🪷 अरण्यकाण्ड · Sarga 58

Araṇya-Kāṇḍa · The Book of the Forest · Sarga 58 · 20 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 3.58local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 3.58.1
स दृष्ट्वा लक्ष्मणम् दीनम् शून्यम् दशरथ आत्मजः ।पर्यपृच्छत धर्माअत्मा वैदेहीम् आगतम् विना ॥३-५८-१॥
Vālmīki 3.58.2
प्रस्थितम् दण्डक अरण्यम् या माम् अनुजगाम ह ।क्व सा लक्ष्मण वैदेही याम् हित्वा त्वम् इह आगतः ॥३-५८-२॥
Vālmīki 3.58.3
राज्य भ्रष्टस्य दीनस्य दण्डकान् परिधावतः ।क्व सा दुःख सहाया मे वैदेही तनु मध्यमा ॥३-५८-३॥
Vālmīki 3.58.4
याम् विना न उत्सहे वीर मुहूर्तम् अपि जीवितुम् ।क्व सा प्राण सहाया मे सीता सुर सुत उपमा ॥३-५८-४॥
Vālmīki 3.58.5
पतित्वम् अमराणाम् वा पृथिव्याः च अपि लक्ष्मण ।विना ताम् तपनीय आभाम् न इच्छेयम् जनक आत्मजाम् ॥३-५८-५॥
Vālmīki 3.58.6
कच्चित् जीवति वैदेही प्राणैः प्रियतरा मम ।कच्चित् प्रव्राजनम् वीर न मे मिथ्या भविष्यति ॥३-५८-६॥
Vālmīki 3.58.7
सीता निमित्तम् सौमित्रे मृते मयि गते त्वयि ।कच्चित् स कामा सुखिता कैकेयी सा भविष्यति ॥३-५८-७॥
Vālmīki 3.58.8
स पुत्र राज्याम् सिद्ध अर्थाम् मृत पुत्रा तपस्विनी ।उपस्थास्यति कौसल्या कच्चित् सौम्येन - सौम्य न - कैकयीम् ॥३-५८-८॥
Vālmīki 3.58.9
यदि जीवति वैदेही गमिष्याम्य् आश्रमम् पुनः ।सुवृत्ता यदि वृत्ता सा प्राणान् त्यक्ष्यामि लक्ष्मण ॥३-५८-९॥
Vālmīki 3.58.10
यदि माम् आश्रम गतम् वैदेही न अभिभाषते ।पुनः प्रहसिता सीता विनशिष्यामि लक्ष्मण ॥३-५८-१०॥
Vālmīki 3.58.11
ब्रूहि लक्ष्मण वैदेही यदि जीवति वा न वा ।त्वयि प्रमत्ते रक्षोभिः भक्षिता वा तपस्विनी ॥३-५८-११॥
Vālmīki 3.58.12
सुकुमारी च बाला च नित्यम् च अदुःख दर्शिनी ।मत् वियोगेन वैदेही व्यक्तम् शोचति दुर्मनाः ॥३-५८-१२॥
Vālmīki 3.58.13
सर्वथा रक्षसा तेन जिह्मेन सुदुरात्मना ।वदता लक्ष्मण इति उच्Cऐः तव अपि जनितम् भयम् ॥३-५८-१३॥
Vālmīki 3.58.14
श्रुतः च मन्ये वैदेह्या स स्वरः सदृशो मम ।त्रस्तया प्रेषितः त्वम् च द्रष्टुम् माम् शीघ्रम् आगतः ॥३-५८-१४॥
Vālmīki 3.58.15
सर्वथा तु कृतम् कष्टम् सीताम् उत्सृजता वने ।प्रतिकर्तुम् नृशंसानाम् रक्षसाम् दत्तम् अन्तरम् ॥३-५८-१५॥
Vālmīki 3.58.16
दुःखिताः खर घातेन राक्षसाः पिशित अशनाः ।तैः सीता निहता घोरैः भविष्यति न संशयः ॥३-५८-१६॥
Vālmīki 3.58.17
अहो अस्मि व्यसने मग्नः सर्वथा रिपु नाशन ।किम् तु इदानीम् करिष्यामि शंके प्राप्तव्यम् ईदृशम् ॥३-५८-१७॥
Vālmīki 3.58.18
इति सीताम् वरारोहाम् चिंतयन् एव राघवः ।आजगाम जन स्थानम् त्वरया सह लक्ष्मणः ॥३-५८-१८॥
Vālmīki 3.58.19
विगर्हमाणो अनुजम् आर्त रूपम्क्षुधा श्रमेण एव पिपासया च ।विनिःश्वसन् शुष्क मुखो विषण्णःप्रतिश्रयम् प्राप्य समीक्ष्य शून्यम् ॥३-५८-१९॥
Vālmīki 3.58.20
स्वम् आश्रमम् स प्रविगाह्य वीरोविहार देशान् अनुसृत्य कांश्चित् ।एतत् तत् इति एव निवास भूमौप्रहृष्ट रोमा व्यथितो बभूव ॥३-५८-२०॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷