🪷 अरण्यकाण्ड · Sarga 60

Araṇya-Kāṇḍa · The Book of the Forest · Sarga 60 · 38 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 3.60.1
भृशम् आव्रजमानस्य तस्य अधो वाम लोचनम् ।प्रास्फुरत् च अस्खलत् रामो वेपथुः च अस्य जायते ॥३-६०-१॥
Vālmīki 3.60.2
उपालक्ष्य निमित्तानि सो अशुभानि मुहुर् मुहुः ।अपि क्षेमम् तु सीताया इति वै व्याजहार ह ॥३-६०-२॥
Vālmīki 3.60.3
त्वरमाणो जगाम अथ सीता दर्शन लालसः ।शून्यम् आवसथम् दृष्ट्वा बभूव उद्विग्न मानसः ॥३-६०-३॥
Vālmīki 3.60.4
उद् भ्रमन् इव वेगेन विक्षिपन् रघु नन्दनः ।तत्र तत्र उटज स्थानम् अभिवीक्ष्य समंततः ॥३-६०-४॥
Vālmīki 3.60.5
ददर्श पर्ण शालाम् च सीतया रहिताम् तदा ।श्रिया विरहिताम् ध्वस्ताम् हेमन्ते पद्मिनीम् इव ॥३-६०-५॥
Vālmīki 3.60.6
रुदन्तम् इव वृक्षैः च ग्लान पुष्प मृग द्विजम् ।श्रिया विहीनम् विध्वस्तम् संत्यक्त वन दैवतैः ॥३-६०-६॥
Vālmīki 3.60.7
विप्रकीर्ण अजिन कुशम् विप्रविद्ध बृसी कटम् ।दृष्ट्वा शून्य उटज स्थानम् विललाप पुनः पुनः ॥३-६०-७॥
Vālmīki 3.60.8
हृता मृता वा नष्टा वा भक्षिता वा भविष्यति ।निलीना अपि अथवा भीरुः अथवा वनम् आश्रिता ॥३-६०-८॥
Vālmīki 3.60.9
गता विचेतुम् पुष्पाणि फलानि अपि च वा पुनः ।अथवा पद्मिनीम् याता जल अर्थम् वा नदीम् गता ॥३-६०-९॥
Vālmīki 3.60.10
यत्नात् मृगयमाणः तु न आससाद वने प्रियाम् ।शोक रक्त ईक्षणः श्रीमान् उन्मत्त इव लक्ष्यते ॥३-६०-१०॥
Vālmīki 3.60.11
वृक्षात् वृक्षम् प्रधावन् स गिरीम् च अपि नदी नदम् ।बभ्राम विलपन् रामः शोक पंक अर्णव प्लुतः ॥३-६०-११॥
Vālmīki 3.60.12
अस्ति कच्चित् त्वया दृष्टा सा कदम्ब प्रिया प्रिया ।कदम्ब यदि जानीषे शंस सीताम् शुभ आननाम् ॥३-६०-१२॥
Vālmīki 3.60.13
स्निग्ध पल्लव संकाशाम् पीत कौशेय वासिनीम् ।शंसस्व यदि सा दृष्टा बिल्व बिल्व उपम स्तनी ॥३-६०-१३॥
Vālmīki 3.60.14
अथवा अर्जुन शंस त्वम् प्रियाम् ताम् अर्जुन प्रियाम् ।जनकस्य सुता तन्वी यदि जीवति वा न वा ॥३-६०-१४॥
Vālmīki 3.60.15
ककुभः ककुभ ऊरुम् ताम् व्यक्तम् जानाति मैथिलीम् ।लता पल्लव पुष्प आढ्यो भाति हि एष वनस्पतिः ॥३-६०-१५॥
Vālmīki 3.60.16
भ्रमरैर् उपगीतः च यथा द्रुम वरो हि असि ।एष व्यक्तम् विजानाति तिलकः तिलक प्रियाम् ॥३-६०-१६॥
Vālmīki 3.60.17
अशोक शोक अपनुद शोक उपहत चेतनम् ।त्वन् नामानम् कुरु क्षिप्रम् प्रिया संदर्शनेन माम् ॥३-६०-१७॥
Vālmīki 3.60.18
यदि ताल त्वया दृष्टा पक्व ताल फल स्तनी ।कथयस्व वरारोहाम् कारुण्यम् यदि ते मयि ॥३-६०-१८॥
Vālmīki 3.60.19
यदि दृष्टा त्वया सीता जम्बो जांबूनद सम प्रभा ।प्रियाम् यदि विजानासि निःशंक कथयस्व मे ॥३-६०-१९॥
Vālmīki 3.60.20
अहो त्वम् कर्णिकार अद्य पुष्पितः शोभसे भृशम् ।कर्णिकार प्रियाम् साध्वीम् शंस दृष्टा यदि प्रिया ॥३-६०-२०॥
Vālmīki 3.60.21
चूत नीप महा सालान् पनसान् कुरवान् धवान् ।दाडिमान् अपि तान् गत्वा दृष्ट्वा रामो महायशाः ॥३-६०-२१॥
Vālmīki 3.60.22
बकुलान् अथ पुन्नागान् च चंदनान्केतकान् तथा ।पृच्छन् रामो वने भ्रान्त उन्मत्त इव लक्ष्यते ॥३-६०-२२॥
Vālmīki 3.60.23
अथवा मृग शाब अक्षीम् मृग जानासि मैथिलीम् ।मृग विप्रेक्षणी कांता मृगीभिः सहिता भवेत् ॥३-६०-२३॥
Vālmīki 3.60.24
गज सा गज नासोरुः यदि दृष्टा त्वया भवेत् ।ताम् मन्ये विदिताम् तुभ्यम् आख्याहि वर वारण ॥३-६०-२४॥
Vālmīki 3.60.25
शार्दूल यदि सा दृष्टा प्रिया चंद्र निभ आनना ।मैथिली मम विस्रब्धम् कथयस्व न ते भयम् ॥३-६०-२५॥
Vālmīki 3.60.26
किम् धावसि प्रिये नूनम् दृष्टा असि कमल ईक्षणे ।वृक्षेण आच्चाद्य च आत्मानम् किम् माम् न प्रतिभाषसे ॥३-६०-२६॥
Vālmīki 3.60.27
तिष्ठ तिष्ठ वरारोहे न ते अस्ति करुणा मयि ।न अत्यर्थम् हास्य शीला असि किम् अर्थम् माम् उपेक्षसे ॥३-६०-२७॥
Vālmīki 3.60.28
पीत कौशेयकेन असि सूचिता वर वर्णिनि ।धावन्ति अपि मया दृष्टा तिष्ठ यदि अस्ति सौहृदम् ॥३-६०-२८॥
Vālmīki 3.60.29
न एव सा नूनम् अथवा हिंसिता चारु हासिनी ।कृच्छ्रम् प्राप्तम् न माम् नूनम् यथा उपेक्षितुम् अर्हति ॥३-६०-२९॥
Vālmīki 3.60.30
व्यक्तम् सा भक्षिता बाला राक्षसैः पिशित अशनैः ।विभज्य अंगानि सर्वाणि मया विरहिता प्रिया ॥३-६०-३०॥
Vālmīki 3.60.31
नूनम् तत् शुभ दंत ओष्ठम् सुनासम् शुभ कुण्डलम् ।पूर्ण चंद्र निभम् ग्रस्तम् मुखम् निष्प्रभताम् गतम् ॥३-६०-३१॥
Vālmīki 3.60.32
सा हि चंपक वर्ण आभा ग्रीवा ग्रैवेयक उचिता ।कोमला विलपन्त्याः तु कान्ताया भक्षिता शुभा ॥३-६०-३२॥
Vālmīki 3.60.33
नूनम् विक्षिप्यमाणौ तौ बाहू पल्लव कोमलौ ।भक्षितौ वेपमान अग्रौ स हस्त आभरण अंगदौ ॥३-६०-३३॥
Vālmīki 3.60.34
मया विरहिता बाला रक्षसाम् भक्षणाय वै ।सार्थेन इव परित्यक्ता भक्षिता बहु बांधवा ॥३-६०-३४॥
Vālmīki 3.60.35
हा लक्ष्मण महाबाहो पश्यसे त्वम् प्रियाम् क्वचित् ।हा प्रिये क्व गता भद्रे हा सीते इति पुनः पुनः ॥३-६०-३५॥
Vālmīki 3.60.36
इति एवम् विलपन् रामः परिधावन् वनात् वनम् ।क्वचित् उद् भ्रमते वेगात् क्वचित् विभ्रमते बलात् ॥३-६०-३६॥
Vālmīki 3.60.37
क्वचित् मत्त इव आभाति कांता अन्वेषण तत्परः ।स वनानि नदीः शैलान् गिरि प्रस्रवणानि च ।काननानि च वेगेन भ्रमति अपरिसंस्थितः ॥३-६०-३७॥
Vālmīki 3.60.38
तदा स गत्वा विपुलम् महत् वनम्परीत्य सर्वम् तु अथ मैथिलीम् प्रति ।अनिष्ठित आशः स चकार मार्गणेपुनः प्रियायाः परमम् परिश्रमम् ॥३-६०-३८॥

Navigation

Continue with Araṇya-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷