🪷 Atharvaveda 11.6

Ekādaśa-Kāṇḍa · Sūkta 6

पापमोचनम्। १-२३ शन्तातिः। चन्द्रमाः, मन्त्रोक्ताः। अनुष्टुप्, २३ बृहतीगर्भा। अ॒ग्निं ब्रू॑मो॒ वन॒स्पती॒नोष॑धीरु॒त वी॒रुधः॑ । इन्द्रं॒ बृह॒स्पतिं॒ सूर्यं॒ ते नो॑ मुञ्च॒न्त्वंह॑सः ॥१॥ ब्रू॒मो राजा॑नं॒ वरु॑णं मि॒त्रं विष्णु॒मथो॒ भग॑म्। अंशं॒ विव॑स्वन्तं ब्रूम॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥२॥ ब्रू॒मो दे॒वं स॑वि॒तारं॑ धा॒तार॑मु॒त पू॒षण॑म्। त्वष्टा॑रमग्रि॒यं ब्रू॑म॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥३॥ ग॒न्ध॒र्वा॒प्स॒रसो॑ ब्रूमो अ॒श्विना॒ ब्रह्म॑ण॒स्पति॑म्। अ॒र्य॒मा नाम॒ यो दे॒वस्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥४॥ अ॒हो॒रा॒त्रे इ॒दं ब्रू॑मः सूर्याचन्द्र॒मसा॑वु॒भा। विश्वा॑नादि॒त्यान् ब्रू॑म॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥५॥ वातं॑ ब्रूमः प॒र्जन्य॑म॒न्तरि॑क्ष॒मथो॒ दिशः॑ । आशा॑श्च॒ सर्वा॑ ब्रूम॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥६॥ मु॒ञ्चन्तु॑ मा शप॒थ्याऽदहोरा॒त्रे अथो॑ उ॒षाः । सोमो॑ मा दे॒वो मु॑ञ्चतु॒ यमा॒हुश्च॒न्द्रमा॒ इति॑ ॥७॥ पार्थि॑वा दि॒व्यः प॒शव॑ आर॒ण्या उ॒त ये मृ॒गाः । श॒कुन्ता॑न् प॒क्षिणो॑ ब्रूम॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥८॥ भ॒वा॒श॒र्वावि॒दं ब्रू॑मो रु॒द्रं प॑शु॒पति॑श्च॒ यः । इषू॒र्या ए॑षां संवि॒द्म ता नः॑ सन्तु॒ सदा॑ शि॒वाः ॥९॥ दिवं॑ ब्रूमो॒ नक्ष॑त्राणि॒ भूमिं॑ य॒क्षाणि॒ पर्व॑तान्। स॒मु॒द्रा न॒द्योऽ वेश॒न्तास्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥१०॥ स॒प्त॒र्षीन् वा इ॒दं ब्रू॑मो॒ऽपो दे॒वीः प्र॒जाप॑तिम्। पि॒तॄन् य॒मश्रे॑ष्ठान् ब्रूम॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥११॥ ये दे॒वा दि॑वि॒षदो॑ अन्तरिक्ष॒सद॑श्च॒ ये। पृ॒थि॒व्यां श॒क्रा ये श्रि॒तास्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥१२॥ आ॒दि॒त्या रु॒द्रा वस॑वो दि॒वि दे॒वा अथ॑र्वाणः। अङ्गि॑रसो मनी॒षिण॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥१३॥ य॒ज्ञं ब्रू॑मो॒ यज॑मान॒मृचः॒ सामा॑नि भेष॒जा। यजूं॑षि॒ होत्रा॑ ब्रूम॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥१४॥ पञ्च॑ रा॒ज्यानि॑ वी॒रुधां॒ सोम॑श्रेष्ठानि ब्रूमः । द॒र्भो भङ्गो यवः॒ सह॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥१५॥ अ॒राया॑न् ब्रूमो॒ रक्षां॑सि स॒र्पान् पु॑ण्यज॒नान् पि॒तृन्। मृ॒त्यूनेक॑शतं ब्रूम॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥१६॥ ऋ॒तून् ब्रू॑म ऋतु॒पती॑नार्त॒वानु॒त हा॑य॒नान्। समाः॑ संवत्स॒रान् मासां॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥१७॥ एत॑ देवा दक्षिण॒तः प॒श्चात् प्राञ्च॑ उ॒देत॑ । पु॒रस्ता॑दुत्त॒राच्छ॒क्रा विश्वे॑ दे॒वाः स॒मेत्य॒ ते नो॑ मुञ्च॒न्त्वंह॑सः ॥१८॥ विश्वा॑न् दे॒वानि॒दं ब्रू॑मः स॒त्यसं॑धानृता॒वृधः॑ । विश्वा॑भिः॒ पत्नी॑भिः स॒ह ते नो॑ मुञ्च॒न्त्वंह॑सः ॥१९॥ सर्वा॑न् दे॒वानि॒दं ब्रू॑मः स॒त्यसं॑धानृता॒वृधः॑ । सर्वा॑भिः॒ पत्नी॑भिः स॒ह ते नो॑ मुञ्च॒न्त्वंह॑सः ॥२०॥ भू॒तं ब्रू॑मो भूत॒पतिं॑ भू॒ताना॑मु॒त यो व॒शी। भू॒तानि॒ सर्वा॑ सं॒गत्य॒ ते नो॑ मुञ्च॒न्त्वंह॑सः ॥२१॥ या दे॒वीः पञ्च॑ प्र॒दिशो॒ ये दे॒वा द्वाद॑श॒र्तवः॑ । सं॒व॒त्स॒रस्य॒ ये दंष्ट्रा॒स्ते नः॑ सन्तु॒ सदा॑ शि॒वाः ॥२२॥ यन्मात॑ली रथक्री॒तम॒मृतं॒ वेद॑ भेष॒जम्। तदिन्द्रो॑ अ॒प्सु प्रावे॑शय॒त् तदापो॑ दत्त भेष॒जम्॥२३॥
— Atharvaveda Kāṇḍa 11 · Sūkta 6 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷