🪷 Atharvaveda 9.6

Navama-Kāṇḍa · Sūkta 6

अतिथि-सत्कारः। १-६२ (षट् पर्यायाः) ब्रह्माः। अतिथिः, विद्या। (१) १-१७, नागीनाम त्रिपदा गायत्री, २ त्रिपदाऽर्षी गायत्री, ३,७ साम्नी त्रिष्टुप्, ४,९ आर्च्यनुष्टुप्, ५ आसुरी गायत्री, ६ त्रिपदा साम्नी जगती, ८ याजुषी त्रिष्टुप्, १० साम्नी भुरिग्बृहती, ११,१४-१६ साम्न्यनुष्टुप्, १२ विराड् गायत्री, १३ साम्नि निचृत्पङ्क्तिः, १७ त्रिपदा विराड् भुरिग्गायत्री। यो वि॒द्याद् ब्रह्म॑ प्र॒त्यक्षं॒ परूं॑षि॒ यस्य॑ संभा॒रा ऋचो॒ यस्या॑नू॒क्यऽम्॥१॥ सामा॑नि॒ यस्य॒ लोमा॑नि॒ यजु॒र्हृद॑यमु॒च्यते॑ परि॒स्तर॑णा॒मिद्ध॒विः ॥२॥ यद् वा अति॑थिपति॒रति॑थीन् प्रति॒पश्य॑ति देव॒यज॑नं॒ प्रेक्ष॑ते ॥३॥ यद॑भि॒वद॑ति दी॒क्षामुपै॑ति॒ यदु॑द॒कं याच॑त्य॒पः प्र ण॑यति ॥४॥ या ए॒व य॒ज्ञ आपः॑ प्रणी॒यन्ते॒ ता ए॒व ताः ॥५॥ यत् तर्प॑णमा॒हर॑न्ति॒ य ए॒वाग्नी॑षो॒मीयः॑ प॒शुर्ब॒ध्यते॒ स ए॒व सः ॥६॥ यदा॑वस॒थान् क॒ल्पय॑न्ति सदोहविर्धा॒नान्ये॒व तत् क॑ल्पयन्ति ॥७॥ यदु॑पस्तृ॒णन्ति॑ ब॒र्हिरे॒व तत्॥८॥ यदु॑परिशय॒नमा॒हर॑न्ति स्व॒र्गमे॒व तेन॑ लो॒कमव॑ रुन्द्धे ॥९॥ यत् क॑शिपूपबर्ह॒णमा॒हर॑न्ति परि॒धय॑ ए॒व ते॥१०॥ यदा॑ञ्जनाभ्यञ्ज॒नमा॒हर॒न्त्याज्य॑मे॒व तत्॥११॥ यत् पु॒रा प॑रि॒वेषात् स्वा॒दमा॒हर॑न्ति पुरो॒डाशा॑वे॒व तौ॥१२॥ यद॑शन॒कृतं॒ ह्वय॑न्ति हवि॒ष्कृत॑मे॒व तद्ध्व॑यन्ति ॥१३॥ ये व्री॒हयो॒ यवा॑ निरु॒प्यन्तें॒ऽशव॑ ए॒व ते॥१४॥ यान्यु॑लूखलमुस॒लानि॒ ग्रावा॑ण ए॒व ते॥१५॥ शूर्पं॑ प॒वित्रं॒ तुषा॑ ऋजी॒षाभि॒षव॑णी॒रापः॑ ॥१६॥ स्रुग् दर्वि॒र्नेक्ष॑णमा॒यव॑नं द्रोणकल॒शाः कु॒म्भ्योऽ वाय॒व्या॒ऽनि॒ पात्रा॑णी॒यमे॒व कृ॑ष्णाजि॒नम्॥१७॥ (२) १८-३० (१-१३) १ विराट् पुरस्ताद्बृहती, २, १२ साम्नी त्रिष्टुप्, ३ आसुरी अनुषटुप्, ४ साम्नी उष्णिक्, ५,११ साम्नी बृहती (११ भुरिक्) ६ आर्च्यनुष्टुप्, ७ त्रिपदा स्वराडनुष्टुप्, ८ आसुरी गायत्री, ९ साम्नी अनुष्टुप्, १० त्रिपदाऽर्ची त्रिष्टुप्, १३ त्रिपदाऽर्ची पङ्क्तिः (७ पञ्चपदा विराट् पुरस्ताद्बृहती, ८ साम्न्यनुष्टुप् वा) य॒ज॒मा॒न॒ब्रा॒ह्म॒णं वा ए॒तदति॑थिपतिः कुरुते॒ यदा॑हा॒र्याऽणि॒ प्रेक्ष॑त इ॒दं भू॑या३ इ॒दा३मिति॑ ।१। १८॥ यदाह॒ भूय॒ उद्ध॒रेति॑ प्रा॒णमे॒व तेन॒ वर्षी॑यांसं कुरुते ।२। १९॥ उप॑ हरति ह॒वींष्या सा॑दयति ।३। २०॥ तेषा॒मास॑न्नाना॒मति॑थिरा॒त्मन् जु॑होति ।४। २१॥ स्रु॒चा हस्ते॑न प्रा॒णे यूपे॑ स्रुक्का॒रेण॑ वषट्का॒रेण॑ ।५। २२॥ ए॒ते वै प्रि॒याश्चाप्रि॑याश्च॒र्त्विजः॑ स्व॒र्गं लो॒कं ग॑मयन्ति॒ यदति॑थयः ।६। २३॥ स य ए॒वं वि॒द्वान् न द्वि॒षन्न॑श्नीया॒न्न द्वि॑ष॒तोऽन्न॑मश्नीया॒न्न मी॑मांसि॒तस्य॒ न मी॑मां॒समा॑नस्य ।७। २४॥ सर्वो॒ वा ए॒ष ज॒ग्धपा॑प्मा॒ यस्यान्न॑म॒श्नन्ति॑ ।८। ॥२५॥ सर्वो॒ वा ए॒षोऽज॑ग्धपाप्मा॒ यस्यान्नं॒ नाश्नन्ति॑ ।९। २६॥ स॒र्व॒दा वा ए॒ष यु॒क्तग्रा॑वा॒र्द्रप॑वित्रो॒ वित॑ताध्वर॒ आहृ॑तयज्ञक्रतु॒र्य उ॑पहर॑ति ।१०। २७॥ प्रा॒जा॒प॒त्यो वा ए॒तस्य॑ य॒ज्ञो वित॑तो॒ य उ॑प॒हर॑ति ।११। २८॥ प्र॒जाप॑ते॒र्वा ए॒ष वि॑क्र॒मान॑नु॒विक्र॑मते॒ य उ॑प॒हर॑ति ।१२। २९॥ योऽति॑थीनां॒ स आ॑हव॒नीयो॒ यो वेश्म॑नि॒ स गार्ह॑पत्यो॒ यस्मि॒न् पच॑न्ति॒ स द॑क्षिणा॒ग्निः।१३ । ३०॥ (३) ३१-३९ (१-९) १-६, ९ त्रिपदा पिपीलिकमध्या गायत्री, ७ साम्नी बृहती, ८ पिपीलिकमध्योष्णिक्। इ॒ष्टं च॒ वा ए॒ष पू॒र्तं च॑ गृ॒हाणा॑मश्नाति॒ यः पूर्वोऽति॑थेर॒श्नाति॑ ।१। ३१॥ पय॑श्च॒ वा ए॒ष रसं॑ च॒ गृ॒हाणा॑मश्नाति॒ यः पूर्वोऽति॑थेर॒श्नाति॑ ।२। ३२॥ ऊ॒र्जां च॒ वा ए॒ष स्फा॒तिं च॑ गृ॒हाणा॑मश्नाति॒ यः पूर्वोऽति॑थेर॒श्नाति॑ ।३। ३३॥ प्र॒जां च॒ वा ए॒ष प॒शूंश्च॑ गृ॒हाणा॑मश्नाति॒ यः पूर्वोऽति॑थेर॒श्नाति॑ ।४। ३४॥ की॒र्तिं च॒ वा ए॒ष यश॑श्च गृ॒हाणा॑मश्नाति॒ यः पूर्वोऽति॑थेर॒श्नाति॑ ।५। ३५॥ श्रियं॑ च॒ वा ए॒ष सं॒विदं॑ च गृ॒हाणा॑मश्नाति॒ यः पूर्वोऽति॑थेर॒श्नाति॑ ।६। ३६॥ ए॒ष वा अति॑थि॒र्यच्छ्रोत्रि॑य॒स्तस्मा॒त् पूर्वो॒ नाश्नी॑यात् ।७। ३७॥ अ॒शि॒ताव॒त्यति॑थावश्नीयाद् य॒ज्ञस्य॑ सात्म॒त्वाय॑ य॒ज्ञस्यावि॑च्छेदाय॒ तद् व्र॒त॑म् ।८। ३८॥ ए॒तद् वा उ॒ स्वादी॑यो॒ यद॑धिग॒वं क्षी॒रं वा॑ मां॒सं वा॒ तदे॒व नाश्नी॑यात् ।९। ३९॥ (४) ४०-४४ (१-१०) १-४ प्राजापत्यानुष्टुप्, २-५ त्रिपदा गायत्री, ९ भुरिक्, १० चतुष्पदा प्रस्तारपङ्क्तिः। स य ए॒वं वि॒द्वान् क्षी॒रमु॑प॒सिच्यो॑प॒हर॑ति ।१। याव॑दग्निष्टो॒मेने॒ष्ट्वा सुस॑मृद्धेनावरु॒न्धे ताव॑देने॒नाव॑ रुन्धे ।२। ४०॥ स य ए॒वं वि॒द्वान्त्स॒र्पिरु॑प॒सिच्यो॑प॒हर॑ति ।३। याव॑दतिरा॒त्रेणे॒ष्ट्वा सुस॑मृद्धेनावरु॒न्धे ताव॑देने॒नाव॑ रुन्धे ।४। ४१॥ स य ए॒वं वि॒द्वान् मधू॑प॒सिच्यो॑प॒हर॑ति ।५। याव॑त् सत्त्र॒सद्ये॑ने॒ष्ट्वा सुस॑मृद्धेनावरु॒न्धे ताव॑देने॒नाव॑ रुन्धे ।६। ४२॥ स य ए॒वं वि॒द्वान् मां॒समु॑प॒सिच्यो॑प॒हर॑ति ।७। याव॑द् द्वादशा॒हेने॒ष्ट्वा सुस॑मृद्धेनावरु॒न्धे ताव॑देनेनाव॑ रुन्धे ।८। ४३॥ स य ए॒वं वि॒द्वानु॑द॒कमु॑प॒सिच्यो॑प॒हर॑ति ।९। प्र॒जानां॑ प्र॒जन॑नाय गच्छति प्रति॒ष्ठां प्रि॒यः प्र॒जानां॑ भवति॒ य ए॒वं वि॒द्वानु॑द॒कमु॑प॒सिच्यो॑प॒हर॑ति ।१०। ४४॥ (५) ४५-४८ (१-१०) १ साम्नी उष्णिक्, २ पुर उष्णिक्, ३ साम्नी भुरिग्बृहती, ४ ६, ९ साम्नी अनुष्टुप्, ५ त्रिपदा निचृद्विषमा नाम गायत्री, ७ त्रिपदा विराड् विषमा नाम गायत्री, ८ त्रिपदा विराडनुष्टुप्। तस्मा॑ उ॒षा हिङ्कृ॑णोति सवि॒ता प्र स्तौ॑ति ।१। बृह॒स्पति॑रू॒र्जयोद्गा॑यति॒ त्वष्टा॒ पुष्ट्या॒ प्रति॑ हरति॒ विश्वे॑ दे॒वा नि॒धन॑म्।२। नि॒धनं॒ भूत्याः॑ प्र॒जायाः॑ पशू॒नां भ॑वति॒ य ए॒वं वेद॑ ।३। ४५॥ तस्मा॑ उ॒द्यन्त्सूर्यो॒ हिङ्कृ॑णोति संग॒वः प्र स्तौ॑ति ।४। म॒ध्यन्दि॑न॒ उद्गा॑यत्यपरा॒ह्णः प्रति॑ हरत्यस्तं॒यन् नि॒धन॑म्। नि॒धनं॒ भूत्याः॑ प्र॒जायाः॑ पशू॒नां भ॑वति॒ य ए॒वं वेद॑ ।५। ४६॥ तस्मा॑ अ॒भ्रो भव॒न् हिङ्कृ॑णोति स्त॒नय॒न् प्र स्तौ॑ति ।६। वि॒द्योत॑मानः॒ प्रति॑ हरति॒ वर्ष॒न्नुद्गा॑यत्युद्गृह्णन् नि॒धन॑म्। नि॒धनं॒ भूत्याः॑ प्र॒जायाः॑ पशू॒नां भ॑वति॒ य ए॒वं वेद॑ ।७। अति॑थी॒न् प्रति॑ पश्यति॒ हिङ्कृ॑णोत्य॒भि व॑दति॒ प्र स्तौ॑त्युद॒कं याच॒त्युद्गा॑यति ।८। ४७॥ उप॑ हरति॒ प्रति॑ हर॒त्युच्छि॑ष्टं नि॒धन॑म्।९। नि॒धनं॒ भूत्याः॑ प्र॒जायाः॑ पशू॒नां भ॑वति॒ य ए॒वं वेद॑ ।१०। ४८॥ (६) ४९-६२ (१-१४) १ आसुरी गायत्री, २ साम्नी अनुष्टुप्, ३,५ त्रिपदार्ची पङ्क्तिः, ४ एकपदा प्राजापत्या गायत्री, ६-११ आर्ची बृहती, १२ एकपदाऽऽसुरी जगती, १३ याजुषी त्रिष्टुप्, १४ एकपदाऽऽसुरी उष्णिक्। यत् क्ष॒त्तारं॒ ह्वय॒त्या श्रा॑वयत्ये॒व तत् ।१। ४९॥ यत् प्र॑तिशृ॒णोति॑ प्र॒त्याश्रा॑वयत्ये॒व तत् ।२। ५०॥ यत् प॑रिवे॒ष्टारः॒ पात्र॑हस्ताः॒ पूर्वे॒ चाप॑रे च प्र॒पद्य॑न्ते चम॒साध्व॑र्यव ए॒व ते ।३। ५१॥ तेषां॒ न कश्च॒नाहो॑ता ।४। ५२॥ यद् वा अति॑थिपति॒रति॑थीन् परि॒विष्य॑ गृ॒हानु॑पो॒दैत्य॑व॒भृथ॑मे॒व तदु॒पावै॑ति ।५। ५३॥ यत् स॑भा॒गय॑ति॒ दक्षि॑णाः सभागयति॒ यद॑नु॒तिष्ठ॑त उ॒दव॑स्यत्ये॒व तत् ।६। ५४॥ स उप॑हूतः पृथि॒व्यां भ॑क्षय॒त्युप॑हूत॒स्तस्मि॒न् यत् पृ॑थि॒व्यां वि॒श्वरू॑पम् ।७। ५५॥ स उप॑हूतो॒ऽन्तरि॑क्षे भक्षय॒त्युप॑हूत॒स्तस्मि॒न् यद॒न्तरि॑क्षे वि॒श्वरू॑पम् ।८। ५६॥ स उप॑हूतो दि॒वि भ॑क्षय॒त्युप॑हूत॒स्तस्मि॒न् यद् दि॒वि वि॒श्वरू॑पम् ।९। ५७॥ स उप॑हूतो दे॒वेषु॑ भक्षय॒त्युप॑हूत॒स्तस्मिन् यद् दे॒वेषु॑ वि॒श्वरू॑पम् ।१०। ५८॥ स उप॑हूतो लो॒केषु॑ भक्षय॒त्युप॑हूत॒स्तस्मि॒न्य यल्लो॒केषु॑ वि॒श्वरू॑पम् ।११। ५९॥ स उप॑हूत॒ उप॑हूतः ।१२। ६०॥ आ॒प्नोती॒मं लो॒कमा॒प्नोत्य॒मुम् ।१३। ६१॥ ज्योति॑ष्मतो लो॒कान् ज॑यति॒ य ए॒वं वेद॑ ।१४। ६२॥
— Atharvaveda Kāṇḍa 9 · Sūkta 6 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷