🪷 अयोध्याकाण्ड · Sarga 51
Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 51 · 27 ślokas
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
तम् जाग्रतम् अदम्भेन भ्रातुर् अर्थाय लक्ष्मणम् ।गुहः सम्ताप सम्तप्तः राघवम् वाक्यम् अब्रवीत् ॥२-५१-१॥
इयम् तात सुखा शय्या त्वद् अर्थम् उपकल्पिता ।प्रत्याश्वसिहि साध्व् अस्याम् राज पुत्र यथा सुखम् ॥२-५१-२॥
उचितः अयम् जनः सर्वः क्लेशानाम् त्वम् सुख उचितः ।गुप्ति अर्थम् जागरिष्यामः काकुत्स्थस्य वयम् निशाम् ॥२-५१-३॥
न हि रामात् प्रियतरः मम अस्ति भुवि कश्चन ।ब्रवीम्य् एतत् अहम् सत्यम् सत्येन एव च ते शपे ॥२-५१-४॥
अस्य प्रसादात् आशम्से लोके अस्मिन् सुमहद् यशः ।धर्म अवाप्तिम् च विपुलाम् अर्थ अवाप्तिम् च केवलाम् ॥२-५१-५॥
सो अहम् प्रिय सखम् रामम् शयानम् सह सीतया ।रक्षिष्यामि धनुष् पाणिः सर्वतः ज्ञातिभिः सह ॥२-५१-६॥
न हि मे अविदितम् किम्चित् वने अस्मिमः चरतः सदा ।चतुर् अन्गम् हि अपि बलम् सुमहत् प्रसहेमहि ॥२-५१-७॥
लक्ष्मणः तम् तदा उवाच रक्ष्यमाणाः त्वया अनघ ।न अत्र भीता वयम् सर्वे धर्मम् एव अनुपश्यता ॥२-५१-८॥
कथम् दाशरथौ भूमौ शयाने सह सीतया ।शक्या निद्रा मया लब्धुम् जीवितम् वा सुखानि वा ॥२-५१-९॥
यो न देव असुरैः सर्वैः शक्यः प्रसहितुम् युधि ।तम् पश्य सुख सम्विष्टम् तृणेषु सह सीतया ॥२-५१-१०॥
यो मन्त्र तपसा लब्धो विविधैः च परिश्रमैः ।एको दशरथस्य एष पुत्रः सदृश लक्षणः ॥२-५१-११॥
अस्मिन् प्रव्रजितः राजा न चिरम् वर्तयिष्यति ।विधवा मेदिनी नूनम् क्षिप्रम् एव भविष्यति ॥२-५१-१२॥
विनद्य सुमहा नादम् श्रमेण उपरताः स्त्रियः ।निर्घोष उपरतम् तात मन्ये राज निवेशनम् ॥२-५१-१३॥
कौसल्या चैव राजा च तथैव जननी मम ।न आशम्से यदि जीवन्ति सर्वे ते शर्वरीम् इमाम् ॥२-५१-१४॥
जीवेद् अपि हि मे माता शत्रुघ्नस्य अन्ववेक्षया ।तत् दुह्खम् यत् तु कौसल्या वीरसूर् विनशिष्यति ॥२-५१-१५॥
अनुरक्त जन आकीर्णा सुख आलोक प्रिय आवहा ।राज व्यसन सम्सृष्टा सा पुरी विनशिष्यति ॥२-५१-१६॥
कथम् पुत्रम् महात्मानम् ज्येष्ठम् प्रियमपस्यतः ।शरीरम् धारयुष्यान्ति प्राणा राज्ञो महात्मनः ॥२-५१-१७॥
विनष्टे नृपतौ पश्चात्कौसल्या विनशिष्यति ।अनन्तरम् च माताऽपि मम नाशमुपैष्यति ॥२-५१-१८॥
अतिक्रान्तम् अतिक्रान्तम् अनवाप्य मनोरथम् ।राज्ये रामम् अनिक्षिप्य पिता मे विनशिष्यति ॥२-५१-१९॥
सिद्ध अर्थाः पितरम् वृत्तम् तस्मिन् काले हि उपस्थिते ।प्रेत कार्येषु सर्वेषु सम्स्करिष्यन्ति भूमिपम् ॥२-५१-२०॥
रम्य चत्वर सम्स्थानाम् सुविभक्त महा पथाम् ।हर्म्य प्रसाद सम्पन्नाम् गणिका वर शोभिताम् ॥२-५१-२१॥
रथ अश्व गज सम्बाधाम् तूर्य नाद विनादिताम् ।सर्व कल्याण सम्पूर्णाम् हृष्ट पुष्ट जन आकुलाम् ॥२-५१-२२॥
आराम उद्यान सम्पन्नाम् समाज उत्सव शालिनीम् ।सुखिता विचरिष्यन्ति राज धानीम् पितुर् मम ॥२-५१-२३॥
अपि जीवेद्धशरथो वनवासात्पुनर्वयम् ।प्रत्यागम्य महात्मानमपि पश्येम सुव्रतम् ॥२-५१-२४॥
अपि सत्य प्रतिज्ञेन सार्धम् कुशलिना वयम् ।निवृत्ते वन वासे अस्मिन्न् अयोध्याम् प्रविशेमहि ॥२-५१-२५॥
परिदेवयमानस्य दुह्ख आर्तस्य महात्मनः ।तिष्ठतः राज पुत्रस्य शर्वरी सा अत्यवर्तत ॥२-५१-२६॥
तथा हि सत्यम् ब्रुवति प्रजा हिते ।नर इन्द्र पुत्रे गुरु सौहृदात् गुहः ।मुमोच बाष्पम् व्यसन अभिपीडितः ।ज्वरा आतुरः नागैव व्यथा आतुरः ॥२-५१-२७॥
Navigation
- ← Previous: Ayodhyā-Kāṇḍa Sarga 50
- Next: Ayodhyā-Kāṇḍa Sarga 52 →
- Ayodhyā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷