🪷 Atharvaveda 11.10

Ekādaśa-Kāṇḍa · Sūkta 10

शत्रुनाशनम्। १-२७ भृग्वङ्गिराः। त्रिषन्धिः। अनुष्टुप्, १ विराट् पथ्याबृहती, २ त्र्यवसाना षट्-पदा त्रिष्टुब्गर्भाऽतिजगती, ३ विराडास्तारपङ्क्तिः, ४ विराट्, ८ विराट् त्रिष्टुप्, ९ पुरोविराट् पुरस्ताज्ज्योतिस्त्रिष्टुप्, १२ पञ्चपदा पथ्यापङ्क्तिः, १३ षट्-पदा जगती, १६ त्र्यवसाना षट्-पदा ककुम्मत्यनुष्टुप्त्रिष्टुब्गर्भा शक्वरी, १७ पथ्यापङ्क्तिः, २१ त्रिपदा गायत्री, २२ विराट् पुरस्ताद्बृहती, २५ ककुप्, २६ प्रस्तारपङ्क्तिः। उत् ति॑ष्ठत॒ सं न॑ह्यध्व॒मुदा॑राः के॒तुभिः॑ स॒ह। सर्पा॒ इत॑रजना॒ रक्षां॑स्य॒मित्रा॒ननु॑ धावत ॥१॥ ई॒शां वो॑ वेद॒ राज्यं॒ त्रिषं॑धे अरु॒णैः के॒तुभिः॑ स॒ह। ये अ॒न्तरि॑क्षे॒ ये दि॒वि पृ॑थि॒व्यां ये च॑ मान॒वाः। त्रिषं॑धे॒स्ते चेत॑सि दु॒र्णामा॑न॒ उपा॑सताम्॥२॥ अयो॑मुखाः सू॒चीमु॑खा॒ अथो॑ विकङ्क॒तीमु॑खाः । क्र॒व्यादो॒ वात॑रंहसः॒ आ स॑जन्त्व॒मित्रा॒न् वज्रे॑ण॒ त्रिषं॑धिना ॥३॥ अ॒न्तर्धे॑हि जातवेद॒ आदि॑त्य॒ कुण॑पं ब॒हु। त्रिषं॑धेरि॒यं सेना॒ सुहि॑तास्तु मे॒ वशे॑ ॥४॥ उत् ति॑ष्ठ॒ त्वं दे॑वज॒नार्बु॑दे॒ सेन॑या स॒ह। अ॒यं ब॒लिर्व॒ आहु॑त॒स्त्रिषं॑धे॒राहु॑तिः प्रि॒या॥५॥ शि॒ति॒प॒दी सं द्य॑तु शर॒व्ये॒३यं चतु॑ष्पदी । कृत्ये॒ऽमित्रे॑भ्यो भव॒ त्रिषं॑धेः स॒ह सेन॑या ॥६॥ धू॒मा॒क्षी सं प॑ततु कृधुक॒र्णी च॑ क्रोशतु । त्रिषं॑धेः॒ सेन॑या जि॒ते अ॑रु॒णाः स॑न्तु के॒तवः॑ ॥७॥ अवा॑यन्तां प॒क्षिणो॒ ये वयां॑स्य॒न्तरि॑क्षे दि॒वि ये चर॑न्ति । श्वाप॑दो॒ मक्षि॑काः॒ सं र॑भन्तामा॒मादो॒ गृध्राः॒ कुण॑पे रदन्ताम्॥८॥ यामिन्द्रे॑ण सं॒धां स॒मध॑त्था॒ ब्रह्म॑णा च बृहस्पते । तया॒हमि॑न्द्रसं॒धया॒ सर्वा॑न् दे॒वानि॒ह हु॑व इ॒तो ज॑यत॒ मामुतः॑ ॥९॥ बृह॒स्पति॑राङ्गिर॒स ऋष॑यो॒ ब्रह्म॑संशिताः । अ॒सु॒र॒क्षय॑णं व॒धं त्रिषं॑धिं दि॒व्याश्र॑यन्॥१०॥ येना॒सौ गु॒प्त आ॑दि॒त्य उ॒भाविन्द्र॑श्च॒ तिष्ठ॑तः। त्रिषं॑धि दे॒वा अ॑भज॒न्तौज॑से च॒ बला॑य च ॥११॥ सर्वां॑ल्लो॒कान्त्सम॑जयन् दे॒वा आहु॑त्या॒नया॑ । बृह॒स्पति॑राङ्गिर॒सो वज्रं॒ यमसिञ्चतासुर॒क्षय॑णं व॒धम्॥१२॥ बृह॒स्पति॑राङ्गिर॒सो वज्रं॒ यमसि॑ञ्चतासुर॒क्षय॑णं व॒धम्। तेना॒हम॒मूं सेनां॒ नि लि॑म्पामि बृहस्पते॒ऽमित्रा॑न् ह॒न्म्योज॑सा ॥१३॥ सर्वे॑ दे॒वा अ॒त्याय॑न्ति॒ ये अ॒श्नन्ति॒ वष॑ट् कृतम् । इ॒मां जु॑षध्व॒माहु॑तिमि॒तो ज॑यत॒ मामुतः॑ ॥१४॥ सर्वे॑ दे॒वा अ॒त्याय॑न्तु॒ त्रिष॑न्धे॒राहु॑तिः प्रि॒या। सं॒धां म॑ह॒तीं र॑क्षत॒ ययाग्रे॒ असु॑रा जि॒ताः ॥१५॥ वा॒युर॒मित्रा॑णामिष्व॒ग्राण्याञ्च॑तु । इन्द्र॑ एषां बा॒हून् प्रति॑ भनक्तु॒ मा श॑कन् प्रति॒धामिषु॑म्। आ॒दि॒त्य ए॑षाम॒स्त्रं वि ना॑शयतु च॒न्द्रमा॑ युता॒मग॑तस्य॒ पन्था॑म्॥१६॥ यदि॑ प्रे॒युर्दे॑वपु॒रा ब्रह्म॒ वर्मा॑णि चक्रि॒रे। त॒नू॒पानं॑ परि॒पाणं॑ कृण्वा॒ना यदु॑पोचि॒रे सर्वं॒ तद॑र॒सं कृ॑धि ॥१७॥ क्र॒व्यादा॑नुव॒र्तय॑न्मृ॒त्युना॑ च पु॒रोहि॑तम्। त्रिष॑न्धे॒ प्रेहि॒ सेन॑या॒ जया॒मित्रा॒न् प्र प॑द्यस्व ॥१८॥ त्रिष॑न्धे॒ तम॑सा॒ त्वम॒मित्रा॒न् परि॑ वारय । पृ॒ष॒दा॒ज्यप्र॑णुत्तानां॒ मामीषां॑ मोचि॒ कश्च॒न॥१९॥ शि॒ति॒प॒दी सं प॑तत्व॒मित्रा॑णाम॒मूः सिचः॑ । मुह्य॑न्त्व॒द्यामूः सेनाः॑ अ॒मित्रा॑नां न्यर्बुदे ॥२०॥ मू॒ढा अ॒मित्रा॑ न्यर्बुदे ज॒ह्येऽषां॒ वरं॑वरम्। अ॒नया॑ जहि॒ सेन॑या ॥२१॥ यश्च॑ कव॒ची यश्चा॑कव॒चो॒३मित्रो॒ यश्चाज्म॑नि । ज्या॒पा॒शैः क॑वचपा॒शैरज्म॑ना॒भिह॑तः शयाम्॥२२॥ ये व॒र्मिणो॒ येऽव॒र्माणो॑ अ॒मित्रा॒ ये च॑ व॒र्मिणः॑ । सर्वां॒स्तां अ॑र्बुदे ह॒तांछ्वानो॑ऽदन्तु॒ भूम्या॑म्॥२३॥ ये र॒थिनो॑ ये अ॑र॒था अ॑सा॒दा ये च॑ सा॒दिनः॑ । सर्वा॑नदन्तु॒ तान् ह॒तान् गृध्राः॑ श्ये॒नाः प॑त॒त्रिणः॑ ॥२४॥ स॒हस्र॑कुणपा शेतामामि॒त्री सेना॑ सम॒रे व॒धाना॑म्। विवि॑द्धा कक॒जाकृ॑ता ॥२५॥ म॒र्मा॒विधं॒ रोरु॑वतं सुप॒र्णैर॒दन्तु॑ दु॒श्चितं॑ मृदि॒तं शया॑नम्। य इ॒मां प्र॒तीची॒माहु॑तिम॒मित्रो॑ नो॒ युयु॑त्सति ॥२६॥ यां दे॒वा अ॑नु॒तिस्ठ॑न्ति॒ यस्या॒ नास्ति॑ वि॒राध॑नम्। तयेन्द्रो॑ हन्तु वृत्र॒हा वज्रे॑ण॒ त्रिषं॑धिना ॥२७॥
— Atharvaveda Kāṇḍa 11 · Sūkta 10 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷