🪷 Atharvaveda 13.4

Trayodaśa-Kāṇḍa · Sūkta 4

अध्यात्मम्। (१-१३ प्रथमः पर्यायः।) १-११ प्राजापत्याऽनुष्टुप्; १२ विराड् गायत्री; १३आसुरी उष्णिक्। स ए॑ति सवि॒ता स्वऽर्दि॒वस्पृ॒ष्ठेऽव॒चाक॑शत्॥१॥ र॒श्मिभि॒र्नभ॒ आभृ॑तं महे॒न्द्र ए॒त्यावृ॑तः ॥२॥ स धा॒ता स वि॑ध॒र्ता स वा॒युर्नभ॒ उच्छ्रि॑तम्। र॒श्मिभि॒र्नभ॒ आभृ॑तं महे॒न्द्र ए॒त्यावृ॑तः ॥३॥ सोऽर्य॒मा स वरु॑णः॒ स रु॒द्रः स म॑हादे॒वः। र॒श्मिभि॒र्नभ॒ आभृ॑तं महे॒न्द्र ए॒त्यावृ॑तः ॥४॥ सो अ॒ग्निः स उ॒ सूर्यः॒ स उ॑ ए॒व म॑हाय॒मः। र॒श्मिभि॒र्नभ॒ आभृ॑तं महे॒न्द्र ए॒त्यावृ॑तः ॥५॥ तं व॒त्सा उप॑ तिष्ठ॒न्त्येक॑शीर्षाणो यु॒ता दश॑ । र॒श्मिभि॒र्नभ॒ आभृ॑तं महे॒न्द्र ए॒त्यावृ॑तः ॥६॥ प॒श्चात् प्राञ्च॒ आ त॑न्वन्ति॒ यदु॒देति॒ वि भा॑सति । र॒श्मिभि॒र्नभ॒ आभृ॑तं महे॒न्द्र ए॒त्यावृ॑तः ॥७॥ तस्यै॒ष मारु॑तो ग॒णः स ए॑ति शि॒क्याकृ॑तः ॥८॥ र॒श्मिभि॒र्नभ॒ आभृ॑तं महे॒न्द्र ए॒त्यावृ॑तः ॥९॥ तस्ये॒मे नव॒ कोशा॑ विष्ट॒म्भा न॑व॒धा हि॒ताः ॥१०॥ स प्र॒जाभ्यो॒ वि प॑श्यति॒ यच्च॑ प्रा॒णति॒ यच्च॒ न॥११॥ तमि॒दं निग॑तं॒ सहः॒ स ए॒ष एक॑ एक॒वृदेक॑ ए॒व॥१२॥ ए॒ते अ॑स्मिन् दे॒वा ए॑क॒वृतो॑ भवन्ति ॥१३॥
— Atharvaveda Kāṇḍa 13 · Sūkta 4 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷