शत्रुबलनाशनम्।
१-३ अङ्गिराः। मन्त्रोक्ताः। १ गायत्री, २ विराट् पुरस्ताद् बृहती,
अपि॑ वृश्च पुराण॒वद् व्र॒तते॑रिव गुष्पि॒तम्।
ओजो॑ दा॒स्यस्य॑ दम्भय ॥१॥
व॒यं तद॑स्य॒ सम्भृ॑तं॒ वस्विन्द्रे॑ण॒ वि भ॑जामहै ।
म्ला॒पया॑मि भ्र॒जः शि॒भ्रं वरु॑णस्य व्र॒तेन॑ ते ॥२॥
यथा॒ शेपो॑ अ॒पाया॑तै स्त्री॒षु चास॒दना॑वयाः ।
अ॒व॒स्थस्य॑ क्न॒दीव॑तः शाङ्-कु॒रस्य॑ नितो॒दिनः॑ ।
यदात॑त॒मव॒ तत् त॑नु॒ यदुत्त॑तं॒ नि तत् त॑नु ॥३॥
— Atharvaveda Kāṇḍa 7 · Sūkta 90 · Śaunaka shākhā · Devanāgarī yathārtha