🪷 अयोध्याकाण्ड · Sarga 36
Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 36 · 33 ślokas
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
ततः सुमन्त्रम् ऐक्ष्वाकः पीडितः अत्र प्रतिज्ञया ।सबाष्पम् अतिनिह्श्वस्य जगाद इदम् पुनः पुनः ॥२-३६-१॥
सूत रत्न सुसम्पूर्णा चतुर् विध बला चमूः ।रागवस्य अनुयात्रा अर्थम् क्षिप्रम् प्रतिविधीयताम् ॥२-३६-२॥
रूप आजीवा च शालिन्यो वणिजः च महा धनाः ।शोभयन्तु कुमारस्य वाहिनीम् सुप्रसारिताः ॥२-३६-३॥
ये च एनम् उपजीवन्ति रमते यैः च वीर्यतः ।तेषाम् बहु विधम् दत्त्वा तान् अपि अत्र नियोजय ॥२-३६-४॥
आयुधानि च मुख्यानि नागराः शकटानि च ।अनुगच्छन्तु काकुत्थ्सम् व्याधाश्चारण्यगोचराः ॥२-३६-५॥
निघ्नन् मृगान् कुन्जरामः च पिबमः च आरण्यकम् मधु ।नदीः च विविधाः पश्यन् न राज्यम् सम्स्मरिष्यति ॥२-३६-६॥
धान्य कोशः च यः कश्चित् धन कोशः च मामकः ।तौ रामम् अनुगच्चेताम् वसन्तम् निर्जने वने ॥२-३६-७॥
यजन् पुण्येषु देशेषु विसृजमः च आप्त दक्षिणाः ।ऋषिभिः च समागम्य प्रवत्स्यति सुखम् वने ॥२-३६-८॥
भरतः च महा बाहुर् अयोध्याम् पालयिष्यति ।सर्व कामैः पुनः श्रीमान् रामः सम्साध्यताम् इति ॥२-३६-९॥
एवम् ब्रुवति काकुत्स्थे कैकेय्या भयम् आगतम् ।मुखम् च अपि अगमात् शेषम् स्वरः च अपि न्यरुध्यत ॥२-३६-१०॥
सा विषण्णा च सम्त्रस्ता कैकेयी वाक्यम् अब्रवीत् ।राजानमेवाभिमुखी कैकेयी वाक्यमब्रवीत् ॥२-३६-११॥
राज्यम् गत जनम् साधो पीत मण्डाम् सुराम् इव ।निरास्वाद्यतमम् शून्यम् भरतः न अभिपत्स्यते ॥२-३६-१२॥
कैकेय्याम् मुक्त लज्जायाम् वदन्त्याम् अतिदारुणम् ।राजा दशरथो वाक्यम् उवाच आयत लोचनाम् ॥२-३६-१३॥
वहन्तम् किम् तुदसि माम् नियुज्य धुरि मा आहिते ।अनार्ये कृत्यमार्ब्धम् किम् न पूर्वमुपारुधः ॥२-३६-१४॥
तस्यैतत्क्रोधसम्युक्तमुक्तम् श्रुत्वा वराङ्गना ।कैकेयी द्वि गुणम् क्रुद्धा राजानम् इदम् अब्रवीत् ॥२-३६-१५॥
तव एव वम्शे सगरः ज्येष्ठम् पुत्रम् उपारुधत् ।असमन्जैति ख्यातम् तथा अयम् गन्तुम् अर्हति ॥२-३६-१६॥
एवम् उक्तः धिग् इति एव राजा दशरथो अब्रवीत् ।व्रीडितः च जनः सर्वः सा च तन् न अवबुध्यत ॥२-३६-१७॥
तत्र वृद्धो महा मात्रः सिद्ध अर्थो नाम नामतः ।शुचिर् बहु मतः राज्ञः कैकेयीम् इदम् अब्रवीत् ॥२-३६-१८॥
असमन्जो गृहीत्वा तु क्रीडितः पथि दारकान् ।सरय्वाः प्रक्षिपन्न् अप्सु रमते तेन दुर्मतिः ॥२-३६-१९॥
तम् दृष्ट्वा नागरः सर्वे क्रुद्धा राजानम् अब्रुवन् ।असमन्जम् वृषीण्व एकम् अस्मान् वा राष्ट्र वर्धन ॥२-३६-२०॥
तान् उवाच ततः राजा किम् निमित्तम् इदम् भयम् ।ताः च अपि राज्ञा सम्पृष्टा वाक्यम् प्रकृतयो अब्रुवन् ॥२-३६-२१॥
क्रीडितः तु एष नः पुत्रान् बालान् उद्भ्रान्त चेतनः ।सरय्वाम् प्रक्षिपन् मौर्ख्यात् अतुलाम् प्रीतिम् अश्नुते ॥२-३६-२२॥
स तासाम् वचनम् श्रुत्वा प्रकृतीनाम् नर अधिप ।तम् तत्याज अहितम् पुत्रम् तासाम् प्रिय चिकीर्षया ॥२-३६-२३॥
तम् यानम् श्रीघ्रमारोप्य सभार्यम् सपरिच्छदम् ।यावज्जीवम् विवास्योऽयमिति स्वानन्वशात् पिता ॥२-३६-२४॥
स फालपिटकम् गृह्य गिरिदुर्गान्यलोडयत् ।दिशः सर्वास्त्वनुचरन् स यथा पापकर्मकृत् ॥२-३६-२५॥
इति एवम् अत्यजद् राजा सगरः वै सुधार्मिकः ।रामः किम् अकरोत् पापम् येन एवम् उपरुध्यते ॥२-३६-२६॥
न हि कम्चन पश्यामो राघवस्यागुणम् वयम् ।दुर्लभो यस्य निरयः श्शाङ्कस्येव कल्मषम् ॥२-३६-२७॥
अथवा देवि दोषम् त्वं कंचित्पश्यसि राघवे ।तमद्य ब्रूहि तत्वैन तदा रोमो विवास्यताम् ॥२-३६-२८॥
अदुष्टस्य हि सम्त्यागः सत्पथे निरतस्य च ।निर्दहे दपि शक्रस्य द्युतिम् धर्मनिरोधनात् ॥२-३६-२९॥
तदलम् देवि रामस्य श्रिया विहतया त्वया ।लोकतोऽप् हि ते रक्ष्यः परिवादः शुभानने ॥२-३६-३०॥
श्रुत्वा तु सिद्ध अर्थ वचो राजा श्रान्ततर स्वनः ।शोक उपहतया वाचा कैकेयीम् इदम् अब्रवीत् ॥२-३६-३१॥
एतद्वचो नेच्छ्सि पापवृत्ते ।हितम् न जानासि ममात्मनो वा ।आस्थाय मार्गम् कृपणम् कुचेष्टा ।चेष्टा हि ते साधुपदादपेता ॥२-३६-३२॥
अनुव्रजिष्याम्य् अहम् अद्य रामम् ।राज्यम् परित्यज्य सुखम् धनम् च ।सह एव राज्ञा भरतेन च त्वम् ।यथा सुखम् भुन्क्ष्व चिराय राज्यम् ॥२-३६-३३॥
Navigation
- ← Previous: Ayodhyā-Kāṇḍa Sarga 35
- Next: Ayodhyā-Kāṇḍa Sarga 37 →
- Ayodhyā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷