🪷 सुन्दरकाण्ड · Sarga 24
Sundara-Kāṇḍa · The Book of Beauty · Sarga 24 · 49 ślokas
🪷 Devanāgarī Ślokas
प्रसक्ताश्रुमुखीत्येवं ब्रुवन्ती जनकात्मजा ।अधोमुखमुखी बाला विलप्तुमुपचक्रमे ।। ५.२४.१।।।। ॥५-२४-१॥
उन्मत्तेव प्रमत्तेव भ्रान्तचित्तेव शोचती ।उपावृत्ता किशोरीव विवेष्टन्ती महीतले ।। ५.२४.२।।।। ॥५-२४-२॥
राघवस्याप्रमत्तस्य रक्षसा कामरूपिणा ।रावणेन प्रमथ्याहमानीता क्रोशती बलात् ।। ५.२४.३।।।। ॥५-२४-३॥
राक्षसी वशमापन्ना भर्त्यमाना सुदारुणम् ।चिन्तयन्ती सुदुःखार्ता नाहं जीवितुमुत्सहे ।। ५.२४.४।।।। ॥५-२४-४॥
न हि मे जीवितेनार्थो नैवार्थैर्न च भूषणैः ।वसन्त्या राक्षसी मध्ये विना रामं महारथम् ।। ५.२४.५।।।। ॥५-२४-५॥
धिङ्मामनार्यामसतीं याहं तेन विना कृता ।मुहूर्तमपि रक्षामि जीवितं पापजीविता ।। ५.२४.६।।।। ॥५-२४-६॥
का च मे जीविते श्रद्धा सुखे वा तं प्रियं विना ।भर्तारं सागरान्ताया वसुधायाः प्रियं वदम् ।। ५.२४.७।।।। ॥५-२४-७॥
भिद्यतां भक्ष्यतां वापि शरीरं विसृजाम्यहम् ।न चाप्यहं चिरं दुःखं सहेयं प्रियवर्जिता ।। ५.२४.८।।।। ॥५-२४-८॥
चरणेनापि सव्येन न स्पृशेयं निशाचरम् ।रावणं किं पुनरहं कामयेयं विगर्हितम् ।। ५.२४.९।।।। ॥५-२४-९॥
प्रत्याख्यातं न जानाति नात्मानं नात्मनः कुलम् ।यो नृशंस स्वभावेन मां प्रार्थयितुमिच्छति ।। ५.२४.१०।।।। ॥५-२४-१०॥
छिन्ना भिन्ना विभक्ता वा दीप्ते वाग्नौ प्रदीपिता ।रावणं नोपतिष्ठेयं किं प्रलापेन वश् चिरम् ।। ५.२४.११।।।। ॥५-२४-११॥
ख्यातः प्राज्ञः कृतज्ञश्च सानुक्रोशश्च राघवः ।सद्वृत्तो निरनुक्रोशः शङ्के मद्भाग्यसङ्क्षयात् ।। ५.२४.१२।।।। ॥५-२४-१२॥
राक्षसानां जनस्थाने सहस्राणि चतुर्दश ।येनैकेन निरस्तानि स मां किं नाभिपद्यते ।। ५.२४.१३।।।। ॥५-२४-१३॥
निरुद्धा रावणेनाहमल्पवीर्येण रक्षसा ।समर्थः खलु मे भर्ता रावणं हन्तुमाहवे ।। ५.२४.१४।।।। ॥५-२४-१४॥
विराधो दण्डकारण्ये येन राक्षसपुङ्गवः ।रणे रामेण निहतः स मां किं नाभिपद्यते ।। ५.२४.१५।।।। ॥५-२४-१५॥
कामं मध्ये समुद्रस्य लङ्केयं दुष्प्रधर्षणा ।न तु राघवबाणानां गतिरोधी ह विद्यते ।। ५.२४.१६।।।। ॥५-२४-१६॥
किं नु तत्कारणं येन रामो दृढपराक्रमः ।रक्षसापहृतां भार्यामिष्टां नाभ्यवपद्यते ।। ५.२४.१७।।।। ॥५-२४-१७॥
इहस्थां मां न जानीते शङ्के लक्ष्मणपूर्वजः ।जानन्नपि हि तेजस्वी धर्षणां मर्षयिष्यति ।। ५.२४.१८।।।। ॥५-२४-१८॥
हृतेति योऽधिगत्वा मां राघवाय निवेदयेत् ।गृध्रराजोऽपि स रणे रावणेन निपातितः ।। ५.२४.१९।।।। ॥५-२४-१९॥
कृतं कर्म महत्तेन मां तदाभ्यवपद्यता ।तिष्ठता रावणद्वन्द्वे वृद्धेनापि जटायुषा ।। ५.२४.२०।।।। ॥५-२४-२०॥
यदि मामिह जानीयाद्वर्तमानां स राघवः ।अद्य बाणैरभिक्रुद्धः कुर्याल्लोकमराक्षसं ।। ५.२४.२१।।।। ॥५-२४-२१॥
विधमेच्च पुरीं लङ्कां शोषयेच्च महोदधिम् ।रावणस्य च नीचस्य कीर्तिं नाम च नाशयेत् ।।५.२४.२२।।।। ॥५-२४-२२॥
ततो निहतनथानां राक्षसीनां गृहे गृहे ।यथाहमेवं रुदती तथा भूयो न संशयः ।अन्विष्य रक्षसां लङ्कां कुर्याद्रामः सलक्ष्मणः ।। ५.२४.२३।।।। ॥५-२४-२३॥
न हि ताभ्यां रिपुर्दृष्टो मुहूतमपि जीवति ।चिता धूमाकुलपथा गृध्रमण्डलसङ्कुला ।अचिरेण तु लङ्केयं श्मशानसदृशी भवेत् ।। ५.२४.२४।।।। ॥५-२४-२४॥
अचिरेणैव कालेन प्राप्स्याम्येव मनोरथम् ।दुष्प्रस्थानोऽयमाख्याति सर्वेषां वो विपर्ययः ।। ५.२४.२५।।।। ॥५-२४-२५॥
यादृशानि तु दृश्यन्ते लङ्कायामशुभानि तु ।अचिरेणैव कालेन भविष्यति हतप्रभा ।। ५.२४.२६।।।। ॥५-२४-२६॥
नूनं लङ्का हते पापे रावणे राक्षसाधिपे ।शोषं यास्यति दुर्धर्षा प्रमदा विधवा यथा ।। ५.२४.२७।।।। ॥५-२४-२७॥
पुष्योत्सवसमृद्धा च नष्टभर्त्री सराक्षसा ।भविष्यति पुरी लङ्का नष्टभर्त्री यथाङ्गना ।। ५.२४.२८।।।। ॥५-२४-२८॥
नूनं राक्षसकन्यानां रुदन्तीनां गृहे गृहे ।श्रोष्यामि नचिरादेव दुःखार्तानाम् इह ध्वनिम् ।। ५.२४.२९।।।। ॥५-२४-२९॥
सान्धकारा हतद्योता हतराक्षसपुङ्गवा ।भविष्यति पुरी लङ्का निर्दग्धा रामसायकैः ।। ५.२४.३०।।।। ॥५-२४-३०॥
यदि नाम स शूरो मां रामो रक्तान्तलोचनः ।जानीयाद्वर्तमानां हि रावणस्य निवेशने ।। ५.२४.३१।।।। ॥५-२४-३१॥
अनेन तु नृशंसेन रावणेनाधमेन मे ।समयो यस्तु निर्दिष्टस्तस्य कालोऽयमागतः ।। ५.२४.३२।।।। ॥५-२४-३२॥
अकार्यं ये न जानन्ति नैरृताः पापकारिणः ।अधर्मात्तु महोत्पातो भविष्यति हि साम्प्रतम् ।। ५.२४.३३।।।। ॥५-२४-३३॥
नैते धर्मं विजानन्ति राक्षसाः पिशिताशनाः ।ध्रुवं मां प्रातराशार्थे राक्षसः कल्पयिष्यति ।। ५.२४.३४।।।। ॥५-२४-३४॥
साहं कथं करिष्यामि तं विना प्रियदर्शनम् ।रामं रक्तान्तनयनमपश्यन्ती सुदुःखिता ।। ५.२४.३५।।।। ॥५-२४-३५॥
यदि कश्चित्प्रदाता मे विषस्याद्य भवेदिह ।क्षिप्रं वैवस्वतं देवं पश्येयं पतिना विना ।। ५.२४.३६।।।। ॥५-२४-३६॥
नाजानाज्जीवतीं रामः स मां लक्ष्मणपूर्वजः ।जानन्तौ तौ न कुर्यातां नोर्व्यां हि मम मार्गणम् ।। ५.२४.३७।।।। ॥५-२४-३७॥
नूनं ममैव शोकेन स वीरो लक्ष्मणाग्रजः ।देवलोकमितो यातस्त्यक्त्वा देहं महीतले ।। ५.२४.३८।।।। ॥५-२४-३८॥
धन्या देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।मम पश्यन्ति ये नाथं रामं राजीवलोचनम् ।। ५.२४.३९।।।। ॥५-२४-३९॥
अथ वा न हि तस्यार्थे धर्मकामस्य धीमतः ।मया रामस्य राजर्षेर्भार्यया परमात्मनः ।। ५.२४.४०।।।। ॥५-२४-४०॥
दृश्यमाने भवेत्प्रीतः सौहृदं नास्त्यपश्यतः ।नाशयन्ति कृतघ्रास्तु न रामो नाशयिष्यति ।। ५.२४.४१।।।। ॥५-२४-४१॥
किं नु मे न गुणाः के चित्किं वा भाग्य क्षयो हि मे ।याहं सीता वरार्हेण हीना रामेण भामिनी ।। ५.२४.४२।।।। ॥५-२४-४२॥
श्रेयो मे जीवितान्मर्तुं विहीना या महात्मना ।रामादक्लिष्टचारित्राच्छूराच्छत्रुनिबर्हणात् ।। ५.२४.४३।।।। ॥५-२४-४३॥
अथ वा न्यस्तशस्त्रौ तौ वने मूलफलाशनौ ।भ्रातरौ हि नर श्रेष्ठौ चरन्तौ वनगोचरौ ।। ५.२४.४४।।।। ॥५-२४-४४॥
अथ वा राक्षसेन्द्रेण रावणेन दुरात्मना ।छद्मना घातितौ शूरौ भ्रातरौ रामलक्ष्मणौ ।। ५.२४.४५।।।। ॥५-२४-४५॥
साहमेवङ्गते काले मर्तुमिच्छामि सर्वथा ।न च मे विहितो मृत्युरस्मिन्दुःखेऽपि वर्तति ।। ५.२४.४६।।।। ॥५-२४-४६॥
धन्याः खलु महात्मानो मुनयः सत्यसंमताः ।जितात्मानो महाभागा येषां न स्तः प्रियाप्रिये ।। ५.२४.४७।।।। ॥५-२४-४७॥
प्रियान्न सम्भवेद्दुःखमप्रियादधिकं भयम् ।ताभ्यां हि ये वियुज्यन्ते नमस्तेषां महात्मनाम् ।। ५.२४.४८।।।। ॥५-२४-४८॥
साहं त्यक्ता प्रियेणेह रामेण विदितात्मना ।प्राणांस्त्यक्ष्यामि पापस्य रावणस्य गता वशम् ॥५-२४-४९॥
Navigation
- ← Previous: Sundara-Kāṇḍa Sarga 23
- Next: Sundara-Kāṇḍa Sarga 25 →
- Sundara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Sundara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷