🪷 अरण्यकाण्ड · Sarga 61
Araṇya-Kāṇḍa · The Book of the Forest · Sarga 61 · 31 ślokas
🪷 Devanāgarī Ślokas
दृष्ट्वा आश्रम पदम् शून्यम् रामो दशरथ आत्मजः।रहिताम् पर्णशालाम् च प्रविद्धानि आसनानि च ॥३-६१-१॥
अदृष्ट्वा तत्र वैदेहीम् संनिरीक्ष्य च सर्वशः ।उवाच रामः प्राक्रुश्य प्रगृह्य रुचिरौ भुजौ ॥३-६१-२॥
क्व नु लक्ष्मण वैदेही कम् वा देशम् इतो गता ।केन आहृता वा सौमित्रे भक्षिता केन वा प्रिया ॥३-६१-३॥
वृक्षेण आवार्य यदि माम् सीते हसितुम् इच्छसि ।अलम् ते हसितेन अद्य माम् भजस्व सुदुःखितम् ॥३-६१-४॥
यैः सह क्रीडसे सीते विश्वस्तैः मृग पोतकैः ।एते हीनाः त्वया सौम्ये ध्यायन्ति अस्र आविल ईक्षणाः ॥३-६१-५॥
सीताया रहितो अहम् वै न हि जीवामि लक्ष्मण ।वृतम् शोकेन महता सीता हरणजेन माम् ॥३-६१-६॥
पर लोके महाराजो नूनम् द्रक्ष्यति मे पिता ।कथम् प्रतिज्ञाम् संश्रुत्य मया त्वम् अभियोजितः ॥३-६१-७॥
अपूरयित्वा तम् कालम् मत् सकाशम् इह आगतः ।काम वृत्तम् अनार्यम् माम् मृषा वादिनम् एव च ॥३-६१-८॥
धिक् त्वाम् इति परे लोके व्यक्तम् वक्ष्यति मे पिता ।विवशम् शोक संतप्तम् दीनम् भग्न मनोरथम् ॥३-६१-९॥
माम् इह उत्सृज्य करुणम् कीर्तिः नरम् इव अन्ऋजुम् ।क्व गच्चसि वरारोहे मा मोत्सृज्य - मा मा उत्सृज्य - सुमध्यमे ॥३-६१-१०॥
त्वया विरहितः च अहम् त्यक्ष्ये जीवितम् आत्मनः ।इति इव विलपन् रामः सीता दर्शन लालसः ॥३-६१-११॥
न ददर्श सुदुःख आर्तो राघवो जनक आत्मजाम् ।अनासादयमानम् तम् सीताम् शोकपरायणम् ॥३-६१-१२॥
पंकम् आसाद्य विपुलम् सीदन्तम् इव कुंजरम् ।लक्ष्मणो रामम् अत्यर्थम् उवाच हित काम्यया ॥३-६१-१३॥
मा विषादम् महाबुद्धे कुरु यत्नम् मया सह ।इदम् गिरि वरम् वीर बहु कन्दर शोभितम् ॥३-६१-१४॥
प्रिय कानन संचारा वन उन्मत्ता च मैथिली ।सा वनम् वा प्रविष्टा स्यात् नलिनीम् वा सुपुष्पिताम् ॥३-६१-१५॥
सरितम् वा अपि संप्राप्ता मीन वंजुल सेविताम् ।वित्रासयितु कामा वा लीना स्यात् कानने क्वचित् ॥३-६१-१६॥
जिज्ञासमाना वैदेही त्वाम् माम् च पुरुषर्षभ ।तस्या हि अन्वेषणे श्रीमन् क्षिप्रम् एव यतावहे ॥३-६१-१७॥
वनम् सर्वम् विचिनुवो यत्र सा जनक आत्मजा ।मन्यसे यदि काकुत्स्थ मा स्म शोके मनः कृथाः ॥३-६१-१८॥
एवम् उक्तः तु सौहार्दात् लक्ष्मणेन समाहितः ।सह सौमित्रिणा रामो विचेतुम् उपचक्रमे ॥३-६१-१९॥
तौ वनानि गिरीन् चैव सरितः च सरांसि च ।निखिलेन विचिन्वन्तौ सीताम् दशरथ आत्मजौ ॥३-६१-२०॥
तस्य शैलस्य सानूनि शिलाः च शिखराणि च ।निखिलेन विचिन्वन्तौ न एव ताम् अभिजग्मतुः ॥३-६१-२१॥
विचित्य सर्वतः शैलम् रामो लक्ष्मणम् अब्रवीत् ।न इह पश्यामि सौमित्रे वैदेहीम् पर्वते शुभाम् ॥३-६१-२२॥
ततो दुःख अभिसंतप्तो लक्ष्मणो वाक्यम् अब्रवीत् ।विचरन् दण्डक अरण्यम् भ्रातरम् दीप्त तेजसम् ॥३-६१-२३॥
प्राप्स्यसि त्वम् महाप्राज्ञ मैथिलीम् जनक आत्मजाम् ।यथा विष्णुः महाबाहुः बलिम् बद्ध्वा महीम् इमाम् ॥३-६१-२४॥
एवम् उक्तः तु वीरेण लक्ष्मणेन स राघवः ।उवाच दीनया वाचा दुःख अभिहत चेतनः ॥३-६१-२५॥
वनम् सुविचितम् सर्वम् पद्मिन्यः फुल्ल पंकजाः ।गिरिः च अयम् महाप्राज्ञ बहु कन्दर निर्झरः ।न हि पश्यामि वैदेहीम् प्राणेभ्यो अपि गरीयसीम् ॥३-६१-२६॥
एवम् स विलपन् रामः सीता हरण कर्शितः ।दीनः शोक समाविष्टो मुहूर्तम् विह्वलो अभवत् ॥३-६१-२७॥
स विह्वलित सर्व अंगो गत बुद्धिः विचेतनः ।निषसाद आतुरो दीनो निःश्वस्य अशीतम् आयतम् ॥३-६१-२८॥
बहुशः स तु निःश्वस्य रामो राजीव लोचनः ।हा प्रिये ति विचुक्रोश बहुशो बाष्प गद्गदः ॥३-६१-२९॥
तम् सान्त्वयामास ततो लक्ष्मणः प्रिय बान्धवम् ।बहु प्रकारम् शोक आर्तः प्रश्रितः प्रश्रित अंजलिः ॥३-६१-३०॥
अनादृत्य तु तत् वाक्यम् लक्ष्मण ओष्ठ पुट च्युतम् ।अपश्यन् ताम् प्रियाम् सीताम् प्राक्रोशत् स पुनः पुनः ॥३-६१-३१॥
Navigation
- ← Previous: Araṇya-Kāṇḍa Sarga 60
- Next: Araṇya-Kāṇḍa Sarga 62 →
- Araṇya-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Araṇya-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷