहुमूलफलायुतः ।तत्र कुन्जर यूथानि मृग यूथानि च अभितः ॥२-५४-४१॥
विचरन्ति वन अन्तेषु तानि द्रक्ष्यसि राघव ।सरित्प्रस्रवणप्रस्थान् दरीकन्धरनिर्घरान् ॥२-५४-४२॥
चरतः सीतया सार्धम् नन्दिष्यति मनस्तव ।प्रहृष्ट कोयष्टिक कोकिल स्वनैः ।र्विनादितम् तम् वसुधा धरम् शिवम् ।मृगैः च मत्तैः बहुभिः च कुन्जरैः ।सुरम्यम् आसाद्य समावस आश्रमम् ॥२-५४-४३॥
Navigation
- ← Previous: Ayodhyā-Kāṇḍa Sarga 53
- Next: Ayodhyā-Kāṇḍa Sarga 55 →
- Ayodhyā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷