🪷 अरण्यकाण्ड · Sarga 57

Araṇya-Kāṇḍa · The Book of the Forest · Sarga 57 · 23 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 3.57local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 3.57.1
राक्षसम् मृग रूपेण चरन्तम् काम रूपिणम् ।निहत्य रामो मारीचम् तूर्णम् पथि न्यवर्तत ॥३-५७-१॥
Vālmīki 3.57.2
तस्य संत्वरमाणस्य द्रष्टु कामस्य मैथिलीम् ।क्रूर स्वरो अथ गोमायुः विननाद अस्य पृष्ठतः ॥३-५७-२॥
Vālmīki 3.57.3
स तस्य स्वरम् आज्ञाय दारुणम् रोम हर्षणम् ।चिंतयामास गोमायोः स्वरेण परिशन्कितः ॥३-५७-३॥
Vālmīki 3.57.4
अशुभम् बत मन्ये अहम् गोमायुः वाश्यते यथा ।स्वस्ति स्यात् अपि वैदेह्या राक्षसैः भक्षणम् विना ॥३-५७-४॥
Vālmīki 3.57.5
मारीचेन तु विज्ञाय स्वरम् आलक्ष्य मामकम् ।विक्रुष्टम् मृग रूपेण लक्ष्मणः शृणुयात् यदि ॥३-५७-५॥
Vālmīki 3.57.6
स सौमित्रिः स्वरम् श्रुत्वा ताम् च हित्वा अथ मैथिलीम् ।तया एव प्रहितः क्षिप्रम् मत् सकाशम् इह एष्यति ॥३-५७-६॥
Vālmīki 3.57.7
राक्षसैः सहितैर् नूनम् सीताया ईप्सितो वधः ।कांचनः च मृगो भूत्वा व्यपनीय आश्रमात् तु माम् ॥३-५७-७॥
Vālmīki 3.57.8
दूरम् नीत्वा अथ मारीचो राक्षसो अभूत् शर आहतः ।हा लक्ष्मण हतो अस्मि इति यत् वाक्यम् व्यजहार ह ॥३-५७-८॥
Vālmīki 3.57.9
अपि स्वस्ति भवेत् द्वाभ्याम् रहिताभ्याम् मया वने ।जनस्थान निमित्तम् हि कृत वैरो अस्मि राक्षसैः ॥३-५७-९॥
Vālmīki 3.57.10
निमित्तानि च घोराणि दृश्यन्ते अद्य बहूनि च ।इति एवम् चिंतयन् रामः श्रुत्वा गोमायु निःस्वनम् ॥३-५७-१०॥
Vālmīki 3.57.11
निवर्तमानः त्वरितो जगाम आश्रमम् आत्मवान् ।आत्मनः च अपनयनम् मृग रूपेण रक्षसा ॥३-५७-११॥
Vālmīki 3.57.12
आजगाम जनस्थानम् राघवः परिशन्कितः ।तम् दीन मानसम् दीनम् आसेदुः मृग पक्षिणः ॥३-५७-१२॥
Vālmīki 3.57.13
सव्यम् कृत्वा महात्मानम् घोराम् च ससृजुः स्वरान् ।तानि दृष्ट्वा निमित्तानि महाघोराणि राघवः ।न्यवर्तत अथ त्वरितो जवेन आश्रमम् आत्मनः ॥३-५७-१३॥
Vālmīki 3.57.14
ततो लक्षणम् आयान्तम् ददर्श विगत प्रभम् ।ततो अविदूरे रामेण समीयाय स लक्ष्मणः ॥३-५७-१४॥
Vālmīki 3.57.15
विषण्णः स विषण्णेन दुःखितो दुःख भागिना ।संजगर्हे अथ तम् भ्राता दृष्टा लक्ष्मणम् आगतम् ॥३-५७-१५॥
Vālmīki 3.57.16
विहाय सीताम् विजने वने राक्षस सेविते ।गृहीत्वा च करम् सव्यम् लक्ष्मणम् रघुनंदनः ॥३-५७-१६॥
Vālmīki 3.57.17
उवाच मधुर उदर्कम् इदम् परुषम् आर्तवत् ।अहो लक्ष्मण गर्ह्यम् ते कृतम् यः त्वम् विहाय ताम् ॥३-५७-१७॥
Vālmīki 3.57.18
सीताम् इह आगतः सौम्य कच्चित् स्वस्ति भवेत् इति ।न मे अस्ति संशयो वीर सर्वथा जनकात्मजा ॥३-५७-१८॥
Vālmīki 3.57.19
विनष्टा भक्षिता वा अप राक्षसैः वन चारिभिः ।अशुभानि एव भूयिष्ठम् यथा प्रादुर् भवन्ति मे ॥३-५७-१९॥
Vālmīki 3.57.20
अपि लक्ष्मण सीतायाः सामग्र्यम् प्राप्नुयावहे ।जीवन्त्याः पुरुषव्याघ्र सुताया जनक्स्य वै ॥३-५७-२०॥
Vālmīki 3.57.21
यथा वै मृग संघाःअ गोमायुः च भैरवम् ।वाश्यन्ते शकुनाः च अपि प्रदीप्ताम् अभितो दिशम् ।अपि स्वस्ति भवेत् तस्या राज पुत्र्या महाबल ॥३-५७-२१॥
Vālmīki 3.57.22
इदम् हि रक्षो मृग संनिकाशम्प्रलोभ्य माम् दूरम् अनुप्रयातम् ।हतम् कथंचित् महता श्रमेणस राक्षसो अभूत् म्रियमाण एव ॥३-५७-२२॥
Vālmīki 3.57.23
मनः च मे दीनम् इह अप्रहृष्टम्चक्षुः च सव्यम् कुरुते विकारम् ।असंशयम् लक्ष्मण न अस्ति सीताहृता मृता वा पथि वर्तते वा ॥३-५७-२३॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷