🪷 किष्किन्धाकाण्ड · Sarga 11

Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 11 · 93 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 4.11.1
रामस्य वचनं श्रुत्वा हर्षपौरुषवर्धनम्।सुग्रीवः पूजयाञ्चक्रे राघवं प्रशशंस च ॥४-११-१॥
Vālmīki 4.11.2
असंशयं प्रज्वलितैस्तीक्ष्णैर्मर्मातिगैश्शरैः।त्वं दहेः कुपितो लोकान्युगान्त इव भास्करः ॥४-११-२॥
Vālmīki 4.11.3
वालिनः पौरुषं यत्तद्यच्च वीर्यं धृतिश्च या।तन्ममैकमनाश्श्रुत्वा विधत्स्व यदनन्तरम् ॥४-११-३॥
Vālmīki 4.11.4
समुद्रात्पश्चिमात्पूर्वं दक्षिणादपि चोत्तरम्।क्रामत्यनुदिते सूर्ये वाली व्यपगतक्लमः ॥४-११-४॥
Vālmīki 4.11.5
अग्राण्यारुह्य शैलानां शिखराणि महान्त्यपि।ऊर्ध्वमुत्क्षिप्य तरसा प्रतिगृह्णाति वीर्यवान् ॥४-११-५॥
Vālmīki 4.11.6
बहवस्सारवन्तश्च वनेषु विविधा द्रुमाः।वालिना तरसा भग्ना बलं प्रथयताऽत्मनः ॥४-११-६॥
Vālmīki 4.11.7
महिषो दुन्दुभिर्नाम कैलासशिखरप्रभः।बलं नागसहस्रस्य धारयामास वीर्यवान् ॥४-११-७॥
Vālmīki 4.11.8
वीर्योत्सेकेन दुष्टात्मा वरदानाच्च मोहितः।जगाम सुमहाकाय स्समुद्रं सरितां पतिम् ॥४-११-८॥
Vālmīki 4.11.9
ऊर्मिमन्तमभिक्रम्य सागरं रत्नसञ्चयम्।मह्यं युद्धं प्रयच्छेति तमुवाच महार्णवम् ॥४-११-९॥
Vālmīki 4.11.10
ततस्समुद्रो धर्मात्मा समुत्थाय महाबलः।अब्रवीद्वचनं राजन्नसुरं कालचोदितम् ॥४-११-१०॥
Vālmīki 4.11.11
समर्थो नास्मि ते दातुं युद्धं युद्धविशारद।श्रूयतां चाभिधास्यामि यस्ते युद्धं प्रदास्यति ॥४-११-११॥
Vālmīki 4.11.12
शैलराजो महारण्ये तपस्विशरणं परम्।शङ्करश्वशुरो नाम्ना हिमवानिति विश्रुतः ॥४-११-१२॥
Vālmīki 4.11.13
गुहाप्रस्रवणोपेतो बहुकन्दरनिर्दरः।स समर्थस्तव प्रीतिमतुलां कर्तुमाहवे ॥४-११-१३॥
Vālmīki 4.11.14
तं भीत इति विज्ञाय समुद्रमसुरोत्तमः।हिमवद्वनमागच्छच्छरश्चापादिव च्युतः ॥४-११-१४॥
Vālmīki 4.11.15
ततस्तस्य गिरेश्श्वेता गजेन्द्रविप्रलाश्शिलाः।चिक्षेप बहुधा भूमौ दुन्दुभिर्विननाद च ॥४-११-१५॥
Vālmīki 4.11.16
ततश्श्वेताम्बुदाकारः सौम्यः प्रीतिकराकृतिः।हिमवानब्रवीद्वाक्यं स्वे एव शिखरे स्थितः ॥४-११-१६॥
Vālmīki 4.11.17
क्लेष्टुमर्हसि मां न त्वं दुन्दुभे धर्मवत्सल।रणकर्मस्वकुशलस्तपस्विशरणं ह्यहम् ॥४-११-१७॥
Vālmīki 4.11.18
तस्य तद्वचनं श्रुत्वा गिरिराजस्य धीमतः। उवाच दुन्दुभिर्वाक्यं क्रोधात्संरक्तलोचनः ॥४-११-१८॥
Vālmīki 4.11.19
यदि युद्धेऽसमर्थस्त्वं मद्भयाद्वा निरुद्यमः।समाचक्ष्व प्रदद्यान्मे योऽद्य युद्धं युयुत्सतः ॥४-११-१९॥
Vālmīki 4.11.20
हिमवानब्रवीद्वाक्यं श्रुत्वा वाक्यविशारदः।अनुक्तपूर्वं धर्मात्मा क्रोधात्तमसुरोत्तमम् ॥४-११-२०॥
Vālmīki 4.11.21
वाली नाम महाप्राज्ञश्शक्रतुल्य पराक्रमः।अध्यास्ते वानरश्श्रीमान् किष्किन्धामतुलप्रभाम् ॥४-११-२१॥
Vālmīki 4.11.22
स समर्थो महाप्राज्ञस्तव युद्धविशारदः।द्वन्द्वयुद्धं महद्दातुं नमुचेरिव वासवः ॥४-११-२२॥
Vālmīki 4.11.23
तं शीघ्रमभिगच्छ त्वं यदि युद्धमिहेच्छसि।स हि दुर्धर्षणो नित्यं शूरस्समरकर्मणि ॥४-११-२३॥
Vālmīki 4.11.24
श्रुत्वा हिमवतो वाक्यं कोधाविष्टस्स दुन्दुभिः।जगाम तां पुरीं तस्य किष्किन्धां वालिनस्तदा ॥४-११-२४॥
Vālmīki 4.11.25
धारयन्माहिषं रूपं तीक्ष्णशृङ्गो भयावहः।प्रावृषीव महामेघस्तोयपूर्णो नभस्स्थले ॥४-११-२५॥
Vālmīki 4.11.26
ततस्तु द्वारमागम्य किष्किन्धाया महाबलः।ननर्द कम्पयन्भूमिं दुन्दुभिर्दुन्दुभिर्यथा ॥४-११-२६॥
Vālmīki 4.11.27
समीपस्थान्द्रुमान्भञ्जन्वसुधां दारयन्खुरैः।विषाणेनोल्लिखन् दर्पात्तद्द्वारं द्विरदो यथा ॥४-११-२७॥
Vālmīki 4.11.28
अन्तःपुरगतो वाली श्रुत्वा शब्दममर्षणः।निष्पपात सह स्त्रीभिस्ताराभिरिव चन्द्रमाः ॥४-११-२८॥
Vālmīki 4.11.29
मितं व्यक्ताक्षरपदं तमुवाचाथ दुन्दुभिम्।हरीणामीश्वरो वाली सर्वेषां वनचारिणाम् ॥४-११-२९॥
Vālmīki 4.11.30
किमर्थं नगरद्वारमिदं रुध्द्वा विनर्दसि।दुन्दुभे विदितो मेऽसि रक्षप्राणान्महाबल ॥४-११-३०॥
Vālmīki 4.11.31
तस्य तद्वचनं श्रुत्वा वानरेन्द्रस्य धीमतः।उवाच दुन्दुभिर्वाक्यं रोषात्संरक्तलोचनः ॥४-११-३१॥
Vālmīki 4.11.32
न त्वं स्त्रीसन्निधौ वीर वचनं वक्तुमर्हसि।मम युद्धं प्रयच्छाद्य ततो ज्ञास्यामि ते बलम् ॥४-११-३२॥
Vālmīki 4.11.33
अथवा धारयिष्यामि क्रोधमद्य निशामिमाम्।गृह्यतामुदयस्स्वैरं कामभोगेषु वानर ॥४-११-३३॥
Vālmīki 4.11.34
दीयतां सम्प्रदानं च परिष्वज्य च वानरान्।सर्वशाखामृगेन्द्र स्त्वं संसादय सुहृज्जनान् ॥४-११-३४॥
Vālmīki 4.11.35
सुदृष्टां कुरु किष्किन्धां कुरुष्वात्मसमं पुरे।क्रीडस्व च सह स्त्रीभिरहं ते दर्पनाशनः ॥४-११-३५॥
Vālmīki 4.11.36
यो हि मत्तं प्रमत्तं वा सुप्तं वा रहितं भृशम्।हन्यात्स भ्रूणहा लोके त्वद्विधं मदमोहितम् ॥४-११-३६॥
Vālmīki 4.11.37
स प्रहस्याब्रवीन्मन्दं क्रोधात्तमसुरोत्तमम्।विसृज्य ताः स्त्रियस्सर्वास्ताराप्रभृतिकास्तदा ॥४-११-३७॥
Vālmīki 4.11.38
मत्तोऽयमिति मा मंस्था यद्यभीतोऽसि संयुगे।मदोऽयं सम्प्रहारेऽस्मिन्वीरपानं समर्थ्यताम् ॥४-११-३८॥
Vālmīki 4.11.39
तमेवमुक्त्वा सङ्कृद्धो मालामुत्क्षिप्य काञ्चनीम्।पित्रा दत्तां महेन्द्रेण युद्धाय व्यवतिष्ठत ॥४-११-३९॥
Vālmīki 4.11.40
विषाणयोर्गृहीत्वा तं दुन्दुभिं गिरिसन्निभम्।आविध्यत तदा वाली विनदन्कपिकुञ्जरः ॥४-११-४०॥
Vālmīki 4.11.41
वाली व्यापातयाञ्चक्रे ननर्द च महास्वनम्।श्रोत्राभ्यामथ रक्तं तु तस्य सुस्राव पात्यतः ॥४-११-४१॥
Vālmīki 4.11.42
तयोस्तु क्रोधसंरम्भात्परस्परजयैषिणोः।युद्धं समभवद्घोरं दुन्दुभेर्वानरस्यच ॥४-११-४२॥
Vālmīki 4.11.43
अयुद्ध्यत तदा वाली शक्रतुल्यपराक्रमः।मुष्टिभिर्जानुभिश्चैव शिलाभिः पादपैस्तथा ॥४-११-४३॥
Vālmīki 4.11.44
परस्परं घ्नतो स्तत्र वानरासुरयोस्तदा।आसीदसुरो युद्धे शक्रसूनुर्व्यवर्धत ॥४-११-४४॥
Vālmīki 4.11.45
व्यापारवीर्यधैर्यैश्च परिक्षीणं पराक्रमैः।तं तु दुन्दुभिमुद्यम्य धरण्यामभ्यपातयत् ॥४-११-४५॥
Vālmīki 4.11.46
युद्धे प्राणहरे तस्मिन्निष्पिष्टो दुन्दुभिस्तदा।पपात च महाकायः क्षितौ पञ्चत्वमागतः ॥४-११-४६॥
Vālmīki 4.11.47
तं तोलयित्वा बाहुभ्यां गतसत्त्वमचेतनम्।चिक्षेप बलवान्वाली वेगेनैकेन योजनम् ॥४-११-४७॥
Vālmīki 4.11.48
तस्य वेगप्रविद्धस्य वक्त्रात्क्षतजबिन्दवः।प्रपेतुर्मारुतोत्क्षिप्ता मतङ्गप्याश्रमं प्रति ॥४-११-४८॥
Vālmīki 4.11.49
तान्दृष्ट्वा पतितांस्तस्य मुनिश्शोणितविप्रुषः।क्रुद्धस्तत्र महाभागश्चिन्तयामास कोन्वयम् ॥४-११-४९॥
Vālmīki 4.11.50
येनाहं सहसा स्पृष्टश्शोणितेन दुरात्मना। कोऽयं दुरात्मा दुर्भुदि्घरकृतात्मा च बालिशः ॥४-११-५०॥
Vālmīki 4.11.51
इत्युक्त्वाऽथ विनिष्क्रम्य ददर्श मुनिसत्तमः।महिषं पर्वताकारं गतासुं पतितं भुवि ॥४-११-५१॥
Vālmīki 4.11.52
स तु विज्ञाय तपसा वानरेण कृतं हि तत्।उत्ससर्ज महाशापं क्षेप्तारं वालिनं प्रति ॥४-११-५२॥
Vālmīki 4.11.53
इह तेनाप्रवेष्टव्यं प्रविष्टस्य वधो भवेत्।वनं मत्संश्रयं येन दूषितं रुधिरस्रवैः ॥४-११-५३॥
Vālmīki 4.11.54
सम्भग्नाः पादपाश्चैमेक्षिपतेहासुरीं तनुम्।समन्तादाद्योजनं पूर्णमाश्रमं मामकं यदि ॥४-११-५४॥
Vālmīki 4.11.55
ये चापि सचिवाः स्तस्य संश्रिता मामकं वनम् ॥४-११-५५॥
Vālmīki 4.11.56
यदि तेऽपी ह तिष्ठन्ति शपिष्ये तानपि ध्रुवम् ॥४-११-५६॥
Vālmīki 4.11.57
वनेऽस्मिन्मामके नित्यं पुत्रवत्परिरक्षिते।पत्राङ्कुरविनाशाय फलमूलाभवाय च ॥४-११-५७॥
Vālmīki 4.11.58
दिवसश्चास्य मर्यादा यं द्रष्टा श्वोऽस्मि वानरम्।बहुवर्षसहस्राणि स वै शैलो भविष्यति ॥४-११-५८॥
Vālmīki 4.11.59
ततस्ते वानराश्श्रुत्वा गिरं मुनिसमीरिताम्।निश्चक्रमुर्वनात्तस्मात्तान्दृष्ट्वा वालिरब्रवीत् ॥४-११-५९॥
Vālmīki 4.11.60
किं भवन्तस्समस्ताश्च मतङ्गवनवासिनः।मत्समीपमनुप्राप्ता अपि स्वस्ति वनौकसाम् ॥४-११-६०॥
Vālmīki 4.11.61
ततस्ते कारणं सर्वं तदा शापं च वालिनः।शशंसुर्वानरास्सर्वे वालिने हेममालिने ॥४-११-६१॥
Vālmīki 4.11.62
एतच्छ्रुत्वा तदा वाली वचनं वानरेरितम्।स महर्षिंतदाऽसाद्य याचते स्म कृताञ्जलिः ॥४-११-६२॥
Vālmīki 4.11.63
महर्षिस्तमनादृत्य प्रविवेशाश्रमं तदा।शापधारणभीतस्तु वाली विह्वलतां गतः ॥४-११-६३॥
Vālmīki 4.11.64
ततश्शापभयाद्भीत ऋश्यमूकं महागिरिम्।प्रवेष्टुं नेच्छति हरिर्द्रष्टुं वापि नरेश्वर ॥४-११-६४॥
Vālmīki 4.11.65
तस्याप्रवेशं ज्ञात्वाऽहमिदं राम महावनम्।विचरामि सहामात्यो विषादेन विवर्जितः ॥४-११-६५॥
Vālmīki 4.11.66
एषोऽस्थिनिचयस्तस्य दुन्दुभेस्सम्प्रकाशते।वीर्योत्सेकान्निरस्तस्य गिरिकूटोपमो महान् ॥४-११-६६॥
Vālmīki 4.11.67
इमे च विपुलास्सालास्सप्त शाखावलम्बिनः।यत्रैकं घटते वाली निष्पत्रयितुमोजसा ॥४-११-६७॥
Vālmīki 4.11.68
एतदस्यासमं वीर्यं मया राम प्रकीर्तितम्।कथं तं वालिनं हन्तुं समरे शक्ष्यसे नृप ॥४-११-६८॥
Vālmīki 4.11.69
तथा ब्रुवाणं सुग्रीवं प्रहसन् लक्ष्मणोऽब्रवीत्।कस्मिन्कर्मणि निर्वृत्ते श्रद्दध्या वालिनो वधम् ॥४-११-६९॥
Vālmīki 4.11.70
तमुवाचाथ सुग्रीवस्सप्त सालानिमान्पुरा।एवमेकैकशो वाली विव्याथाथ स चासकृत्। ॥४-११-७०॥
Vālmīki 4.11.71
रामोऽपिदारयेदेषां बाणेनैकेन च द्रुमम्।वालिनं निहतं मन्ये दृष्ट्वा रामस्य विक्रमम् ॥४-११-७१॥
Vālmīki 4.11.72
हतस्य महिषस्यास्थि पादेनैकेन लक्ष्मण।उद्यम्याथ प्रक्षिपेच्चेत्तरसा द्वे धनुश्शते ॥४-११-७२॥
Vālmīki 4.11.73
एवमुक्त्वा तु सुग्रीवो रामं रक्तान्तलोचनम्।ध्यात्वा मुहूर्तं काकुत्स्थं पुनरेव वचोऽब्रवीत् ॥४-११-७३॥
Vālmīki 4.11.74
शूरश्च शूरघाती च प्रख्यातबलपौरुषः।बलवान्वानरो वाली संयुगेष्वपराजितः ॥४-११-७४॥
Vālmīki 4.11.75
दृश्यन्ते चास्य कर्माणि दुष्कराणि सुरैरपि।यानि सञ्चिन्त्य भीतोऽहमृश्यमूकं समाश्रितः ॥४-११-७५॥
Vālmīki 4.11.76
तमजय्यमधृष्यं च वानरेन्द्रममर्षणम्।विचिन्तयन्न मुञ्चामि ऋश्यमूकमहन्विमम् ॥४-११-७६॥
Vālmīki 4.11.77
उद्विग्नश्शङ्कितश्चापि विचरामि महावने।अनुरक्तैः सहामात्यैर्हनुमत्प्रमुखैर्वरैः ॥४-११-७७॥
Vālmīki 4.11.78
उपलब्धं च मे श्लाघ्यं सन्मित्रं मित्रवत्सल।त्वामहं पुरुषव्याघ्र हिमवन्तमिवाश्रितः ॥४-११-७८॥
Vālmīki 4.11.79
किं तु तस्य बलज्ञोऽहं दुर्भ्रातुर्बलशालिनः।अप्रत्यक्षं तु मे वीर्यं समरे तव राघव ॥४-११-७९॥
Vālmīki 4.11.80
न खल्वहं त्वां तुलये नावमन्ये न भीषये।कर्मभिस्तस्य भीमैस्तु कातर्यं जनितं मम ॥४-११-८०॥
Vālmīki 4.11.81
कामं राघव ते वाणी प्रमाणं धैर्यमाकृतिः।सूचयन्ति परं तेजो भस्मच्छन्नमिवानलम् ॥४-११-८१॥
Vālmīki 4.11.82
तस्य तद्वचनं श्रुत्वा सुग्रीवस्य महात्मनः।स्मितपूर्वमथो रामः प्रत्युवाच हरिं प्रभुः ॥४-११-८२॥
Vālmīki 4.11.83
यदि न प्रत्ययोऽस्मासु विक्रमे तव वानर।प्रत्ययं समरे श्लाघ्यमहमुत्पादयामि ते ॥४-११-८३॥
Vālmīki 4.11.84
एवमुक्त्वा तु सुग्रीवं सान्त्वं लक्ष्मणपूर्वजः।राघवो दुन्दुभेः कायं पादाङ्गुष्ठेन लीलया ॥४-११-८४॥
Vālmīki 4.11.85
तोलयित्वा महाबाहुश्चिक्षेप दशयोजनम्।असुरस्य तनुं शुष्कं पादाङ्गुष्ठेन वीर्यवान् ॥४-११-८५॥
Vālmīki 4.11.86
क्षिप्तं दृष्ट्वा ततः कायं सुग्रीवः पुनरब्रवीत्।लक्ष्मणस्याग्रतो राममिदं वचनमर्थवत् ॥४-११-८६॥
Vālmīki 4.11.87
आर्द्रस्समांसः प्रत्यग्रः क्षिप्तः कायः पुरा सखे ॥४-११-८७॥
Vālmīki 4.11.88
लघुस्सम्प्रति निर्मांस स्तृणभूतश्च राघव।परिश्रान्तेन मत्तेन भ्रात्रा मे वालिना तदा ॥४-११-८८॥
Vālmīki 4.11.89
नात्र शक्यं बलं ज्ञातुं तव वा तस्य वाऽधिकम्।आर्द्रं शुष्कमिति ह्येतत्सुमहद्राघवान्तरम् ॥४-११-८९॥
Vālmīki 4.11.90
स एव संशयस्तात तव तस्य च यद्बले ॥४-११-९०॥
Vālmīki 4.11.91
कृत्वेदं कार्मुकं सज्यं हस्तिहस्त मिवाततम् ॥४-११-९१॥
Vālmīki 4.11.92
इमं हि सालं सहित स्त्वया शरोन संशयोऽत्रास्ति विदारयिष्यति।अलं विमर्शेन मम प्रियं ध्रुवंकुरुष्व राजात्मज शापितो मया ॥४-११-९२॥
Vālmīki 4.11.93
यथा हि तेजस्सु वरस्सदा रविर्यथा हि शैलो हिमवान्महाद्रिषु।यथा चतुष्पात्सु च केसरी वरस्तथा नरणामसि विक्रमे वरः ॥४-११-९३॥

Navigation

Continue with Kiṣkindhā-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷