🪷 अयोध्याकाण्ड · Sarga 35

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 35 · 37 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.35.1
ततो निर्धूय सहसा शिरो निःश्वस्व चासकृत् ।पाणौ पाणिम् विनिष्पिष्य दन्तान् कटकटाय्य च ॥२-३५-१॥
Vālmīki 2.35.2
लोचने कोपसम्रक्ते वर्णम् पूर्वोचितम् जहत् ।कोपाभिभूतः सहसा सम्तापमशुभम् गतः ॥२-३५-२॥
Vālmīki 2.35.3
मनः समीक्षमाणश्च सूतो दशरथस्य सः ।कम्पयन्निव कैकेय्या हृदयम् वाक्छरैश्शितैः ॥२-३५-३॥
Vālmīki 2.35.4
वाक्यवज्रैरनुपमैर्निर्भिन्दन्निव चाशुगैः ।कैकेय्या सर्वमर्माणि सुमन्त्रः प्रत्यभाषत ॥२-३५-४॥
Vālmīki 2.35.5
यश्यास्तव पतिस्त्यक्तोराजा दशरथः स्वयम् ।भर्ता सर्वस्य जगतः स्थावरस्य चरश्य च ॥२-३५-५॥
Vālmīki 2.35.6
न ह्यकार्यतमम् किम्चित् तव देवीह विद्यते ।पतिघ्नीम् त्वामहम् मन्ये कुलघ्नीमपि चान्ततः ॥२-३५-६॥
Vālmīki 2.35.7
यन्म हेम्द्रमिवाजय्यम् दुष्प्रकम्प्यमिवाचलम् ।महोदधिमिवाक्षोभ्यम् सन्तापयसि कर्मभिः ॥२-३५-७॥
Vālmīki 2.35.8
मावमम्स्था दशरथम् भर्तारम् वरदम् पतिम् ।भर्तुरिच्छा हि नारीणाम्पुत्रकोट्या विशिष्यते ॥२-३५-८॥
Vālmīki 2.35.9
यथावयो हि राज्यानि प्राप्नुवन्ति नृपक्षये ।इक्ष्वाकुकुलनाथेऽस्मिम्स्तल्लोपयितुमिच्छसि ॥२-३५-९॥
Vālmīki 2.35.10
राजा भवतु ते पुत्रो भरतश्शास्तु मेदिनीम् ।वयम् तत्र गमिष्यामो रामो यत्र गमिष्यति ॥२-३५-१०॥
Vālmīki 2.35.11
न हि ते विषये कश्चिद्ब्राह्मणो वस्तुमर्हति ।तादृशम् त्वममर्यादमद्य कर्म चिकीर्षसि ॥२-३५-११॥
Vālmīki 2.35.12
नूनम् सर्वे गमिष्यामो मार्गम् रामनिषेवितम् ।त्यक्ताया बान्धवैः सर्वैर्ब्राह्मणैः साधुभिः सदा ॥२-३५-१२॥
Vālmīki 2.35.13
का प्रीती राज्यलाभेन तव देवि भविष्यति ।तादृशम् त्वममर्यादम् कर्म कर्तुम् चिकीर्षसि ॥२-३५-१३॥
Vālmīki 2.35.14
आश्चर्यमिव पश्यामि यस्यास्ते वृत्तमीदृशम् ।आचरन्त्या न विदृता सद्यो भवति मेदिनी ॥२-३५-१४॥
Vālmīki 2.35.15
महाब्रह्मर्षिसृष्टा वा ज्वलन्तो भीमदर्शना ।धिग्वाग्दण्डणा न हिम्सन्ति रामप्रव्राजने स्थिताम् ॥२-३५-१५॥
Vālmīki 2.35.16
आम्रम् चित्वा कुठारेन निम्बम् परिचरेत्तु यः ।यश्चेनम् पयसा सिञ्चेन्नैवास्य मधुरो भवेत् ॥२-३५-१६॥
Vālmīki 2.35.17
अभिजात्यम् हि ते मन्ये यथा मातुस्तथैव च ।न हि निम्बात्स्रवेत्क्षौद्रम् लोके निगदितम् वचः ॥२-३५-१७॥
Vālmīki 2.35.18
तव मातुरसद्ग्राहम् विद्मः पूर्वम् यथाश्रुतम् ।पितुस्ते वरदः कश्चिद्ददौ वरमनुत्तमम् ॥२-३५-१८॥
Vālmīki 2.35.19
सर्वभूतरुतम् तस्मात्सम्जज्ञे वसुधाधिपः ।तेन तिर्यग्गतानाम् च भूतानाम् विदितम् वचः ॥२-३५-१९॥
Vālmīki 2.35.20
ततो जृम्भस्य शयने विरुताद्भूरिवर्चसा ।पितुस्ते विदितो भावः स तत्र बहुधाऽहसत् ॥२-३५-२०॥
Vālmīki 2.35.21
तत्र ते जननी क्रुद्धा मृत्युपाशमभीप्सती ।हासम् ते नृपते सौम्य जिज्ञासामीति भाब्रवीत् ॥२-३५-२१॥
Vālmīki 2.35.22
नृपश्चोवाच ताम् देवीम् देवि शम्सामि ते यदि ।ततो मे मरणम् सद्यो भविष्यति न सम्शयः ॥२-३५-२२॥
Vālmīki 2.35.23
माता ते पितरम् देवि ततह् केकयमब्रवीत् ।शम्स मे जीव वा मा वा न मामपहसिष्यसि ॥२-३५-२३॥
Vālmīki 2.35.24
प्रियया च तथोक्तः सन् केकयः पृथीवीपतिः ।तस्मै तम् वरदायार्थम् कथयामास तत्त्वतः ॥२-३५-२४॥
Vālmīki 2.35.25
ततः स वरदह् साधु राजानम् प्रत्यभाषत ।म्रियताम् ध्वम्सताम् वेयम् मा कृथास्त्वम् महीपते ॥२-३५-२५॥
Vālmīki 2.35.26
स तच्छ्रुत्वा वचस्तस्य प्रसन्नमनसो नृपः ।मातरम् ते निरस्याशु विजहार कुबेरवत् ॥२-३५-२६॥
Vālmīki 2.35.27
तथा त्वमपि राजानम् दुर्जनाचरिते पथि ।असद्ग्राहमिमम् मोहात्कुरुषे पापदर्शिनि ॥२-३५-२७॥
Vālmīki 2.35.28
सत्यश्चाद्य प्रवादोऽयम् लौकिकः प्रतिभाति मा ।पित्R^ऊन् समनुजायन्ते नरा मातरमङ्गनाः ॥२-३५-२८॥
Vālmīki 2.35.29
नैवम् भव Gऋहाणेदम् यदाह वसुधाधिपः ।भर्तुरिच्चामुपास्वेह जनस्यास्य गतिर्भव ॥२-३५-२९॥
Vālmīki 2.35.30
मा त्वम् प्रोत्साहिता पापैर्देवराजसमप्रभम् ।भर्तारम् लोकभर्तारमसद्धर्ममुपादधाः ॥२-३५-३०॥
Vālmīki 2.35.31
न हि मिथ्या प्रतिज्ञातम् करिष्यति तवानघः ।श्रीमान्दशरथो राजा देवि राजीवलोचनः ॥२-३५-३१॥
Vālmīki 2.35.32
ज्येष्ठो वदान्यः कर्मण्यः स्वधर्मपरिरक्षिता ।रक्षिता जीवलोकस्य बली रामोऽभिषिच्यताम् ॥२-३५-३२॥
Vālmīki 2.35.33
परिवादो हि ते देवि महान्लोके चरिष्यति ।यदि रामो वनम् याति विहाय पितरम् नृपम् ॥२-३५-३३॥
Vālmīki 2.35.34
स राज्यम् राघवः पातु भवत्वम् विगतज्वरा ।न हि ते राघवादन्यः क्षमः पुरवरे वसेत् ॥२-३५-३४॥
Vālmīki 2.35.35
रामे हि यौवराज्यस्थे राजा दशरथो वनम् ।प्रवेक्ष्यति महेष्वासः पूर्ववृत्तमनुस्मरन् ॥२-३५-३५॥
Vālmīki 2.35.36
इति सान्वैश्च तीक्ष्णै कैकेयीम् राजसम्सदि ।सुवन्त्रः क्षोभयामास भूय एव कृताञ्जलिः ॥२-३५-३६॥
Vālmīki 2.35.37
नैवसाक्षुभ्यते देवी न च स्म परिदूयते ।न चास्या मुखवर्णस्य विक्रिया लक्ष्यते तदा ॥२-३५-३७॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷